Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 54
________________ प्रास्ताविक - टिप्पनीसूचितपरिशिष्टसंग्रह । ३१ र्षितः । निजावाससम्मुखं प्रौढं जिनालयं कारयित्वा स्थापितः । पृष्टम् - भोः सूरे ! श्रीवीरः पृष्टस्सन् किमप्युत्तरं दत्ते वा । सूरिराह-सर्वं कथयति । तदनु, अन्ते जवनिकां बद्धा सुरत्राणेनोक्तम्-अस्मिन्नगरे कियन्तः सुरत्राणा जाता: ? । वीरेणोक्तम्- सर्वेषां नामायूराज्यपदपालनपूर्वकं संख्यादि । तेनातीव हृष्टोऽभूत् । पुनः पृष्टम् - भवन्तः कियन्तः सन्ति ? । वीरेणोक्तम्-वयं ऋषभप्रभृतयः २४ संख्याः स्मः । तदनु अतिहृष्टेन तेन पंचाशतं द्रम्माणां प्रतिदिनं भोगपुष्पादि पूरितम् । परमेतत्सर्वं सूरिध्यानबलेनैव । तस्मिन्मेले जिनालयं कारितं येन निजावासस्थितो नित्यं प्रणामं करोति । एकदावसरे सूरिणा विजययत्रप्रभावः प्रोक्तः । तदनु पंचाशतद्रम्मैः स कारितः । सुरत्राणेन पृष्टम् - कः प्रभावः ? । सूरिणा कथितम् - यत्रायं यत्रो भवति तत्रारिः कोऽपि नायाति । ततः सुरत्राणेन निजच्छत्राधराखुर्व्यस्तः । ततो मा मुक्ता परं छत्रच्छायायां कथमपि ओतुनैति । अपरः प्रभावः - यस्य देहे असौ बध्यते तस्य प्रहारो न लगति । तदनु सुत्रान छागमानाय्य तस्य देहे विजययत्रो बद्धः । बहवः खड्गप्रहारा मुक्ताः परमेकोऽपि न लग्नः । एकदा सुरत्राणो गूर्जरधरित्रीं प्रति यात्राभिप्रायेण सूरिं प्राह- पांडे ! अहं कस्यां प्रतोत्यां निस्सरिष्यामीति पृष्ठे सूरिणा चिठडिकां लिखित्वा सर्ववृत्तान्तयुतां गोलकान्तस्तां क्षित्वा मुद्रां दत्त्वाऽर्पितो गोलकः । हे देव ! त्वया योगिनीपुर बहिर्गत्वा गोलकं स्फोटयित्वा वाचनीयमिति प्रोक्तम् । सुरत्राणेन तथा कृतम् । यत् सुराणः काकराख्यकोटस्य' एकत्रिंशच्छराणि पातयित्वा निस्सरिष्यति । तेनाभिज्ञानेन स हृष्टः । सच्छायमंजरीफल भ्राजिष्णोराम्रस्य तले सर्वकटकं मेलयित्वा प्रस्थानं साधितम् । तेन सूरिः पृष्टः - भो पांडे ! कीदृशो नयनानंदकारी सहकारोऽस्ति ? । सू० सत्यमेतत् । ततः सूरिणा वृक्षः प्रयाद्विकं सुरत्राणोपरि छायां कुर्वन् सार्द्धं चालितः । सूरिः सुरत्राणेन पृष्टः - भो पांडे ! असौ वृक्षः कस्मात्सार्द्धं समेति ? | सूरिणोचे-यदि सुरत्राणो विदाहिं ददाति तदा पश्चाद्वलित्वा स्वस्थाने याति नान्यथा । तदनु सुरत्राणेन विसर्जितश्चतो निजस्थाने गतः । स सूरिः कियत्प्रयाणैर्नागपुरादिमार्गेण मरुस्थल्यां प्राप । प्रतिग्रामं तन्निवासिनार्योऽक्षतनालिकेरकुसुममालाचन्दनादिभिः [ सूरिराजं ' ] सुरत्राणं च वर्द्धापयन्ति । स ताः सर्वा विलोक्य कंचन पार्श्वस्थ नरं प्राह - एताः स्त्रियो विभूषणपट्टकूल मौक्तिकादिभिर्विवर्जिताः कथम् ? । केनापि दंडिता वानीपाते पातिता वा; येनेहशीनिःश्रीका दृश्यते । (?) तदनु तेन नरेणोचे - हे देव ! अयं देशो निर्द्धनः स्वभावेनैव, अन्यत्किमपि कारणं नास्ति । ततः सुरत्राणेन परोपकारधिया प्रतिस्त्रियं । दीनारङ्ककाः स्वर्णमया: समर्प्य प्रणामं कृत्वा स्वगृहे प्रहिताः । एवं प्रतिग्रामं समस्तबिर्द्धन जनानामाशाः सफलयन पत्तनं यावत्पूर्वरीत्या प्राप । जंघरालनगरे बहिः कटकमुत्तरितम् । श्रीजिनप्रभसूरयः पत्तननगरं गच्छन्तः तपापक्षश्री सोमप्रभसूरिशालायामीयुः । श्रीसोमप्रभसूरिभिस्तेषां प्रशंसा कृता । श्रीप्रभूणां प्रभावादेव सम्प्रति श्री जिनधर्समाहात्म्यमस्ति इति । तैः प्रत्युक्तम्-वयमविरताः सुरत्राणेन सार्द्धं रात्रिंदिवं व्रजामः । सर्वदाऽस्वतन्त्राः । यूयँ चारित्रिणः । युष्माकमाधारे चारित्रमस्तीति । एवंविधप्रस्तावै साधुभिः प्रतिलेखनार्थं सिक्किको-' तारिता । एकस्य साधोः सिक्किका मूषकैर्जग्धा । तद्वचः श्रुत्वा श्रीसूरिभी रजोहरणं भ्रामितम् । ततः सर्वे मूषकाः शाला [तो बहिः ] निःसृत्य सूरेर उपविष्टाः । सूरिभिरुक्तम् - अहो आखव ! एते साधवः कीटिकाया अपि विरूपं न चिन्तयन्ति; भवद्भिः कस्माद्विनाशोऽकारि ? । पुनरुक्तम् वयं कस्यापि विरूपं न चिन्तयामः, एवं यः कश्चिदपराधी स तिष्ठतु, अन्ये गच्छन्तु । ततस्तस्य मूषकस्य देशपट्टी दत्तः, शालान्तर्न स्थेयम् । ततः स द्वारेण निःसृत्यान्यत्र गतः । कियद्दिनानि पत्तने स्थित्वा गूर्जरत्राव्यवहारिभिः सह सुराष्ट्रं प्रति चलितः । एकदा सूरिः पृष्टः - भो पांडे ! हीन्दूजनमध्ये किं तीर्थं बृहत् ? । सूरिराह - राजादनो दुग्धेन वर्षति । तदनु पातसाहिना संघपतीभूय पूजामहाध्वजाऽऽवारिकारात्रिकादिकं कृत्वा संघेन सार्द्धं सहस्रलोकेन सूरिभिः सह त्रिः प्रदक्षिणां कृत्वा राजादनितरोरधः स्थितम् । तावता सूरेर्ध्यानबलेन संघसहितसुरत्राणोपरि कुंकुमकेसरकर्पूरमिश्रं दुग्धं राजादनितो ववर्ष । ततश्चमत्कृतचित्तेन सुरत्राणेन सह गिरिनारं प्रति चलितः । तीर्थासन्नगतेन तेन सूरिः पृष्टः-अस्य तीर्थस्य कः प्रभावः ? । सूरिराह अच्छेद्येोऽभेद्योऽयम् । किन्तु वज्रमयी 1 प्र० - कोष्टस्य । 2 प्र० - वदाहि । 3 प्र०- 'वलित्वा' नास्ति । 4 प्र० - नागपुरनगरमार्गेण । ॐ प्रठ - एतैत्पदं नास्ति । - I Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220