Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 241
________________ अहो! कर्पूरमार्या अपूरिष्ट मनोरथः। अवकेशिनोऽपि वृक्षा यजाताः सफला अमी ॥३९०॥ 8 चरित्रम् तयोरेको लघुविप्रोऽवचित्य सुफलोच्चयम् । शीघ्रं ययौ द्वितीयस्तु तत्राऽस्थान्नृपजान्तिके ॥३९१॥ अथाऽवदत् कुमारस्तं हे विप्राविह को युवाम् ? । कारितं श्रीगृहं केन किं नीत्वाऽगात् फलान्यसौ ॥ अथो स विप्रः प्रोवाच गिरा प्रेमपवित्रया । जानीहि प्रथम देव ! रङ्गशाला पुरीमिमाम् ॥३९३॥ 8(विक्रमो नृपः-) विक्रमोऽत्र पतिः पाति पातितारिपतङ्गकः । भयान्धतमसाल्लोकं नीतिमार्गप्रदीपकः ॥३९४॥ (प्रीतिमती राज्ञी-) तस्य प्रीतिमती नाम पत्नी दृढपतिव्रता । सुप्ताऽन्यदा निश्यऽपश्यत् कर्पूरतरुमञ्जरीम् ।। ( कर्पूरमञ्जरी पुत्री-) संपूर्णसमये साऽथ समस्त सुतां सती। पिताऽपि तामतो नाम्ना चक्रे कर्पूरमञ्जरीम् ॥ ( सामदेवो दैवज्ञः-) सुतायां सप्तवार्षिक्यां तस्यां श्रीविक्रमो नृ । दैवज्ञं सामदेवाख्यं पप्रच्छे तद्वरं नरम् ॥ कन्याङ्गलक्षणान्येष वीक्ष्य मौहतिकोऽवदत् । वर्षेऽस्याः षोडशे भावी राधावेधकरो वरः ॥३९८॥ राजा श्रीविक्रमोऽवोचत् राधावेधस्य योग्यता । केन चिहुनेन विज्ञेया पुंसस्तस्येति भो! वद ॥३९९। सोऽवादीद् देव ! वाग्देवीमुपोष्याऽऽराध्य सत्वरम् । सर्व निवेदयिष्यामि तृतीये दिवसे तव ॥४०॥ १२४ सोमदेवस्तृतीयेऽहनि सभामभ्येत्य भूपतेः। पाणौ चूतफलान्युच्चैस्तदा पञ्च समापयत् ॥४०१॥ राजोचे किं फलैरेतैः कर्तव्यमथ सोऽब्रवीत्। अपितानि सरस्वत्या ममैतानि प्रसन्नया ॥४०२॥ गदितं च सरस्वत्या महालक्ष्मीगृहं महत् । कारितं विद्यतेऽग्रे यत् स्वर्णमूर्तिविभूषितम् ॥४०३॥ तत्र कर्पूरमञ्जर्या कन्यया निजपाणिना । प्रसादस्याऽस्य पाश्चात्य-भागे वाप्यान्यमून्यहो! ॥४०४॥ दिव्यस्वरूपा पञ्चाम्री ततस्तत्र परोक्ष्यति । साऽनिशं निर्मलैः सिंचनीया च कन्यया ॥४०॥ 00000000000000000000000000000000000000000000000000 00000000000000000000000000000000000000000000000000 Jain Education national For Private & Personal Use Only womainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318