Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 299
________________ पुण्डरीक- 8 संघाधिपं श्रीभरतं समग्राः सुधाभुजस्ते वसुधामुजश्च । ॥२९३॥ ४ < १२ स्नेहेन सुश्लाघ्य सुभूष्य हर्षाद् यथागतं पुण्यभृतोऽथ जग्मुः ॥ १५१ ॥ ( श्रादिजिमस्य परिवार : - ) युगादिदेवस्य भुवस्तलेऽस्मिन् यथाऽन्यतो बोधयतश्च भव्यान् । चतुर्युताऽशीतिसहस्रसंख्यास्तपोधना धर्मधना अभूवन् ॥ १५२ ॥ श्रीब्राह्मिका-सुन्दरिकादयस्तु लक्षत्रयेण प्रमिताः सुसाध्यः । श्राद्धास्त्रिलक्षाणि सहस्रपञ्चाशताऽधिकानि प्रबभूवुर ॥ १५३ ।। सुश्राविकाणामिह पञ्च लक्षाश्चतुष्कपञ्चाशदथो सहस्राः । चतुःसहस्री सह सप्तशत्या पञ्चाशताऽस्ति श्रुतधारिणां च ॥ १५४ ॥ इहाऽवधिज्ञानियतीश्वराणां जाताः सहस्रा नव संयमा याः ( व्याः ) सुनिर्मलाः केवलिनो मुनीन्द्राः संजज्ञिरे विंशतयः सहस्राः ॥ १५५ ॥ एतन्मिता वैक्रियलब्धिमन्तः षड्भिः शतैस्तेभ्य इहाऽधिकत्वम् । Jain Educationmational सहस्रका द्वादश षट्शतानि पञ्चाशदासीदिति वादिवृन्दम् ॥ १५६ ॥ एतन्मिता एव यतीश्वरास्ते ज्ञानं मनः पर्ययकं वहन्तः । द्वाविंशतिः संयमिनां सहस्राः विमानकान्यापुरनुत्तराणि ॥ १५७॥ श्रीपुण्डरीकप्रमुखा गणेशाश्चतुर्युताऽशीतिमिता बभूवुः । आयातोऽभूत् परिवार एष सुरासुरैर्वन्दितपादपद्मः ॥१५८ ॥ For Private & Personal Use Only 500000000 सर्गः -८ jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318