Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 308
________________ पुण्डरीक ॥३०२|| १२ 00100 सुकनकनलिकाभिः कामधानुष्कमुक्ता इव रजतशराणां राजयो रेजिरे ॥१५॥ युगपदर्भित उद्यद्याणिनीबाहशृङ्गप्रसृत सलिलवेणिश्रेणिगुम्फान्तरस्थो । भरतपति- सुभद्रा दम्पती रेजतुस्तौ किमु रति- रतिनाथौ रूप्य सन्मण्डपाधः ॥ १६॥ विविधकरविभूषाकान्तिजातेन्द्रचापान्तरसमुपगताभ्यः सत्कटाक्षैर्युताभ्यः । विपुलजलततिभ्यः कामबाणावलीभ्यः सभय इव पुरोधाद् वारणं प्रौढपद्मम् ॥ १७॥ अथ भरतनृपोऽपि प्रेयसीचित्तभूमी नवमनसिजवृक्षाङ्कुरराजिप्ररूढाम् । सपदि किल निनीषुर्वृद्धिमम्भोजपत्रप्रकटपटुपुटौधैर्वारिवाहोऽभ्यषिश्वत् ॥१८॥ भरतनृपतिमुक्ता निर्मला नीरधाराम्यकितवलितनारी कुन्तलालीनिलीनाः । किमु गगन गङ्गाः संमिलन्त्यो यमीभिः द्विजमनसिजपुण्यं स्नानतो वर्धयन्त्यः ॥१९॥ क्षितिपतिकरनिर्यनीर पूरस्फुरन्त्योऽङ्कितनयनमाला नाधिकानां विरेजुः । निजनिजहृदयोत्थस्येव मीनध्वजस्य ध्वजशफरगणः किं दृश्यते चञ्चलोऽयम् ॥२०॥ प्रबलन्नृपकराग्रात् पेतुषो वारिराशेढ कुचतटघातात् शीकरैः प्रोच्छलद्भिः । नरपतिवनितानामास्यशीतांशवोऽमी उड्डभिरिव समन्तादावृतास्तत्र रेजुः ॥२१॥ धरणिरमण एवं सर्वतः सर्वरामाश्चिरमिह रमयित्वाऽनङ्गरागाभिरामाः । सकलसलिलकेलो कोमलाऽङ्ग्यः कलाबानतिशिथिलितभावा भावयामास विज्ञः ||२२|| Jain Education International १ यमुनाभिः । For Private & Personal Use Only चरिभ | समाप्तिः ॥३०२|| jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318