________________
पुण्डरीक
॥३०२||
१२
00100
सुकनकनलिकाभिः कामधानुष्कमुक्ता इव रजतशराणां राजयो रेजिरे ॥१५॥ युगपदर्भित उद्यद्याणिनीबाहशृङ्गप्रसृत सलिलवेणिश्रेणिगुम्फान्तरस्थो ।
भरतपति- सुभद्रा दम्पती रेजतुस्तौ किमु रति- रतिनाथौ रूप्य सन्मण्डपाधः ॥ १६॥ विविधकरविभूषाकान्तिजातेन्द्रचापान्तरसमुपगताभ्यः सत्कटाक्षैर्युताभ्यः ।
विपुलजलततिभ्यः कामबाणावलीभ्यः सभय इव पुरोधाद् वारणं प्रौढपद्मम् ॥ १७॥ अथ भरतनृपोऽपि प्रेयसीचित्तभूमी नवमनसिजवृक्षाङ्कुरराजिप्ररूढाम् ।
सपदि किल निनीषुर्वृद्धिमम्भोजपत्रप्रकटपटुपुटौधैर्वारिवाहोऽभ्यषिश्वत् ॥१८॥ भरतनृपतिमुक्ता निर्मला नीरधाराम्यकितवलितनारी कुन्तलालीनिलीनाः ।
किमु गगन गङ्गाः संमिलन्त्यो यमीभिः द्विजमनसिजपुण्यं स्नानतो वर्धयन्त्यः ॥१९॥ क्षितिपतिकरनिर्यनीर पूरस्फुरन्त्योऽङ्कितनयनमाला नाधिकानां विरेजुः ।
निजनिजहृदयोत्थस्येव मीनध्वजस्य ध्वजशफरगणः किं दृश्यते चञ्चलोऽयम् ॥२०॥ प्रबलन्नृपकराग्रात् पेतुषो वारिराशेढ कुचतटघातात् शीकरैः प्रोच्छलद्भिः । नरपतिवनितानामास्यशीतांशवोऽमी उड्डभिरिव समन्तादावृतास्तत्र रेजुः ॥२१॥ धरणिरमण एवं सर्वतः सर्वरामाश्चिरमिह रमयित्वाऽनङ्गरागाभिरामाः ।
सकलसलिलकेलो कोमलाऽङ्ग्यः कलाबानतिशिथिलितभावा भावयामास विज्ञः ||२२||
Jain Education International
१ यमुनाभिः ।
For Private & Personal Use Only
चरिभ
| समाप्तिः
॥३०२|| jainelibrary.org