Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
Ecpooco0000000000000pcpoooo00000000000000000000MBER
इह केवलप्रतिभया कलिता भविनोऽभवन् दशसहस्रमिताः ॥५६॥ 8 (विमला चलप्रथमवीक्षणमहः--) अथ केवलोत्सवममी त्रिदशा विविधं व्यधुर्विधिविवेकविदः ।
विमलाचलप्रथमवीक्षणजं विदधे महं च भरताधिपतिः॥१७॥ विमलाद्रिमूर्तिमधिरोप्य पुरः परिपूज्य पूज्यजनपूजनकृत् ।
समितां घृतेन (?) सितया (?) प्रमितां निदधे मूढकसहस्रमिताम् ॥५८॥ स्वधर्मिणां त्रिदशनाथमथो सहित समग्रविबुधैः स हितम् ।
प्रचुराग्रहेण सुनिमन्त्रितवान् निजभोजनाय जननाथवरः ॥५९॥ विगतनसा स्वमनसा सुमनःपतिरेष किश्चिद्वगत्य महत् ।
अनुमन्यते स्म भरतस्य वचो महतां मतिः सुकृतवृद्धिकरी ॥६॥ निखिलानथो सुकृतिनो नृपतीन्-अभिमन्य चक्रधरसंघपतिः ।
इह लक्ष्यसंख्यमणिरत्नगृहान् समचीकरत् स्थपतिरत्नकरात् ॥११॥ अमरानसौ सुरपतिप्रमुखान् कनकासनेषु विनिवेश्य मुदा ।
मणिभाजनानि विविधानि पुरो बहुभक्तितः स्म किल मण्डयति ॥१२॥ मणि-हेम-रत्न-रजतान्युषंसि परिपाकपेशलरसानि भृशम् ।
समभोजयद् मधुसुहृत्समभोऽसमभोगतस्तदनु तोषितवान् ॥६३॥
DOOO000000000000000000000OOOCOOOOOOOOOOOOOOOOOOOSHREE
१ प्रातः । २ अनाप्रभः ।
Jain Education Sternational
For Private & Personal use only
jainelibrary.org

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318