Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 290
________________ -18| (तलवजनामा-) पुरत इतोऽस्ति तलध्वजनामा क्षितिधर एष निर्मलधामा । १२८४॥ ___ यस्य गुहासु समाधिसुधीराः सन्ति सदोषधसिद्धशरीराः ॥७९॥ 8 :(रेवतकपर्वतः-) सरैवतिकपर्वतो विमलशैलराजस्थ यः कुमार इव राजते क्षितिपराज! ते दृकूपुरतः । सुवर्णशिखरद्युता कपिशितांशुभरो यतः सितांशुरपि पद्मिनी निशि धिनोति सिद्धिभ्रमम् (?) ॥८॥ मणिपूतभूतलभूतनूतनचूतरराजिविराजितं शुचिसरससरसीसारसरसिजसुरभिरजसा रञ्जितम्। परिपाकपेशलहाररा(राजी)हारिहर्म्यकसंकुलं परिहरति गिरिवरमेन मनिशं नैव किन्नरवरकुलम् ॥८१॥ विमलस्मिता भृशविस्मिता गिरिशृङ्गसंगमरञ्जिताः। लसदगारगविवर्तनं रचयति निर्मलनर्तनम् ॥८२॥ विमलस्मिता भृशविस्मितस्मितललितनयनसरोरुहाः गिरिशृङ्गसंगमरजितस्थित ननसि सकलकलावहाः । लसदङ्गरविवर्तनालससरसकिन्नरसंगता रचयन्ति निर्मलनर्तनान्यतिमदन मदनरसं गताः ॥८॥ शशिमण्डलाननमण्डलाः श्रवणावतंसितकुण्डलाः। जनयन्ति संततडम्बरं निविडप्रभाभरमम्बरम् ॥८४॥ शशिमण्डलाननमण्डलद्युतिदलितकैरवजालिकाः श्रवणावतंसितकुण्डलक्ष नगण्डदर्पणपालिकाः। जनयन्ति संततडम्बरं धनवारिशीकरतालिकाः निविडप्रभाभरमम्बरं सुरसिडकिन्नरबालिकाः॥८५॥ निर्दम्भा रम्भा हर्षजुषः शृङ्गारागारालापपुषः । संसारं सारं रङ्गकृतं कुर्वन्त्योऽवन्त्यो दुःखभृतम् ॥८६॥ निर्दम्भा रम्भा हर्षजुषः सुखसखमणिभिः (?) सह हास्यश्रुताः शृङ्गारागारालापपुषः कषमुखकषितोत्तमकनकनिभाः। संसारं सारं रङ्गकृतं कृतकृतिजनताविततप्रमदाः कुर्वन्त्योऽवन्त्यो दुःखभृतं भृतधृतिमनसं सुमनःप्रमदम् ॥ 2000000000000000000000000000000000000000 Jain Education national For Private & Personal Use Only aliainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318