Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 286
________________ पुण्डरीक ५२८० ॥ ४ १२ प्रणनाम भूतलमिलन्मुकुटः प्रकटप्रमोदभरतो भरतः ||४८ || भरताधिपस्य च तथैव गणाधिपतेः पदद्मणमनात् समभूत् ॥ ४९ ॥ प्रथमाहतः प्रणमनप्रमदात् दुरितव्ययो गणधरस्य यथा । सुकृतोत्तरोत्तरपवित्रतरः सुकृती त्रिलोकजन हर्षकरः । चतुर्विधचतुरनिरः प्रचचाल संघ उदयत्प्रसरः ॥५०॥ ( स संघो वराणसिपुरीमगमत्— ) अथ संघ एवं पृथिवीमखिलामपि पावयन् प्रचुरपुण्यभरैः । अगमद् वराणसिपुरीं तु यतो न गरीयसी दिविषदां नगरी ॥५१॥ ( तेन संषेन अत्र विमलाचलो दृष्ट:-) बहुकालतोऽभिलषितं हृदये लिखितं युगादिजिनवाक्यरसैः । विमलाचलं प्रथितसिद्धगिरिं ददृशुर्भृशं शुचिदृशोऽत्र जनाः ॥५२ || स वराणसीपरिसरं सरसं गतवान् समग्रसुरसंगतवान् । विमलाचलप्रथमवीक्षणतो मुदितोऽजनि प्रथमसंघपतिः ॥५३॥ मणि - हेम-रूप्यमयवप्रवरत्रययुग् युतं च मणिपीठिकया । समशिश्रियद् जिनगृहं जिनपः सुरराज- संघपतिभक्तिभरात् ॥ ५४ ॥ इह सर्वजीवहृदयप्रमदमदमेष योजनविसर्पि तदा । Jain Education national वचनामृतं विमलशैलमहामहिमान्वितं शुचि ववर्ष जिनः ॥५५॥ प्रभुदेशनाश्रवणतो हि तदा हितदा भृशं विगत सर्वमलाः । For Private & Personal Use Only 1000000∞∞∞∞∞∞∞∞∞xxx000000000 चरित्रम् सर्गः -८ ॥२८०॥ jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318