Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
प्रमदाभिरत्र सह भूमिभुजां प्रमदाद् जगुर्जगति भूरिकरान् ॥२५॥ कनकात्म दिव्यवसनात्म तदा सुरगीतिकात्म सुकृतात्म मुदा । ॥२७७॥
जगतां हितात्म महितात्म भृशं तदयोध्यपत्तनमभूदनिशम् ॥२६॥ इति चत्वर-त्रिक-चतुष्क-महापथकेषु गीतनवनृत्यभरम् ।
प्रविलोकयन् प्रमदयन् भविकान् समचीचरद् निजरथं भरतः ॥ २७ ॥ 18 (शकटाननम् उद्यानम्-) शकटानने निजपुरोपवनेऽवनिपालन: स रथमेनमथ ।
सुकृती कृती सपदितं जगतः प्रमदेन निश्चलयति स्म समम् ॥२८॥ ( यत्रायै नृपाणां निमन्त्रणम्- ) विमलाचलं प्रति पियासुरसौ सुरसौहृदाद् भरतसंघपतिः।
भरतक्षितिस्थितिभृतः क्षितिपान् समजूहवत् सुकृतलाभकृते ॥२९॥ 18 भरतेशितुः शुभरतेर्वचनं क्षितिपा अवाप्य मुदिताः स्वहृदि ।
__ इति भावनां विदधिरे रुचिरा परमात्मनः सरसभोज्यनिभाम् ॥३०॥ प्रभवो भवन्ति न भवेऽत्र कति प्रभवेन्न केषु च जयो जगति ।
नरमाय कंचन रमा श्रयति ननु केषु नो भवति दानमतिः॥३१॥ किन्तु, प्रभुता शमप्रणयिनी नयनी विजयोऽस्य विक्रमशुचिः क्रमवान् ।
कमला गलन्मदकलङ्कमला सुगतेनिंदानमपि दानमिदम् ॥३२॥ २ सर्वाणि आत्माऽन्तपदानि भयोध्यापत्तनस्य विशेषणानि ।
2000000000000000000000000000000000000000000000
00000000000000000000000000
00000000000000000
॥२०॥
Jain Education
ational
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318