Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 8
________________ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे भाद्यः परिच्छेदः । साधकबाधकप्रमाणाभावात् अनवस्थितानेककोटिसंस्पर्शज्ञानं संशयः ॥ ११ ॥ साधकेति । उल्लिख्यमानस्थाणुस्व पुरुषत्वाद्यने कांशगोचरयोस्साधकबाधक- ३ प्रमाणयोरनुपलम्भात् ॥ ११ ॥ यथा अयं स्थाणुर्वा पुरुषो वेति ॥ १२ ॥ अयं प्रत्यक्षविषये संशयः । परोक्षविषये तु यथा क्वापि वने शृङ्गमात्र - ६ दर्शनात् किं गौरयं गवयो वेत्यादि ॥ १२ ॥ किमिति आलोचनमात्रमनध्यवसायः ॥ १३ ॥ किमिति । किमित्युलेखे नोत्पद्यमानं ज्ञानमात्रमनध्यवसायः । समारोप - ९ रूपत्वं चास्यापचारिकम् । अतस्मिंस्तदध्यवसायस्य तल्लक्षणस्याभावात् । समारोपनिमित्तं तु यथार्थापरिच्छेदकत्वमुदाहरन्ति ॥ १३ ॥ यथा गच्छतस्तृणस्पर्शज्ञानम् ॥ १४ ॥ यथेति । प्रत्यक्षयोग्यविषयश्चायमनध्यवसायः । परोक्षयोग्यो यथा कस्यचिदपरिज्ञातगोजातीयस्य क्वापि साखामात्रदर्शनात्पिण्डमात्रमनुमाय कोऽश्र प्राणी स्यादित्यादि ॥ १४ ॥ परशब्दं व्याख्याति - ज्ञानादन्योऽर्थः परः ॥ १५ ॥ स्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनम्, बाह्यस्येव तदाभि. १८ मुख्येन करिकलभकमहमात्मना जानामीति ॥ १६ ॥ १२ कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत मिहिरालोकचत् ॥ १७ ॥ १५ तदाभिमुख्येन बाह्याभिमुख्येन । यथा करिकलभकमिति प्रमेयस्य, अहमिति प्रमातुजीनामीति प्रमितेः प्रतिभासस्तथात्मनेति -प्रमाणत्वाभिमत- २१ ज्ञानस्याप्यस्त्येवेति भावः ॥ १६ ॥ २४ तदपीति ज्ञानम्, तत्प्रकारं प्रतिभातमित्यर्थः । यथा च गिर्यादिकं मिहिरालोकस्य विषयं प्रतिभातं मन्यमानैर्मिहिरालोकोऽपि प्रतिभातो मन्यते २६

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70