Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थपंचमौ परिच्छेदौ । ३१ तदपि न, समानार्थसमनन्तरप्रत्ययोत्पन्नज्ञानैर्व्यभिचारात् , तानि यथोक्तार्थव्यवस्थापकत्वलक्षणस्य समग्रस्य सद्भावेऽपि प्राच्यं जनकज्ञानक्षणं न गृह्णन्तीति ॥ ४७ ॥
इति चतुर्थः परिच्छेदः।
प्रमाणस्वरूपसंख्ये समाख्याय विषयमाचक्षतेतस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ ६ तस्येति । विषयः परिच्छेधं सामान्यविशेषावादिर्यस्य सदसदाद्यनेका. न्तस्य तत्तदात्मकमुच्यते ॥ १ ॥ एवंविधवस्तुसमर्थनार्थ साक्षाद्धेतुद्वयाभिधानमाहुः
अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थानखरूपपरिणत्यार्थक्रियासामर्थ्यघटनाञ्च ॥२॥
अन्विति । अनुगताकारानुवृत्तस्वभावा गौगौरित्यादिप्रतीतिर्विशिष्टाकारा १२ व्यावृत्तरूपा शबलः श्यामल इत्यादि प्रतीतिस्तद्गोचरत्वादिति तिर्यक्सामान्यगुणाख्यविशेषलक्षणानेकान्तात्मकवस्तुसिद्धौ हेतुः । प्राचीनोत्तराकारयोर्यथासङ्ख्येन ये परित्यागोपादाने ताभ्यां यदवस्थानं तत्स्वरूपपरिणामेणार्थ- १५ क्रियासामर्थ्यघटनात्कार्यकरणोपपत्तरित्यूर्ध्वतासामान्यपर्यायाख्यविशेषरूपानेकान्तारमकवस्तुसिद्धौ हेतुः, चकारात्सदसदायनेकान्तसमर्थकहेतवः सदस. दाकारप्रतीतिविषयत्वादयो द्रष्टव्याः ॥२॥ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्ध्वसामान्यं च ॥३॥ सामान्येति । तिर्यगुल्लेखिनानुवृत्ताकारप्रत्ययेण गृह्यमाणं तिर्यक्सामान्यम् । ऊर्ध्वमुल्लेखिना तूर्वसामान्यम् ॥ ३॥
प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिषु गोत्वं यथा ॥४॥
प्रतिव्यक्तीति । व्यक्ति व्यक्तिमधिश्रित्य समाना परिणतिस्तियक्सामान्यम् ॥ ४॥
३५

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70