Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 40
________________ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः । ३५ कर्तृक्रिययोरिति । ये साध्यसाधकभावेनोपलभ्येते ते भिन्ने यथा- - देवदत्तदारुच्छिदिक्रिये ॥ १८ ॥ एतद्धेत्वसिद्धतां प्रतिषेधयन्ति । कर्ता हि साधकः स्वतन्त्रत्वात् । क्रिया तु साध्या कर्तु निर्वर्त्यत्वात् ॥ १९ ॥ एनमेवार्थ द्रढयन्ति नच क्रिया क्रियावतः सकाशादभिन्नैव भिन्नैव वा प्रतिनियतक्रियावद्भावभङ्गप्रसङ्गात् ॥ २० ॥ नचेति । अभिन्नैवेत्यनेन तु वैशेषिकाद्यभिमतं भेदैकान्तं प्रतिक्षिपन्ति । ९ क्रियायाः क्रियावत एकान्तेनाभेदे क्रियावन्मात्रमेव तात्त्विकं स्यान्नतु द्वयमभेदप्रतिज्ञाविरोधात् । एकान्तभेदे तु क्रियाक्रियावतोर्विवक्षितपदार्थस्यैवेयं क्रियेति सम्बन्धावधारणं न स्यात्, भेदविशेषादविशेषवस्तूनामप्यसौ कथं न १२ भवेत् ? । तस्माद्भेदाभेदैकान्तपक्षयोः प्रतिनियतक्रिया क्रियावद्भाव भङ्गप्रसङ्गः सुव्यक्तः ॥ २० ॥ कश्चिदाह कल्पनाकृता सर्वाऽपि प्रमाणफलव्यवहृतिरिति तन्मतमपाकु- १५ र्वन्ति - संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः । परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥ २१ ॥ संवृत्येति । अनिरूपितत्वार्था प्रतीतिः संवृतिस्तयायमर्थः सांवृतप्रमाणफलब्व्यवहारवादिनाऽपि सांवृतत्वं प्रमाणफलयोः परमार्थवृत्या तावदेष्टव्यम् । तच्चासौ प्रमाणान्मन्यतेऽप्रमाणाद्वा । नाप्रमाणात्तस्या किंचित्करत्वात् । २१ अथ प्रमाणात्तन्न यतः सांवृतस्वग्राहकं प्रमाणं सांवृतमसांवृतं वा । यदि सांवृतं कथं तस्मादपारमार्थिकात्पारमार्थिकस्य प्रमाणफलव्यवहारसांवृतत्वस्य सिद्धिः । जथ प्रमाणफलसांवृतत्त्वग्राहकं प्रमाणं स्वयमसांवृतं तर्हि क्षीणा २४ प्रमाणफलसांवृतत्वप्रतिज्ञाऽनेनैव व्यभिचारात् । तदेवंवादिनो व्यक्त एव स्वाभिमतसिद्धिविरोधः ॥ २१ ॥ ततः पारमार्थिक एवं प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः ॥ २२ ॥ १८ २८

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70