Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 63
________________ ५८ सावचूरिके प्रमाणनयतत्त्वालोकालकारे अष्टमः परिच्छेदः । तत्रैव द्यगस्तुरीयस्य ॥ १२ ॥ तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३॥ ३ तृतीयेति। परत्र तत्त्वनिर्णिनीषौ क्षायोपशमिकज्ञानिनि वादिनि प्रथमादीनां प्रतिवादिनां मध्यादाद्यस्योक्तयुक्त्यैव चतुरङ्गः। द्वितीयतृतीययोः कदाचिद् ब्यङ्ग एव । कश्चिदात्मानं निर्णीततत्त्वमिव मन्यमानः केवलिन्यपि तन्निर्णयोपजन६ नार्थ प्रवर्तते इति न कदाचिदसंभावना, केवली तु तमप्यवबोधयति ॥१३॥ तुरीये प्रथमादीनामेवम् ॥ १४ ॥ तुरीय इति । परत्र तत्त्वनिर्णिनीषौ केवलिनि प्रथमद्वितीयतृतीयाणामेव ९पूर्ववदाद्यस्य चतुरङ्गाद् द्वितीयतृतीययोस्तु ब्यङ्ग एव ॥ १४ ॥ चत्वार्यङ्गान्याहुः वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥ १५॥ १२ एषां लक्षणमाहुः आरम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥१६॥ १५ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥१७॥ प्रमाणत इति । वादिना प्रतिवादिना च स्वपक्षस्थापनं परपक्षप्रतिक्षेपश्च द्वितयमपि कर्त्तव्यम् ॥ १७॥ २८ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणावाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः॥१८॥ वादीति । नदीष्णः कुशलः । एभिः षड्भिः गुणैरुभयोर्वादिप्रतिवादिनो२१ रभिप्रेताः सभ्याः स्युः ॥ १८ ॥ वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारेणाग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथा२४ वसरं तत्त्वप्रकाशनेन कथाविरमणम् यथासम्भवं सभायां कथाफलकथनं चैषां कर्माणि ॥ १९ ॥ वादीति । यत्र स्वयमस्वीकृतप्रतिनियतवादस्थानको वादिनौ समुपतिष्ठते । २७ तत्र सभ्यास्तौ प्रति नियतं वादस्थानकं सर्वानुवादेन दूष्यानुवादेन वा वर्ग•

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70