Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
६२
इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ २८॥ ३ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः ॥ २९ ॥ तमः स्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः । ६ महेम चन्द्रांशुदृशावदातास्तास्तर्कपुण्या जगदीश वाचः ॥ ३० ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोष कलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ ३१ ॥ इदं श्रद्धामात्रं तदथ परनिन्दा मृदुधियो विगाहन्तां हन्त प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर ! परीक्षाक्षमधिया
मयं तत्त्वलोकस्स्तुतिमयमुपाधिं विधृतवान् ॥ ३२ ॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिविरचितमयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् |
९
१२
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यविरचिताऽयोगव्यवच्छेदिका
१५
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं
श्रीमहावीरस्वामिस्तोत्रम् |
१८ अनन्तविज्ञानमतीतदोषम बाध्यसिद्धान्तममर्त्यपूज्यम् । श्री वर्धमानं जिनमाप्तमुख्यं स्वयम्भुवं स्तोतुमहं यतिष्ये ॥ १ ॥ अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । २१ विगाहतां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥ २ ॥ गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि सम्मील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥३॥ २४ स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरने यरूपाः ।
परात्मतत्त्वातथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ॥ ५ ॥ २८ कर्तास्ति कश्चिजगतः स चैकः स सर्वगः स स्ववंशः स नित्यः ।

Page Navigation
1 ... 65 66 67 68 69 70