Page #1
--------------------------------------------------------------------------
________________
आचार्य विजय नामसूरिश्वरजी ग्रंथमाला ग्रंथांक-१६ ।
प्रमाणनयतत्वालोकालंकार
योजक पू. आचार्य विजयराममूरिजी मा. साहेब
প্রজাহান ५. श्री सुरेन्द्रनरिश्वरजी जैन तत्वज्ञान शाला
Page #2
--------------------------------------------------------------------------
________________
આચાર્યશ્રી વિજયરામસુરીશ્વરજી ગ્રંથમાલા ગ્રંથાંક ૧૬
श्रीवादिदेवसरिविरचित
प्रमाणनयतत्त्वालोकालंकार
સંયોજક પૂજ્ય આચાર્ય શ્રી વિજયરામસૂરીશ્વરજી મ. સા.
(ડહેલાના ઉપાશ્રયવાળા)
: પ્રકાશક : શ્રી સુરેન્દ્રસૂરીશ્વરજી જૈન તત્ત્વજ્ઞાનશાળા,
અમદાવાદ–૧.
Page #3
--------------------------------------------------------------------------
________________
પ્રકાશક : આચાર્ય શ્રી સુરેન્દ્રસૂરીશ્વરજી જૈન તત્વજ્ઞાનશાળા, પટણીની ખડકી, ઝવેરીવાડ. અમદાવાદ-૩૮૦૦૦૧.
રૂા. ૫-૦૦ નકલ ૧૦૦૦ પ્રથમવૃત્તિ ૧૯૮૪ સંવત ૨૦૪૦ વિ. સં. ૨૫૧૦
દ્રશ્યસહાયક નેનાવાનિવાસી (હાલ મુંબઈ) સ્વ. ધુલચંદ બેચરદાસના
સ્મરણાર્થે તેમના સુપુત્ર શ્રેષ્ઠિવર્ય શ્રી તીલોકચંદજી ધુલચંદજીએ બહુ જ ઉદારદીલથી આ પુસ્તકના
પ્રકાશનમાં લાભ લીધો. છે.
છપાવી આપનાર બાબુભાઈ એચ. શાહ શ્રી પાર્શ્વ પ્રકાશન નીશાળ-ઝવેરીવાડ, રીલીફ રોડ, અમદાવાદ-૧.
Page #4
--------------------------------------------------------------------------
________________
પ્રસ્તાવના વિરાટ વિશ્વમાં અનેક દર્શને પ્રચલિત છે. તે દશામાં જૈન દર્શન પિતાની સ્યાદ્વાદ-અનેકાન્ત દષ્ટિને લીધે અનેરી મહત્તા ધરાવે છે.
કોઈ પણ વસ્તુને વિચાર દરેક દર્શને પોતપોતાની રીતે કરે છે. જેમકે સાંખ્યદર્શન આત્માને નિત્ય માને છે. બૌધ્ધ દર્શન આત્માને અનિત્ય માને છે. જ્યારે જૈન દર્શન આત્માને દ્રવ્યની અપેક્ષાએ નિત્ય અને પર્યાયની અપેક્ષાએ અનિત્ય માને છે. આ રીતે વસ્તુમાં જેટલા ધર્મો હોય તેટલા ધર્મોને જુદી જુદી અપેક્ષાએ દર્શાવી વસ્તુના પૂર્ણ
સ્વરૂપને દેખાડવું તે અનેકાન્ત દ્રષ્ટિ છે. આ દ્રષ્ટિને લીધે જ જેન દર્શનનું ભારતીય દર્શનેમાં મહત્ત્વ છે. .
પ્રસ્તુત પ્રમાણ–નયતત્ત્વાકાલંકાર ગ્રંથ જૈનદર્શન પ્રમાણે પ્રમાણ અને નોનું સ્વરૂપ, તેના ભેદ-પ્રભેદો અને પ્રાસંગિક રીતે પ્રમાણાભાસ અને નયાભાસનું સ્વરૂપ દેખાડી પોતાના નામને સાર્થક કરનાર ગ્રંથ છે. ૧ આ ગ્રંથના પ્રથમ પરિચ્છેદમાં “પ્રમાણ કોને કહેવાય એનું સ્પષ્ટ
નિરૂપણ કરી સમ્યગજ્ઞાનનું પ્રમાણપણું સિધ્ધ કર્યું છે. ૨ - બીજા પરિચ્છેદમાં પ્રમાણના ભેદો અને તેના અવાજોર ભેદોના
લક્ષણો આપ્યાં છે. ત્રીજા પરિચ્છેદમાં પરોક્ષપ્રમાણનું લક્ષણ, તેના ભેદો તથા હેતુ આદિનું સ્વરૂપ બતાવેલ છે. ચોથા પરિચ્છેદમાં આગમપ્રમાણનું લક્ષણ, આપ્નનું લક્ષણ, વેદના
અપૌરુષેયત્વનું ખંડન તથા સપ્તભંગી આદિનું સ્વરૂપ આપેલ છે. ૫ પાંચમા પરિચ્છેદમાં વસ્તુનું લક્ષણ, - સામાન્ય-વિશેષાત્મકપણું
તિયંકુ - ઊર્ધ્વતાસામાન્ય વિગેરે સ્વરૂપે વર્ણવ્યું છે.
Page #5
--------------------------------------------------------------------------
________________
૬ છઠ્ઠા પરિચ્છેદમાં પ્રમાણ–ફલનું લક્ષણ, પ્રમાણાભાસ વિગેરેનું
સ્વરૂપ વર્ણવ્યું છે. ૭ સાતમા પરિચ્છેદમાં નય, નયાભાસ વિગેરેનું વર્ણન કર્યું છે.
આઠમા પરિચ્છેદમાં વાદનુ લક્ષણ, વાદી–પ્રતિવાદી–સભ્યસભાપતિ વિગેરેના સ્વરૂપનું વર્ણન કરેલ છે. આ રીતે વિવિધ વિષયોના વર્ણન દ્વારા આ ગ્રંથ સમાપ્ત કરેલ છે.
આ ગ્રંથ કેટલાક સમયથી અપ્રાપ્ય હતો. અને અભ્યાસકોને ઘણી મુશ્કેલીઓ પડતી હતી. આથી ન્યાયદર્શન નિષ્ણાત, પ્રખર વ્યાખ્યાતા પૂ. આચાર્યદેવ વિજયરામસૂરીશ્વરજી ડહેલાવાળાએ આ ગ્રંથ છપાવી અભ્યાસકોને સુલભ કરી આપેલ છે.
જ્ઞાન પંચમી સંવત ૨૦૪૦
પં. બાબુભાઈ સવચંદ શાહ શ્રી સુરેન્દ્રસૂરીશ્વરજી જનતત્ત્વજ્ઞાનશાળા અમદાવાદ.
Page #6
--------------------------------------------------------------------------
________________
सावचूरिकः सुवादिचक्रचक्रवर्तिश्रीदेवाचार्यविनिर्मितः प्रमाणनयतत्त्वालोकालङ्कारः।
रागद्वेषविजेतारं शातारं विश्ववस्तुनः।
शक्रपूज्यं गिरामीशं तीर्थेशं स्मृतिमानये ॥१॥ नमः सर्वज्ञाय । रागेति । रागद्वेषयोर्विशेषेण जयनशीलमिति ताच्छीलि-३ कस्तृन् । तीर्थेशमत्र श्रीवीरम् । भनेन विशेषणचतुष्केणापायापगमादयो मूलातिशयाश्चत्वार उक्ताः । एतेनैव समस्तेन गणधरादेः स्वगुरुपर्यन्तस्य स्मृतिः कृतैव, तस्याप्येकदेशेन तीर्थेशस्वादुक्तातिशयाधारवाच ॥ १॥ ६ प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥१॥
प्रमाणेति । प्रमाणनययोस्तत्वं तस्य व्यवस्थापनमेवार्थः प्रयोजनं यत्रो. पक्रमणे तत्तदर्थमिति । क्रियाविशेषणं इदम्, स्वसंवेदनेनाऽन्तस्तत्वतया ९ प्रतिभासमान प्रकृतं शास्त्रमुपक्रम्यते बहिःशब्दरूपतया प्रारभ्यते ॥१॥ प्रमाणस्थादौ लक्षणमाहखपरव्यवसायि ज्ञानं प्रमाणम् ॥ २॥
खपरेति । स्वमात्मा ज्ञानस्य स्वरूपम् , परः स्वमादन्योऽर्थस्तो व्यवस्थतीसेवेशीलं यत्तत्तथा ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् ॥२॥ इदमेव समर्थयति
१ अपायापगम-शान-पूजा-बागतिशयामिख्याः । २ असाधारणस्वरूपम्। ..
१५
Page #7
--------------------------------------------------------------------------
________________
२ सावचूरिके प्रमाणनयतत्वालोकालकारे आयः परिच्छेदः ।
अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणमतो ज्ञानमेवेदम् ॥ ३॥ ३ अभिमतमुपादेयम् । अनभिमतं हेयम् । उपलक्षणस्वादुपेक्षणीयोपेक्षायां .समर्थ च ॥ ३॥
नवै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम् , तस्यार्थान्तरस्येव ६खार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥ ४॥ • नवायिति । सत्रिकर्षश्चक्षुरादिसंयोगः । आदिशब्दात् कारकसाकल्यादि
प्रहः ॥४॥... . ९ न खल्वस्य खनिर्णीतौ करणत्वं स्तंभादेरिवाऽचेतनत्वात् । नाप्यऽर्थनिश्चितौ खनिश्चितावऽकरणस्य कुम्भादेरिव तत्राऽप्य
करणत्वात् ॥५॥ . . १२ न खल्विति । नाप्यर्थ निश्चितावस्य करणत्वम् । तत्रापीत्यर्थनिश्चिवावपि ॥५॥ . व्यवसायीति समर्थयति
तद्यवसायखभावं समारोपपरिपन्थित्वात् प्रमाणत्वाद्वा ॥६॥ १५ तदिति । समारोपः संशयादिः । तत्परिपन्थित्वं तद्विरुद्धत्वम् । प्रकर्षण
मीयते परिच्छिद्यते वस्तुज्ञानं येन तत्प्रमाणं तस्य भावस्तत्वम् । वाशब्दो - विकल्पार्थस्तेन प्रत्येकमप्यमू हेतू प्रमाणत्वाभिमतज्ञानस्य व्यवसायस्वभाव. १८ स्वसिद्धौ समयौँ ॥ ६ ॥
. अतसिंस्तध्यवसायः समारोपः॥ ७॥ मतेति । अतत्प्रकारे पदार्थे तत्प्रकारतानिर्णयः समारोपः ॥७॥ स विपर्ययसंशयाऽनध्यवसाय मेदानेधा ॥८॥ विपरीतैककोटिनिष्टकनं विपर्ययः॥९॥
विपरीतेति । विपरीताया अन्यथास्थिताया एकस्या एव कोटेर्वस्वंशस्य २४ निष्टानं निमयनम् ॥ ९॥
यथा शुक्तिकायामिदं रजतमिति ॥ १०॥
शुक्तिकायामरजताकारायामिदं रजतमिति । इदमिति रजताकारतया २७ ज्ञानं विपर्ययो बिपरीता ख्यातिरित्यर्थः ॥ १०॥
Page #8
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे भाद्यः परिच्छेदः ।
साधकबाधकप्रमाणाभावात् अनवस्थितानेककोटिसंस्पर्शज्ञानं संशयः ॥ ११ ॥
साधकेति । उल्लिख्यमानस्थाणुस्व पुरुषत्वाद्यने कांशगोचरयोस्साधकबाधक- ३ प्रमाणयोरनुपलम्भात् ॥ ११ ॥
यथा अयं स्थाणुर्वा पुरुषो वेति ॥ १२ ॥
अयं प्रत्यक्षविषये संशयः । परोक्षविषये तु यथा क्वापि वने शृङ्गमात्र - ६ दर्शनात् किं गौरयं गवयो वेत्यादि ॥ १२ ॥
किमिति आलोचनमात्रमनध्यवसायः ॥ १३ ॥
किमिति । किमित्युलेखे नोत्पद्यमानं ज्ञानमात्रमनध्यवसायः । समारोप - ९ रूपत्वं चास्यापचारिकम् । अतस्मिंस्तदध्यवसायस्य तल्लक्षणस्याभावात् । समारोपनिमित्तं तु यथार्थापरिच्छेदकत्वमुदाहरन्ति ॥ १३ ॥
यथा गच्छतस्तृणस्पर्शज्ञानम् ॥ १४ ॥
यथेति । प्रत्यक्षयोग्यविषयश्चायमनध्यवसायः । परोक्षयोग्यो यथा कस्यचिदपरिज्ञातगोजातीयस्य क्वापि साखामात्रदर्शनात्पिण्डमात्रमनुमाय कोऽश्र प्राणी स्यादित्यादि ॥ १४ ॥
परशब्दं व्याख्याति -
ज्ञानादन्योऽर्थः परः ॥ १५ ॥
स्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनम्, बाह्यस्येव तदाभि. १८ मुख्येन करिकलभकमहमात्मना जानामीति ॥ १६ ॥
१२
कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत मिहिरालोकचत् ॥ १७ ॥
१५
तदाभिमुख्येन बाह्याभिमुख्येन । यथा करिकलभकमिति प्रमेयस्य, अहमिति प्रमातुजीनामीति प्रमितेः प्रतिभासस्तथात्मनेति -प्रमाणत्वाभिमत- २१ ज्ञानस्याप्यस्त्येवेति भावः ॥ १६ ॥
२४
तदपीति ज्ञानम्, तत्प्रकारं प्रतिभातमित्यर्थः । यथा च गिर्यादिकं मिहिरालोकस्य विषयं प्रतिभातं मन्यमानैर्मिहिरालोकोऽपि प्रतिभातो मन्यते २६
Page #9
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे आद्यद्वितीयपरिच्छेदौ ।
लौकिकपरीक्षकैस्तद्वज्ज्ञानस्य नैस्तैर्ज्ञानमपि प्रतिभावं स्वीकर्तव्यम् ॥ १७ ॥
प्रमाणं विविच्यास्यैव प्रामाण्यस्वरूपं धर्ममाविष्कुर्वन्ति । ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् ॥ १८ ॥ प्रसङ्गायातमप्रामाण्यरूपमपि धर्ममाहुः
६ तदितरत्त्वप्रामाण्यम् ॥ १९ ॥
तदिति । प्रमेयव्यभिचारित्वमप्रामाण्यम् प्रत्येयम् । प्रमेयव्यभिचारित्वं च ज्ञानस्य तद्व्यतिरिक्तग्राह्यापेक्षयैव ज्ञेयम् । स्वस्मिन् व्यभिचारस्यासंभवात् । ९ तेन सर्व स्वापेक्षया प्रमाणमेव बहिरर्थापेक्षया तु किञ्चित्प्रमाणं किञ्चित्प्रमाणाभासम् ॥ १९ ॥
तदुभयमुत्पत्तौ परत एव झप्तौ तु स्वतः परतश्चेति ॥ २० ॥
१२
विषयं कुम्भादिकं प्रतिभातमभिमन्यमा
इति श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्त्ववालो कालंकारे प्रमाणस्वरूपनिर्णयो नाम प्रथमः परिच्छेदः ॥
तदुभयमिति । स्वतः परतश्चेति स्त्रं परं चापेक्ष्येत्यर्थः । ज्ञानस्य प्रामाण्य१५ मप्रामाण्यं च द्वितयमपि ज्ञानकारणचक्षुरादिगतगुणदोषरूपं परमपेक्ष्योपद्यते निश्चीयते स्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परतः । तत्र ज्ञानस्याभ्यासदशायां प्रमेयाव्यभिचारि तदितरच्चास्मीति प्रामाण्याप्रामा१८ ण्यनिश्चयः । संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतः स्यादित्यभिधीयते । अनभ्यासदशायां तदपेक्षया जायमानोऽसौ परतः ॥ २० ॥ आद्यपरिच्छेदः समाप्तः ॥
२१ प्रमाणस्य स्वरूपमुक्त्वा संख्यां समाख्यातितद् द्विभेदं प्रत्यक्षं च परोक्षं च ॥ १ ॥
तदिति । अक्षमिन्द्रियं प्रतिगतमिन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्ष२४ मिति तत्पुरुषः । अक्षाणां परमक्षव्यापार निरपेक्षं मनोव्यापारेणासाक्षादर्थपरिच्छेदकम् परोक्षम् । परशब्दसमानार्थेन परस - शब्देन सिद्धम् । चशब्दौ २६ द्वयोरपि तुल्यकक्षतां लक्षयतः । प्रामाण्यं प्रति विशेषाभावात् ॥ १ ॥
Page #10
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालकारे द्वितीयः परिच्छेदः। . स्पष्टं प्रत्यक्षम् ॥२॥ स्पष्टमिति । प्रबलज्ञानावरणवीर्यान्तराययोः क्षयोपशमात् क्षयाद्वा स्पष्टं . यत्तत् प्रत्यक्षं प्रत्येयम् ॥ २ ॥
अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥ ३॥ अनुमानेति । अनुमानादिभ्योऽतिरेकेण यद्विशेषाणां नियतवर्णसंस्थानाधकाराणां प्रतिभासनं ज्ञानस्य तत्स्पष्टत्वम् ॥ ३॥ तद् द्विप्रकारकं सांव्यवहारिकं पारमार्थिकं च ॥४॥
तदिति । सांव्यवहारिकं बाह्येन्द्रियादिसामग्रीसापेक्षवादपारमार्थिकम् । परमार्थे भवं पारमार्थिकम् मुख्यमारमसन्निधिमात्रापेक्षम् ॥ ४॥ तत्राद्यं द्विविधम् इन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥५॥ एतद्वितयमवग्रहहावायधारणामेदादेकशश्चर्तुविकल्पकम् ॥६॥. विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शना- १२
जातमाद्यमवान्तरसामान्याकारविशिष्टमर्थग्रहणमवग्रहः॥७॥ . विषयेति । विषयः सामान्यविशेषात्मकोऽर्थो विषयी चक्षुरादिस्तयोः समीचीनो निपातो योग्यदेशाद्यवस्थानं तस्मादनन्तरं समुद्भूतं यत्सत्ता-१५ मात्रगोचरं दर्शनं निराकारो बोधस्तस्मजातम् आद्यम् सत्वसामान्याचवान्तरैः सामान्याकारैर्मनुष्यत्वादिजातिविशेषैर्विशिष्टस्य वस्तुनो यद्हणं ज्ञानं तदवग्रहः ॥७॥
अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८॥
अवगृहीतो योऽर्थोऽवान्तरमनुष्यस्वादिजातिविशेषलक्षणस्तस्य विशेषः कर्णाटादिभेदः । तस्याकांक्षणं भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्य-२१ मीहा ॥८॥ ईहितविशेषनिर्णयोऽवायः॥९॥ ईहितविशेषस्य कर्णाटादेर्निर्णयोऽवायः ॥ ९॥ स एव दृढतरावस्थापन्नो धारणा ॥१०॥ स एव सादरस्य प्रमातुरत्यन्तोपचितः किञ्चित्कालं तिष्ठन्धारणा ॥१०॥ संशयपूर्वकत्वादीहायाः संशयानेदः ॥ ११ ॥
।
२४
Page #11
--------------------------------------------------------------------------
________________
सावचूरि के प्रमाणनयतत्त्वालोकालङ्कारे द्वितीयः परिच्छेदः ।
संशयेति । पुरुषावग्रहानन्तरं किमयं दाक्षिणात्य इत्याद्यनेककोटिपरामर्शः संशयस्ततोऽपि प्रमातुर्विशेषलिप्सायां दाक्षिणात्येनाऽनेन भवितव्यमित्येवमीहा ३ जायते इति हेतुहेतुमद्भावादनयोः पृथक्त्वम् ॥ ११ ॥
कथंचिदभेदेऽपि परिम विशेषादेषां व्यपदेशभेदः ॥ १२ ॥ कथंचिदिति । यद्यप्येकजीवद्रव्यतादात्म्येन द्रव्यार्थादेशादेषां दर्शनादीनां ६ ऐक्यं तथापि पर्यायार्थादेशाद्वेदोऽपि ॥ १२ ॥
असामस्त्येनाप्युत्पद्यमानत्वेनासंकीर्ण स्वभावतयाऽनुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात्क्रमभावित्वाच्चैते व्यतिरि
९ च्यन्ते ॥ १३ ॥
असामस्त्येनेति । असङ्कीर्णस्वभावतया परस्परस्वरूप वै वित्तयेनानुभूयमानस्वादर्शनादयो भिद्यन्ते । तथानुभवनमप्यमीषामसामस्त्येनाप्येकद्वित्र्यादिसं१२ ख्यतयोत्पद्यमानत्वात् । तथाहि प्रमातुश्चित्रक्षयोपशमात्कदा चिद्दर्शनावग्रहौ कदाचिद्दर्शनावग्रह संशयादयः क्रमेण समुन्मज्जन्ति । अपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वक्रमभावित्वेऽपि प्रत्यात्मवेधे एव ॥ १३ ॥
१५ क्रमोऽप्यमीषामयमेव तथैव संवेदनात् एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाश्च ॥ १४ ॥
क्रमोऽपीति । अयमेव दर्शनावग्रहादिरमीषां क्रमस्तेनैव क्रमेणानुभवात् । १८ दर्शन ज्ञानावरणक्षयोपशमलक्षणकारणेनाप्येवमेव भूष्णुनाऽमीषामुत्पाद्यत्वाश्वायमेव क्रमः । क्रमोत्पदिष्णुना हि कारणेन क्रमेणैव स्वकार्यं जनयितव्यम्, यथा स्थासकोशकुशूलच्छत्रादिना ॥ १४ ॥
२१
अन्यथा प्रमेयानवगतिप्रसङ्गः ॥ १५ ॥
अन्यथेति । यथोक्तक्रमानभ्युपगमे दर्शनादीनां प्रमेयापह्नव एव कृतः स्यात् ॥ १५ ॥
२४ उक्तमेव क्रमं समर्थयति
तथाहि न खल्वद्दष्टमवगृह्यते । नचाऽनवगृहीतं संदिह्यते । २६ नचाऽसंदिग्धमीह्यते । नचानी हितम वेयते । नाप्यनवेतं धार्यते ॥ १६
Page #12
--------------------------------------------------------------------------
________________
१२
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे द्वितीयः परिच्छेदः। . क्वचिदेषां क्रमानुपलक्षणे कारणमाहुःक्वचित्क्रमस्यानुपलक्षणमेषामाशूत्पादादुत्पलपत्रशतव्यतिमेद- . क्रमवत् ॥१७॥ कचिदिति क्वचित्त्वभ्यस्ते करतलादौ (गोचरे) ॥ १७ ॥ पारमार्थिकं पुनरुत्पत्तौ आत्ममात्रापेक्षम् ॥ १८॥ पारमार्थिकेति । आत्ममात्रापेक्षं क्षयक्षयोपशमविशिष्टमात्मद्रव्यमेवाव्यवहितं समाश्रित्य पारमार्थिकम् । न पुनः सांव्यवहारिकमिवेन्द्रियादिव्यवहितमात्मद्रव्यमाश्रित्येत्यर्थः ॥ १८ ॥ तद्विकलं सकलं च ॥ १९॥ तत्र विकलमवधिमनःपर्यायज्ञानरूपतया द्वेधा ॥ २०॥
अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥२१॥
अवधीति । भवप्रत्ययं सुरनारकाणाम् , गुणप्रत्ययं तु नरतिरश्वाम् ॥२१॥
संयमविशुद्धि निबन्धनाद्विशिष्टावरणविच्छेदाजातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ॥ २२॥
सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिखरूपं केवलज्ञानम् ॥ २३ ॥
सकलेति । सामग्री सम्यग्दर्शनादिलक्षणान्तरङ्गा बहिरङ्गा तु जिनकालि-१८ कमनुष्यभवादिलक्षणा ॥ २३ ॥
तद्वानहन्निर्दोषत्वात् ॥ २४ ॥ निर्दोषोऽसौ प्रमाणाविरोधिवाक्त्वात् ॥ २५॥ अविरोधिवाक्त्वमेवार्हतः प्रसाधयन्तितदिष्टस्य प्रमाणेनाबाध्यमानत्वात्तद्वाचस्तेनाविरोधसिद्धिः२६ तदिति । तस्य अर्हत इष्टस्यानेकान्ततश्वस्य । तद्वाच इत्यर्हद्वाचः । अर्हन् २४ सर्वत्र प्रमाणाविरोधिवाक् । तत्र प्रमाणाबाध्यमानाभिमततत्वत्वात् । यस्याभिमतं तत्वं यत्र प्रमाणेन न बाध्यते स तत्र प्रमाणाविरोधिवाक् । यथा २६
Page #13
--------------------------------------------------------------------------
________________
. सावचूरिके प्रमाणनयतत्वालोकालकारे द्वितीयतृतीयपरिच्छेदौ । रोगादौ भिषग्वरः । न बाध्यते च प्रमाणेनाईताभिमतमनेकान्तादितत्वम् । तस्मात्तत्रासौ प्रमाणाविरोधिवाक् ॥ २६ ॥ केवलिनः कवलाहारवत्वे ३ सर्ववित्त्वम् विरुध्यते इतीष्टवतो नमाटान् निराकर्तुमाहुः
न च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वम् कवलाहारसर्वक्षत्वयोरविरोधात् ॥ २७॥ इति श्रीदेवाचार्यविरचिते प्रमाणनयतत्त्वालोकालंकारे प्रत्यक्षखरूप
निर्णयो नाम द्वितीयः परिच्छेदः । इति प्रत्यक्षतरूपनिर्णयो नाम द्वितीयः परिच्छेदः॥
९ अस्पष्टं परोक्षम् ॥१॥
स्मरणप्रत्यभिज्ञानतर्वानुमानागममेदात्तत्पश्चप्रकारम् ॥ २॥
तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं संवेदनं १२ स्मरणम् ॥३॥
• संस्कारस्यात्मशक्तिविशेषस्य प्रबोधात् फलदानाभिमुख्यलक्षणासंभूतमिति कारण निरूपणम् । अनुभूतः प्रमाणमात्रेण परिच्छिन्नार्थों विषयो १५ यस्येति विषयकथनम् । तदित्युल्लेखवत्ता चास्य योग्यतापेक्षयाख्यायि ।
यावता स्मरसि चैत्र कश्मीरेषु वत्स्यामस्तन द्राक्षा मोक्ष्यामहे इत्यादिस्सरणे तच्छब्दोल्लेखनोपलक्षित एव । किन्विदं स्मरणं तेषु कश्मीरेविति ता १. द्राक्षा इंति तच्छब्दोल्लेखमहत्येव, न चैवं प्रत्यभिज्ञानेऽपि तत्प्रसङ्ग स्वस्य स एवायं इत्युल्लेखवत्त्वात् इति स्वरूपोक्तिः ॥ ३ ॥
तत्तीर्थकरबिंबमिति यथा ॥४॥ २१ तदिति यत्प्राक् प्रत्यक्षीकृतं स्मृतं प्रत्यभिज्ञातं वितर्कितमनुमितं श्रुतं का तस्य परामर्शः ॥ ४॥
अनुभवस्मृतिहेतुकं तिर्यगूईतासामान्यादिगोचरं संकलना२४त्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५॥
अनुभवश्च प्रमाणार्पिता प्रतीतिः, स्मृतिश्च प्रागुकैव । ते तुर्यलेति कारणो२६ पदेशः । तिर्यक्सामान्यं च गवादिषु गोस्वादिखरूपं सदशपरिणामात्मकम् ।
Page #14
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः। ९ उर्वतासामान्यं परापरविवर्तव्यापि मृत्वादिद्रव्यम्, एतदुभयमादिर्यस्य विसदृशपरिणामादेर्धर्मस्तोमस्य स तिर्यगूर्ध्वतासामान्यादिगोचरो यस्येति विषयाख्यानम् । सङ्कलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनमारमा ३ स्वभावो यस्येति स्वरूपोक्तिः ॥ ५॥
यथा तजातीय एवायं गोपिण्डः, गोसदृशो गवयः । स एवायं जिनदत्त इत्यादि ॥ ६॥
तजातीय एवायं गोपिण्ड इत्यमिस्तिय॑क्सामान्योदाहरणे दर्शितेऽपि गोसदृशो गवय इति यत्तत्रैवोदाहरणान्तरं तन्नैयायिकनिग्रहार्थम् । तस्य गोसदृशो गवय इत्युपमानम् , तच्चायुक्तम् , गोविसदृशो महिष इत्यस्य प्रमाणा-९ न्तरतापत्तेः । स एवायं जिनदत्त इति तूतासामान्योदाहरणम् । आदिशब्दात् स एव वह्निरुन्मीयते मया । स एवार्थो नैयायिकध्यात इत्यादि मरणसचिवानुमानादिजन्यम् । तस्माद्दीघं हस्वमणु महल्लेदीयो दवीयो वेदं दूरा-१२ दयं तिग्मस्तनूनपात् सुरभीदं चन्दनमित्यादि च संकलनमात्रोदाहरणं मन्तव्यम् । अथायमनेनसदृश इत्यादि प्रत्यभिज्ञा प्रत्यक्षं वा कचित्किंचिदिति ब्रूमः । अनुभूततया परोक्षमप्येकं साक्षादिवाध्यवस्यतः पश्यतश्चापरं १५ प्रत्यभिज्ञैवेयम् । भवति च परोक्षस्यापि साक्षादिवाध्यवसाये प्रत्यक्षसर्वनाना परामर्शः, एषोग्निरनुमीयते, अयमस्य वाक्यस्यार्थः । उभयं तु प्रत्यक्षेण लक्षयतः प्रत्यक्षमेवैतत् ॥ ६ ॥
उपलंभानुपलंभसंभवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालंबनमिदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा 'तर्कः ॥७॥
उपलंभेति । उपलंभानुपलंभाभ्यां प्रमाणमात्रेण ग्रहणाग्रहणाभ्यां संभवो : यस्येति कारणोक्तिः । त्रिकालीकलितयोः कालत्रयीवर्तिनोः । साध्यसाधनयोर्गम्यगमकयोः सम्बन्धोऽविनाभावो व्याप्तिरित्यर्थः । स आदिर्यस्याशेषदे-२४ शकालवर्तिवाच्यवाचकसम्बन्धस्य आलम्बनं गोचरो यस्य तत्तथेति विष. योक्तिः । इदमस्मिन्सत्येव भवतीत्यादिशब्दादिदमस्मिन्नसति न भवत्येवेत्या. कारं साध्यसाधनसंबन्धालम्बनम् , एवंजातीयशब्द एवंजातीयास्यार्थकस्य २७
२१
Page #15
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः ।
वाचकः । सोपि तथाभूतस्तथाभूतस्य वाच्य इत्याकारं वाच्यवाचकभावालम्बनं च संवेदनमिहोपादीयते इति स्वरूपोक्तिः ॥ ७ ॥
१०
३ यथा यावान् कश्चित् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येवेति ॥ ८ ॥
अनुमानं द्विप्रकारे स्वार्थे परार्थ च ॥ ९ ॥
६
अनुमानेति । नन्वनुमानस्याध्यक्षस्येव सामान्यलक्षणमनाख्यायैव कथमादित एव प्रकारकीर्तनम् उच्यते - परमार्थतः स्वार्थस्यैवानुमानस्य भावात् । स्वार्थमेव ह्यनुमानं कारणे कार्योपचारात् परार्थं कथ्यते । यत्पुनः स्वार्थेन ९ तुल्यकक्षतया अस्योपादानं तद्वादे शास्त्रे चानेनैव व्यवहाराल्लोकेऽपि च प्रायेणास्योपयोगात् । तत्रानु हेतुग्रहणसम्बन्धस्मरणयोः पश्चान्मीयते अर्थोऽनेनेत्यनुमानम् । स्वस्मै प्रमातुरिदं स्वार्थ स्वावबोध निबन्धनमित्यर्थः ॥ ९ ॥ १२ तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् १०
१८
तन्त्रेति । हेतोर्ग्रहणं च प्रमाणेन निर्णयः । सम्बन्धस्मरणं च यथैव सम्बन्धो व्याप्तिनामा प्राक्तर्केणातर्कि तथैव परामर्शस्ते कारणं यस्य तत्तथा ॥ १० ॥ १५ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥ ११ ॥
निश्चितेति । अन्यथा साध्यं विनाऽनुपपत्तिरेव न मनागप्युपपत्तिस्ततो निश्चितान्यथानुपपत्तिरेवैका लक्षणं यस्य स तथा ॥ ११ ॥
नतु त्रिलक्षणकादिः ॥ १२ ॥
२१
नत्विति । त्रीणि पक्षधर्मत्व - सपक्षसव - विपक्षासत्त्वानि लक्षणानि यस्य सौगतसंमतस्य हेतोरादिशब्दाद्यो गसङ्गीतपञ्चलक्षणक हेत्ववरोधस्ते नाबाधितविषयत्वासत्प्रतिपक्षत्वयोरपि तल्लक्षणत्वेन कथनात् । तथाहि वह्निमत्ये साध्ये धूमवत्त्वं पक्षस्य पर्वतस्य धर्मो न तु शब्दे चाक्षुषत्ववदतद्धर्मः, सपक्षे पाकस्थाने सनतु प्राभाकरेण शब्दनित्यत्वे साध्ये श्रावणत्ववत्ततो व्यावृत्तम् २४ विपक्षे पयस्वति प्रदेशे असनतु तत्रैव साध्ये प्रमेयत्ववत् । तत्र वर्तमानम् अबाधितविषयं प्रत्यक्षागमाभ्यामबाध्यमानसाध्यत्वात् । नत्वनुष्णस्तेजोवयवीद्रव्यत्वाज्जलवत् । विप्रेण सुरा पेया द्रव्यत्वात्तद्वदेवेतिवत्, ताभ्यां बाधि२७ तविषयम्, असत्प्रतिपक्षं साध्यविपरीतार्थोपस्थापकानुमानरहितं न पुनर्नित्यः
Page #16
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः। ११ शब्दोऽनित्यधर्मानुपलब्धेरित्यनुमानसमन्वितमनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यनुमानमिव सत्प्रतिपक्षमिति लक्षणत्रयपञ्चकसद्भावाद्गमकम् । इति सौगतयोगाभिप्रायः ॥ १२ ॥ न चायं निरपाय इत्याहतस्य हेत्वाभासस्यापि संभवात् ॥ १३ ॥
तस्येति । स श्यामस्तत्पुत्रत्वात् । प्रेक्ष्यमाणेतरतत्पुत्रवत् । अत्र समग्र-६ तल्लक्षणवीक्षणेऽपि हेतुत्वाभावात् । अत्र विपक्षेऽसत्त्वं निश्चितं नास्ति । नहि श्यामत्वासत्त्वे तत्पुत्रत्वेनावश्यं निवर्तनीयमित्यत्र प्रमाणमस्तीति सौगतः। स एवं निश्चितान्यथानुपपत्तिमेव शब्दान्तरेण शरणीकरोतीति सैवास्तु ॥ १३ ॥९ साध्यविज्ञानमित्युक्तमिति साध्यमाहुःअप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥ १४॥ साधयितुमनिष्टस्यासाध्यत्वं विषयविभागेनाहुः
२ शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥ १५॥
प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्र-१५ हणम् ॥ १६॥ .
अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादानम् ॥१७॥ अनभिमतस्य साधयितुमनिष्टस्य ॥ १७ ॥ साध्यत्वं विषयविभागेनाहुःव्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एवान्यथातदनुपपत्तेः॥१८ व्याप्तीति । धर्मो वह्निमवादिः । तस्य व्याप्तेरनुपपत्तेः ॥ १०॥ २१ नहि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिव धरित्रीधरस्याप्यनुवृत्तिरस्ति ॥ १९॥
आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी ॥ २०॥
२५
Page #17
--------------------------------------------------------------------------
________________
१२ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे तृतीयः परिच्छेदः ।
आनुमानिकेति । आनुमानिकी प्रतिपत्तिरनुमानोद्भवा प्रमितिः तद्विशिष्टो व्याप्तिकालापेक्षया साध्यत्वेनाभिमतेन धर्मेण विशिष्टः ॥ २० ॥ ३ प्रसिद्धो धर्मीत्युक्तम् । यतोऽस्य प्रसिद्धिस्तदाहु:
1
धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतः कापि विकल्पप्रमाणाभ्याम् ॥ २१ ॥
६ यथा समस्ति समस्तवस्तुवेदी, क्षितिधरकंधरेयं धूमध्वजवती, ध्वनिः परिणतिमानिति ॥ २२ ॥
आद्ये उदाहरणे धर्मिणो विकल्पेन सिद्धिर्नहि हेतुप्रयोगात्पूर्वं विकल्पं ९ विहाय विश्वविरकुतोऽपि प्रासिध्यत । द्वितीये प्रमाणेन प्रत्यक्षादिना क्षितिधरकन्धरायास्तदानीं संवेदनात् । तृतीये तुभाभ्याम् नहि श्रूयमाणादन्येषां देशकालस्वभावव्यवहितध्वनीनां ग्राहकं किञ्चित्तदानीं प्रमाणमस्तीति १२ विकल्पादेव तेषां सिद्धिः ॥ २२ ॥
पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥ २३ ॥
पक्षेति । पक्ष हेतुवचनात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्या१५ पेक्षयाऽत्रोक्तम् । अतिव्युत्पन्नापेक्षया तु धूमोऽत्र दृश्यते इत्यादिहेतुवचनमात्रास्मकमपि तत् स्यात् मंदमत्यपेक्षया तु दृष्टान्तादिवचनात्मकमपि तत्स्यात् । पक्ष हेतुवचनस्य च जडरूपतया मुख्यतः प्रामाण्यायोगे सत्युपचारादित्युक्तम् १८ कारणे कार्योपचारादित्यर्थः । प्रतिपाद्यगतं हि यज्ज्ञानम्, तस्य कारणं पक्षादिवचनम्, कार्ये कारणोपचाराद्वा, प्रतिपादकगतं यत्स्वार्थानुमानं तस्य कार्य पक्षादि तद्वचनमिति ॥ २३ ॥
व्याप्तिपुरःसरं पक्षधर्मतोपसंहारं तत्पूर्विकां वा व्याप्तिम् आचक्षाणान् भिक्षून् पक्षप्रयोगमंगी कारयितुमाहुः
साध्यस्य प्रतिनियतधर्मिसम्बन्धिताप्रसिद्धये हेतोरुपसंहार२४ वचनवत्पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः ॥ २४ ॥
साध्येति । यथा यत्र धूमस्तत्र धूमध्वज इति हेतोः सामान्येनाधारप्रतिपत्तावपि पर्वतादिविशिष्टधर्मिधर्मताधिगतये धूमश्चात्रेत्येवंरूपमुपसंहारवचनमाश्रीयते सौगतैस्तथा साध्यधर्मस्य नियतधर्मिधर्मता सिद्धये पक्षप्रयोगोऽप्या२८ श्रयितव्यः ॥ २४ ॥
२१
--
Page #18
--------------------------------------------------------------------------
________________
१३
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः ।
त्रिविधं साधनमभिधायैव तत्समर्थनं विधानः कः खलु न पक्षप्रयोगमंगीकुरुते ॥ २५ ॥
त्रिविधेति । त्रिविधं कार्यस्वभावानुपलंभभेदात् । तस्य साधनस्य समर्थन- ३ मसिद्धतादिव्युदासेन स्वसाध्यसाधनसामर्थ्योपदेशनम् । ततः पक्षप्रयोगमनङ्गीकुर्वता तत्समर्थनरूपं हेतुमनभिधायैव तत्समर्थनं विधेयम् । ननु यदि हेतुर्नोच्यते तत्कुत्र समर्थनम् ? तर्हि पक्षो यदि नोच्यते तस्कुत्र ६ समर्थनम् ॥ २५ ॥
प्रत्यक्षस्यापि पारार्थ्यमाहुः -
प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थ प्रत्यक्षं परप्रत्यक्ष- ९ हेतुत्वात् ॥ २६ ॥
प्रत्यक्षेति । यथाऽनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानमुच्यते, तथा प्रत्यक्षप्रतीतोऽपि तथैव परार्थ प्रत्यक्षमि- १२ त्युच्यताम् ॥ २६ ॥
यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभारिणीं जिनपतिप्रतिमामिति ॥ २७ ॥
१५
एवं स्मरणादेरपि यथासंभवं पारार्थ्यं प्रतिपत्तव्यम् ॥ २७ ॥ प्रासङ्गिकमुक्त्वा पक्ष हेतुवचनात्मकं परार्थमनुमानमिति समर्थयन्ति ॥२७॥ पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टा- १८ न्तादिवचनम् ॥ २८ ॥
पक्षेति । आदिशब्देनोपनयनिगमनादिग्रहः । एवञ्च यद्व्याभ्युपेतपक्षधर्मतोपसंहाररूपं भाट्टप्राभाकरकापिलैः, पक्ष हेतुदृष्टान्तोपनयनिगमनलक्षणं २१ नैयायिकवैशेषिकाभ्यामनुमानमाम्नायि तदपास्तम् ॥ २८ ॥ हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥ २९ ॥
सत्येव साध्ये हेतोरुपपत्तिः तथोपपत्तिः असति साध्ये हेतो- २४ रनुपपत्तिरेवान्यथानुपपत्तिः ॥ ३० ॥
यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमवे धूमवत्त्वस्योपपत्तेरऽसत्यनुपपत्तेर्वेति ॥ ३१ ॥
२७
Page #19
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतवालो कालङ्कारे तृतीयः परिच्छेदः ।
अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः ॥ ३२ ॥
१४
३ यदुक्तं न दृष्टान्तादिवचनं परप्रतिपत्तेरङ्गं तत्र दृष्टान्तः किं परप्रतिपत्त्यर्थ परैरङ्गीक्रियते किंवा हेतोरन्यथानुपपत्तिनिर्णीतये यद्वाऽविनाभावस्मृतये इति विकल्पान् दूषयन्ति ॥ ३२ ॥
६ न दृष्टान्तादिवचनं परप्रतिपत्तये प्रभवति । तस्यां पक्षहेतुवचनयोरेव व्यापारोपलब्धेः ॥ ३३ ॥
न हेतोरन्यथानुपपत्तिनिर्णीतये यथोक्ततर्कप्रमाणादेव तदुप९पत्तेः ॥ ३४ ॥
नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थितेर्दुर्निवारः समवतारः ॥ ३५ ॥ १२ अनवस्थितेर्दुर्निवारः समवतारः इति प्रतिनियतव्यक्तौ व्याप्तिनिश्चयः कर्तुमशक्यस्ततो व्यक्तयन्तरेषु व्याहयर्थं पुनर्दृष्टान्तान्तरं मृग्यंस्तस्यापि व्यक्तिरूपत्वेनापरदृष्टान्तापेक्षायामनवस्था ॥ ३५ ॥
१८
१५ अमुमेवार्थ समर्थयन्ते—
नाप्यविनाभावस्मृतये प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः ॥ ३६ ॥
अन्तर्व्याप्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिर्व्याप्तेरुद्भावनं व्यर्थम् ॥ ३७ ॥
।
अन्तर्व्यायेति । अन्तर्व्याध्या साध्यसिद्धिशक्तौ बाह्यव्याप्तेर्वर्णनं वन्ध्यमेव । २१ मत्पुत्रोऽयं बहिर्वक्ति एवंस्वरूपस्वरान्यथानुपपत्तेरत्र बहिर्व्याश्यभावेऽपि गमकत्वस्योपलब्धेः ॥ ३७
पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिरन्यत्र २४ तु बहिर्व्याप्तिः ॥ ३८
यथाऽनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः ॥ ३९ ॥ नोपनयनिगमनयोरपि प्रतिपत्तौ सामर्थ्य पक्षहेतुप्रयोगादेव २७ तस्याः सद्भावात् ॥ ४० ॥
Page #20
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः। १५ 'समर्थनमेव परं परप्रतिपत्त्यङ्गमास्तां तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥४१॥
प्रयुज्यापि दृष्टान्तादिकं समर्थनं हेतोरवश्यं वक्तव्यम् । अन्यथा साध्य-३ सिद्मसंभवात् । तदेवोच्यतां किं दृष्टान्तादिभिः ॥ ४० ॥
मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥४२॥
मन्देति । अपिशब्दात्पक्षहेतू पक्षादिशुद्धयश्च पञ्च । तत उत्कृष्टं दशावयवं परार्थानुमानम् ॥ ४२ ॥
प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः॥४३॥ प्रतिबन्धेति । प्रतिबन्धो व्याप्तिरविनाभावस्तत्मरणस्थानं महानसादिईष्टान्तः॥ ४३॥
स द्वेधा साधर्म्यतो वैधयंतश्च ॥४४॥
समानो धर्मों यस्यासौ सधर्मा । विसदृशो धर्मों यस्यासौ विधर्मा । तयोर्भावः साधर्म्य वैधयं च ॥ १४ ॥
यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते स १५ साधर्म्यदृष्टान्तः॥४५॥ यथा यत्र धूमस्तत्र तत्र वह्निर्यथा महानसे ॥ ४६॥ यत्र तु साध्याभावे साधनस्यावश्यमभावःप्रदर्श्यते स वैधH-१८ दृष्टान्तः॥४७॥ यथाझ्यभावे न भवत्येव धूमो यथा जलाशये ॥४८॥ हेतोः साध्यधर्मिण्युपसंहरणमुपनयः॥४९॥ यथा धूमश्चात्र प्रदेशे ॥५०॥ साध्यधर्मस्य पुनर्निगमनम् ॥५१॥ साध्यधर्मस्य पुनर्निगमनं साध्यधर्मिण्येवोपसंहरणमिति योगः ॥५१॥ २४ यथा तस्मादग्निरत्र ॥५२॥ एते पक्षप्रयोगादयः पश्चापि अवयवसंशया कीर्त्यन्ते ॥५३॥ २६
२१
Page #21
--------------------------------------------------------------------------
________________
१६ सावचूरिके प्रमाणनयतत्त्वालोकालकारे तृतीयः परिच्छेदः ।
उक्तलक्षणो हेतुर्द्विप्रकारः। उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् ॥ ५४॥ ३ उपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्च ॥ ५५॥
विधिः सेंदशः॥५६॥
प्रतिषेधोऽसदशः॥ ५७॥ ६ स चतुर्धा प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽत्यन्ताभावश्च ॥ ५८॥
स इति । प्राक्पूर्व वस्तूत्पत्तरभावः। प्रध्वंसश्वासावभावः । इतरेतरस्मिन९ भावः । अत्यन्तं सर्वदाऽभावः । पदार्थव्यवस्थार्थ चावश्यमभावचातुर्विध्यमाश्रयणीयम् । तदुक्तम्- "कार्यद्रव्यमनादि स्यात् प्रागभावस्य निहवे । प्रध्वं.
सस्याप्यभावस्य प्रच्यवेऽनन्ततां व्रजेत् । वस्तु सर्वात्मकं हि स्यादन्यापोह१२ व्यतिक्रमे ॥” इति ॥ ५८ ॥
यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः ॥ ५९॥
यस्य पदार्थस्य निवृत्तावेव न पुनरनिवृत्तावपि, अतिव्याप्तिप्रसक्तः । १५ अन्धकारस्थापि निवृत्तौ क्वचिज्ज्ञानोत्पत्तिदर्शनात् अन्धकारस्यापि ज्ञानप्रागभावत्वप्रसङ्गात् । न चैवमपि रूपज्ञानं तन्निवृत्तावेवोत्पद्यते इति तत्प्रतीतस्य तत्त्वप्रसक्तिरिति वाच्यम् । अतीन्द्रियदर्शिनि नक्तंचरादौ च तद्भावे १८ तद्भावात् । स इति पदार्थः । अस्येति कार्यस्य ।
यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः॥६० यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः ॥ ६१ ॥
यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥ ६२॥
खरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः॥ ६३ ॥ २४ यथा स्तंभखभावात्कुम्भखभावव्यावृत्तिः ॥ ६४ ॥
कालत्रयापेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः॥६५ . तादात्म्यपरिणामनिवृत्तिरेकस्वपरिणतिव्यावृत्तिः ॥ ६५ ॥ . २७ यथा चेतनाचेतनयोः ॥६६॥
२१
Page #22
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे तृतीयः परिच्छेदः। १७ उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिर्विरुद्धोपलब्धिश्च ॥६७ ॥ तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ ६८॥ साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरा-३ णामुपलब्धिरिति ॥ ६९ ॥
अत्र भिक्षुर्भाषते-विधिसिद्धौ स्वभावकार्ये एव साधीयसी, न कारणम् , तस्यावश्यंतया कार्योत्पादकत्वाभावात् , प्रतिबद्धावस्थस्य मुर्मुरावस्थस्य चाधू-६ मस्यापि धूपध्वजस्य दर्शनात्, अप्रतिबद्धसामर्थ्यमुग्रसामग्रीकं च तद्गमकमिति चेदेवमेतत्किन्तु नैतादृशमर्वाग्दृशावसातुं शक्यमिति तन्निराकुर्वन्ति--
तमविन्यामाखाद्यमानादाम्रफलरसादेकसामय्यनुमित्या रू-९ पाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यं च ॥ ७०॥
तमस्विन्यामिति । तमस्विन्यामिति रूपाप्रत्यक्षसूचनाय । शक्तरप्रतिस्खलनं १२ सामर्थ्यस्याप्रतिबन्धः । अपरकारणसाकल्यं निःशेषसहचारिसंपर्कः । रजन्यां रस्यमानास्किल रसात्तजनकसामध्यनुमानं ततोऽपि रूपानुमानं स्यात् । प्राक्त. नो हि रूपक्षणः सजातीयरूपान्तरक्षणं कार्य कुर्वमेव विजातीयं रसलक्षणं कार्य १५ करोतीति प्राक्तनरूपक्षणात्सजातीयोत्पाद्यरूपक्षणान्तरानुमानं मन्यमानः सौगतैरनुमतमेव किंचित्कारणं हेतुर्यस्मिन्सामर्थ्याप्रतिबन्धः कारणान्तर. साकल्यं च निश्चेतुं शक्यते । अथ नैतत्कारणात्कार्यानुमानं किन्तु स्वभावानु-१८ मानमदः, इंशरूपान्तरोत्पादसमर्थमिदं रूपमीदृशरसजनकत्वात्, एवं तत्स्वभावभूतस्यैव तजननसामर्थ्यस्यानुमानादिति चेत्? नन्वेतदपि प्रतिबन्धाभावकारणान्तरसाकल्यनिर्णयमन्तरेण नोपपद्यत एष । तनिश्चये तु २१ यदि कारणादेव तस्मात्कार्यमनुमास्यते तदा किं दुश्चरितम् । एवं मस्त्यत्र छाया छत्रादित्यादीन्यव्यभिचारनिश्चयादनुमानान्येव ॥ ७० ॥
पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावी तयोः कालव्य-२४ वहितावनुपलम्भात् ॥ ७१॥
पूर्वेति । स्वभाव-कार्यकारणभावौ साध्यसाधनयोस्तादाम्ये सति स्वभावहेतौ, नदुत्पत्तौ तु काय कारणे वान्तर्भावो विभाव्यते । न चैते स्तः। २७
Page #23
--------------------------------------------------------------------------
________________
१८ सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः ।
तादाम्यं हि समसमयस्य प्रयत्नानन्तरीयकत्वपरिणामित्वादेरुपपन्नम् । तदुत्पत्तिश्चान्योन्यमव्यवहितस्यैव धूमधूमध्वजादेः, न तु व्यवहितकालस्याति. ३प्रसकेः ॥७॥
ननु कालव्यवधानेऽपि कार्यकारणभावः स्यादेव जाग्रबोधयोः, मरणारिष्टयोश्च तथादर्शनादिति प्रतिजानानं प्रज्ञाकरं प्रतिक्षिपन्ति६ न चातिक्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं व्यवहितत्वेन निर्व्यापारत्वात् ॥ ७२॥
नेति । जाप्रशासंवेदनमतीतं सुप्तावस्थोत्तरभाविज्ञानं वर्तमानं प्रति, ९मरणं चानागतं ध्रुवावीक्षणादिकमरिष्टं सांप्रतिकं प्रति व्यवहितत्वेन व्यापारपराङ्मुखम् ॥ ७२ ॥
इदमेव भावयन्ति१२ खव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति ॥ ७३॥
नच व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसकेः ७४ १५ नेति । तयोरतिक्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोः ॥ ७ ॥
परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥ ७५॥ १८ सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः
सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥ ७६ ॥ २१ सहचारिणोरिति । प्रोक्तेषु स्वभावकार्यकारगेषु नान्तर्भावः ॥ ७६ ॥
ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात् ,यःप्रयत्नानन्तरीयकः स परिणतिमान् यथा स्तंभो, यो वा न परिणतिमान् स न २४ प्रयत्नानन्तरीयको यथा वान्ध्येयः, प्रयत्नानन्तरीयकश्च ध्वनि
स्तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः २६ साधम्र्येण वैधयेण च ॥ ७७॥
Page #24
--------------------------------------------------------------------------
________________
सावरिके प्रमाणनयतत्वालोकालकारे तृतीयः परिच्छेदः। ११ ध्वनिरिति । यद्यपि व्याप्यत्वं कार्यादिहेतूनामप्यति साध्येन साप्यस्वा. तथापि तनेह विवक्षितम् । किन्तु साध्येन तदात्मीभूतस्याकार्यादिरूपस्य प्रयत्नानन्तरीयकत्वादेः स्वरूपमित्यदोषः ॥ ७ ॥
अस्त्यत्र गिरिनिकुञ्ज धनञ्जयो धूमोपलम्भादिति कार्यस्य ॥७॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ७९ तथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं गृह्यते ॥ ७९ ॥ उदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥ ८॥ तिष्यतारका पुष्यनक्षत्रम् ॥ ८० ॥
उदगुर्मुहूर्तात्पूर्व पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य ॥ ८१॥
अस्तीह सहकारफले रूपविशेषः समास्वाद्यमानरसविशेषा-१२ दिति सहचरस्य ॥ ८२॥
इयं च साक्षात्षोढा अविरुद्धोपलब्धिरका, परम्परया तु संभवन्तीय. मन्त्रैवान्तर्भाव्या, तद्यथा-कार्यकार्याविरुद्धोपलब्धेः कार्याविरुद्धोपलब्धौ १५ अभूदत्र कोशः कलशोपलम्भात् । कोशकायं कुम्भ एवमन्यत्रापि ॥२॥ विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥ ८३॥ तत्राद्या स्वभावविरुद्धोपलब्धिः ॥ ८४ ॥ स्वभावविरुद्धोपलब्धिरिति प्रतिषेध्यस्थार्थस्य यः स्वभावः स्वरूपम् , तेन सह यत्साक्षाद्विरुद्धम् , तस्योपलब्धिः ॥ ८४ ॥ यथा नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भात् ॥ ८५॥ २१ स्पष्टः सर्वथैकान्तानेकान्तयोः साक्षाद्विरोधः। नन्वयमनुपलब्धिहेतुरेव युक्तो, 'यावान् कश्चित्प्रतिषेधः स सर्वोऽनुपलब्धेः' इति वचनादिति चेत्तन, उपलम्भाभावस्यात्र हेतुत्वेनानुपन्यासात् ॥ ८५ ॥ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥ ८६॥ . प्रतीति । प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्वाम्नेषां ये व्याप्सादयो व्याप्यकार्यकारणादयस्तंपामुपलब्धयः ॥ ८६ ॥
२४
Page #25
--------------------------------------------------------------------------
________________
२०. सावचूरिके प्रमाणनतत्वालोकालङ्कारे तृतीयः परिच्छेदः ।
विरुद्धव्याप्तोपलब्धिर्यथा-नास्त्यस्य पुंसस्तत्त्वेषु विनिश्चयस्तत्र सन्देहात् ॥ ८७॥ ३ विरुद्धेति । जीवादितत्त्वगोचरो निश्चयः प्रतिषेध्यस्तद्विरुद्धश्चानिश्चयस्तेन व्याप्तस्य संदेहस्योपलब्धिः ॥ ८७ ॥
विरुद्धकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदन६ विकारादेः॥ ८८॥
विरुद्धेति । वदनविकारस्ताम्रतादिः । प्रतिषेध्यः क्रोधाधुपशमः, तद्विरुद्धसदनुपशमः, तत्कार्यस्य वचनविकारादेरुपलब्धिः ॥ ८ ॥ ९ विरुद्धकारणोपलब्धिर्यथा-नास्य महर्षेरसत्यं वचः समस्ति, रागद्वेषकालुष्याकलङ्कितज्ञानसंपन्नत्वात् ॥ ८९ ॥
विरुद्धेति । प्रतिषेध्येनासत्येन सह विरुद्धं सत्यम् । तस्य कारणं रागाद्य१२कलङ्कितं ज्ञानम् । तत्कुतश्चित्सूक्ताभिधानादेः सिद्यत्सत्यं साधयति । तच सिचदसत्यं प्रतिषेधयति ॥ ८९॥
विरुद्धपूर्वचरोपलब्धिर्यथा नोंद्गमिष्यति मुहूर्तान्ते पुष्यतारा ५रोहिण्युद्गमात् ॥ ९॥
विरुद्धेति । प्रतिषेभ्योऽत्र पुष्योगमः तद्विरुद्धो मृगशीर्षोदयस्तदनन्तरं पुनर्वसूदयस्यैव भावात् । तत्पूर्वचरो रोहिण्युदयस्तस्योपलब्धिः ॥ ९० ॥ १. विरुद्धोत्तरचरोपलब्धिर्यथा नोदगान्मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयात् ॥ ९१॥
विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याशानं सम्यग्ज्ञान२१ दर्शनात् ॥ ९२॥
विरुद्धति । प्रतिषेध्येन मिथ्याज्ञानेन सह विरुद्धं सम्यग्ज्ञानं तरसहचरं सम्यग्दर्शनं तब प्राण्यनुकम्पादेः कुतश्विप्रसिद्यत् सहचरं सम्यग्ज्ञानं साधयति । इयं सप्तधापि विरुद्धोपलब्धिः साक्षाद्विरोधमाश्रित्योक्ता । परम्परया विरोशाश्रयणेन त्वनेकप्रकारापि विरुद्धोपलब्धिः संभवंत्यत्रैवान्तर्भाव्या, तद्यथाकार्यविरुद्धोपलब्धिापकविरूद्धोपलब्धिः कारणविरुदोब्धिरिति त्रयं स्वभाव२०बिरुद्धोपलब्धौ । तत्र कार्यविरुद्धोपलब्धियथा नात्र देहिनि दुःखकारण
Page #26
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालकारे तृतीयः परिच्छेदः। ॥ मस्ति सुखोपलम्भात् । साक्षादन सुखदुःखयोर्विरोधः, प्रतिषेध्यस्वभावेन तु सुखदुःखकारणेन परम्परया । व्यापकवि०-न संनिकर्षादिःप्रमाणमज्ञानत्वात् । साक्षादत्र ज्ञानत्वाज्ञानत्वयोर्विरोधः, प्रतिषेध्यस्वभावेन तु ज्ञानत्वव्याप्येन प्रामाण्येन व्यवहितः । कारणवि०-नासौ रोमहर्षादिविशेषवान् समीपवर्तिपावकविशेषात् । अत्र पावकः साक्षाद्विरुवः शीतेन, प्रतिषेध्यसमावेन तु रोमहर्षादिना शीतकार्येण पारम्पर्येण । ये तु नास्त्यस्य हिमजनितरोमहर्षादि-६ विशेषो धूमात् । प्रतिषेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निस्तस्कार्य धूम इत्यादयः कारणविरुद्धकार्योंपलब्ध्यादयो विरुद्धोपलब्धिभेदास्ते यथासम्भवं विरुद्धकार्योंपलब्ध्यादिष्वन्तर्भाव्याः ॥ १२ ॥
अनुपलब्धेरपि द्वैरूप्यमविरुद्धानुपलब्धिर्विरुद्धानुपलब्धिश्च ॥९३॥ तत्राविरुद्धानुपलब्धिः प्रतिषेध्यावबोधे सप्तप्रकारा॥९४ ॥ १२ प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचराणामनुपलब्धिरिति ॥९५॥
खभावानुपलब्धिर्यथा नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षण-१५ प्राप्तस्य तत्वभावस्यानुपलम्भात् ॥ ९६॥
उपलब्धिलक्षणप्राप्तस्येति । उपलब्धिर्ज्ञानं तस्य लक्षणानि कारणानि चक्षुरादीनि तानि प्राप्तः, जनकत्वेनोपलब्धिकारणान्तर्भावात्स तथा दृश्य १८ इत्यर्थस्तस्यानुपलम्भात् ॥ ९६ ॥
व्यापकानुपलब्धिर्यथा नास्त्यत्र प्रदेशे पनसः पादपानुपलब्धेः॥ ९७॥
कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजं अपरानवलोकनात् ॥ ९८॥
कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयो भावास्त-२४ त्त्वार्थश्रद्धानाभावात् ॥ ९९॥
तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्याभावः कुतोऽपि देवष्यभक्षणादेः सकाशासिध्यंस्तत्त्वार्थश्रद्धानकार्यभूतानां प्रशमादीनामभावं गमयति ॥.९९ ॥२७
Page #27
--------------------------------------------------------------------------
________________
२२ सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः ।
पूर्वचरानुपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते स्वातिनक्षत्रं चित्रोदयादर्शनात् ॥ १००॥ ३ उत्तरचरानुपलब्धिर्यथा नोदगमत्पूर्वभद्रपदा मुहूर्तात्पूर्वमुत्तरभद्रपदोद्गमानवगमात् ॥ १०१॥
सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानु. ६ पलब्धेः ॥ १०२॥
इयं सप्तधाप्यनुपलब्धिः साक्षादनुपलम्भद्वारेण । परंपरया पुनरेषा संभवन्यत्रैवान्तर्भाव्या । तथाहि-नास्त्येकान्तनिरन्वयं तत्वम् तत्र क्रमाक्रमा९ नुपलब्धेरिति या कार्यव्यापकानुपलब्धिः निरन्वयतत्वकार्यस्यार्थक्रियारूपस्य यव्यापकं क्रमाक्रमरूपं तस्यानुपलम्भसद्भावारसा व्यापकानुपलब्धावेव क्षेप्या।
एवमन्या अपि यथासंभवमास्वेव विशन्ति ॥ १०२॥ १२ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पंचधा ॥ १०३ ॥
विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भमेदात्॥१०४॥
विरुद्धकार्यानुपलब्धिर्यथा अत्र शरीरिणि रोगातिशयः समस्ति ३५ नीरोगव्यापारानुपलब्धेः ॥ १०५॥
विरुद्धेति । विधेयस्य रोगातिशयस्य विरुद्धमारोग्यं तस्य कार्य विशिष्टव्यापारस्तस्यानुपलब्धिः ॥ १०५ ॥ १८ विरुद्धकारणानुपलब्धिर्यथा विद्यतेऽत्र प्राणिनि कष्टमिष्टसंयोगाभावात् ॥ १०६॥
विधेयं कष्टं तद्विरुद्धं सुखं तस्य कारणमिष्टसंयोगस्तस्यानुपलब्धिः ॥२०६॥ २१ विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तखभावानुपलम्भात् ॥ १०७॥
वस्तुजातमन्तरङ्गो बहिरङ्गश्च पदार्थसार्थः । अत्यते गम्यते निश्चीयते २४ इत्यन्तो धर्मः । अनेकश्चासावन्तश्चानेकान्तः । स आत्मा यस्य तदनेकान्तात्मकम् ॥ १०७ ॥
विरुद्धव्यापकानुपलब्धिर्यथा अस्त्यत्र छाया औष्ण्यानुप२.लब्धेः ॥१०८॥
Page #28
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयचतुयौँ परिच्छेदो। २३ विधेयया छायया विरुद्धस्तापः तव्यापकमौष्ण्यं तस्यानुपलब्धिरिति॥१०॥ विरुद्धसहचरोपलब्धिर्यथा अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलम्भात् ॥ १०९॥ इति स्मरणप्रत्यभिज्ञानतर्वानुमानखरूपनिर्णयो नाम
तृतीयः परिच्छेदः ॥३॥
इति तृतीयः परिच्छेदः। आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥१॥ आक्षेति । आगम्यन्ते मर्यादयाऽवबुध्यन्ते अर्था अनेनेत्यागमः ॥ १॥ ९ उपचारादाप्तवचनं च ॥२॥
प्रतिपाद्यज्ञानस्य ह्यागमवचनं कारणमिति कारणे कार्योपचारात्तदप्यागमः ॥२॥
यथा समस्त्यत्र प्रदेशे रत्ननिधानम्, सन्ति रत्नसानुप्रभृ. तयः॥३॥
अस्त्यत्र प्रदेशे रवनिधानं सन्ति रखसानुप्रभृतयः इति वक्ष्यमाणलौकिक-१५ जनकादिलोकोत्तरतीर्थकराधपेक्षया क्रमेणोदाहरणोभयी ॥३॥
अभिधेयं वस्तु यथावस्थितं यो जानीते यथाशातं चाभिधत्ते स आप्तः ॥४॥
आप्यते प्रोक्तोऽर्थोऽसादित्याप्तः । यद्वा आप्तिः रागादिदोषक्षयः, सा विद्यते यस्येति आप्तः । जाननपि रागादिमानन्यथापि कथयेत्तद्विच्छित्तये यथाज्ञातमित्युक्तम् ॥४॥ तस्य हि वचनमविसंवादि भवति ॥५॥ स च द्वेधा लौकिको लोकोत्तरश्च ॥६॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥७॥ वर्णपदवाक्यात्मकं वचनम् ॥ ८॥ - उपलक्षणं चैतत्प्रकरणपरिच्छेदादीनामपि ॥८॥
Page #29
--------------------------------------------------------------------------
________________
२४ सावचूरिके प्रमाणनयतत्त्वालोकालकारे चतुर्थः परिच्छेदः ।
अकारादिः पौगलिको वर्णः॥९॥
पुद्गलैर्भाषावर्गणापरमाणुभिरारब्धः पौद्गलिकः ॥९॥ ३ वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम्, पदानां तु वाक्यम् ॥१०॥
वर्णौ च वर्णाश्चेत्येकशेषाद्वर्णा ब्रह्मसंबोधने क इत्यादौ द्वयोः गौरित्यादौ ६ बहूनां च वर्णानामन्योन्यापेक्षाणां पदार्थप्रतिपत्तौ कर्तव्यायां परस्परं सहकारितायां स्थितानां 'निरपेक्षा' पदान्तरवर्णकृतोपकारपराङ्मुखी, संहतिमलकः । 'पदं' पद्यते गम्यते स्वयोग्योऽर्थोऽनेनेति व्युत्पत्तेः, प्रायिकत्वाच ९ वर्णद्वयादेरेव पदत्वं लक्षितं यावता विष्णुवाचकैकाक्षराकारादिकमपि पदत्वेन लक्षितं द्रष्टव्यम् । पदानां तु स्वोचितवाक्यार्थप्रत्यायने विधेयेs. न्योन्यनिर्मितोपकारमनुसरतां वाक्यान्तरस्थपदापेक्षारहिता संहतिर्वाक्यम१२ भिधीयते ॥ १०॥
संकेतमात्रेणैव शब्दोऽथ प्रतिपादयति नतु स्वाभाविकसंबन्धवशादिति गदतो नैयायिकान्समयादपि नायं वस्तु वदति इति वदतः सौगतान्परा१५ कुर्वन्ति
खाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः॥ ११॥
स्वाभाविकं सहजम्, 'सामर्थ्य' च शब्दस्यार्थप्रतिपादनशक्तियोग्यता १८ नानी, समयश्च संकेतस्ताभ्यामर्थप्रतिपत्तिकारणं शब्दः । ननु शब्दार्थयोर्यदि
वास्तवः संबन्धः तर्हि संकेतो वृथा । स खलु संबन्धो यतोऽर्थप्रतीतिः। स
चेद्वास्तवस्तर्हि निरर्थकः संकेतः तत एवार्थप्रतीतिसिद्धेः । तदयुक्तम् । यतो न २१ विद्यमान इत्येव संबन्धोऽर्थप्रतीतिनिबन्धनम् । किन्तु स्वात्मज्ञानसहकारी यथा प्रदीपस्तथाहि प्रदीपो रूपप्रकाशनस्वभावोऽपि यदि स्वात्मज्ञानदर्शनसह
कारिकृतसाहायकस्ततो रूपं प्रकाशयति । नान्यथा-(असति चक्षुषि न प्रका. २४ शयति(?))-ज्ञापकत्वात् । न खलु धूमादिकमपि लिङ्गं वस्तुवृत्त्या वयादिप्रतिबद्धमपि सत्तामात्रेण वह्नयादेर्गमकम् । तदुक्तमन्यैरपि-"ज्ञापकत्वादिसंबन्धः स्यात्मज्ञानमपेक्षते। तेनासौ विद्यमानोऽपि नागृहीतप्रकाशक:" ॥१॥
संबन्धस्य च परिज्ञानं तदावरणकक्षयोपशमाभ्याम् , तौ च संकेततपश्चरण. २८ भावनायनेकसाधनसाध्यौ । ततश्च संकेतादिभ्यः समुत्पमतदावरणक्षयोप
Page #30
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे चतुर्थः परिच्छेदः। २५ शमानां शब्दादर्थाच्च केवलादप्यवैपरीत्येन वाच्यवाचकभावः संवन्धोऽवगमपथमेतीति ॥ ११ ॥ किमस्य शब्दस्य स्वाभाविक रूपं किंच परापेक्षमिति विवेचयन्ति- ३
अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद्यथार्थत्वायथार्थत्वे पुनः पुरुषगुणदोषावनुसरतः॥ १२॥
अर्थेति । अस्य स्वाभाविकं परानपेक्षं रूपम् । अयं पुनः प्रदीपाच्छब्दस्य ६ विशेषो यदसौ सङ्केतव्युत्पत्तिमपेक्षमाणः पदार्थप्रतीतिमुपजनयति । प्रदीपस्तु तमिरपेक्षः । यथार्थत्वायथार्थत्वे सत्यार्थत्वाऽसत्यार्थत्वे पुनः प्रतिपादकनराधिकरणशुद्धस्वाशुद्धस्वेऽनुसरतः । सम्यग्दर्शिनि शुचौ नरे वक्तरि यथार्थी ९ शाब्दी प्रतीतिरन्यथा तु मिथ्यार्था ॥ १२ ॥
सर्वत्रायं ध्वनिर्विधिनिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥ १३॥
यथैवान्तर्बहिर्वा भावराशिः स्वरूपमाबिभर्ति तं तथाभूतं सप्तभङ्गीसमनुगत एव शब्दो वक्तुं पटीयानित्याहुः ॥ १३॥
एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः १५ समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥ १४ ॥
अविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधि- १८ निषेधयोः पर्यालोचनया कृत्वा स्थाच्छब्दलांछितः सप्तधा वचनविन्यासः सप्तभङ्गी । नानावस्त्वाश्रयविधिनिषेधकल्पनया शतभङ्गीप्रसङ्गनिवर्तनार्थमेकत्र वस्तुनीत्युक्तम् । एकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्य-२१ मानानन्तधर्मपर्यालोचनया अनन्तभङ्गीप्रसक्तिव्यावर्तनार्थमेकैकधर्मपर्यनुयोगवशादित्युपात्तम् । प्रत्यक्षादिविरुद्धसदसन्नित्यानित्यायेकान्तविधिप्रतिषेधकल्पनयाऽपि प्रवृत्तस्य वचनप्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थमविरोधेने २४ त्युक्तम् ॥ १४ ॥
अस्यामाद्यभङ्गोल्लेखमाहुःतद्यथा-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भगः१५२७
Page #31
--------------------------------------------------------------------------
________________
२६ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे चतुर्थः परिच्छेदः ।
तद्यथेति । स्यात्कथंचित्स्वद्रव्यक्षेत्रकालभावस्वरूपेणास्त्येव सर्व कुम्भादि । न पुनः परद्रव्यादिरूपेण । तथाहि कुम्भो द्रव्यतः पार्थिवत्वेनास्ति न ३ जलादिरूपत्वेन, क्षेत्रतः पाटलिपुत्रकत्वेन न कान्यकुब्जादित्वेन, कालतः
शैशिरवेन न वासन्तिकादित्वेन, भावतः श्यामरवेन न रकत्वादिना, अवधारणं चात्रानभिमतार्थव्यावृत्यर्थम् ॥ १५॥ ६ द्वितीयमाहुः
स्यानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥ १६ ॥
स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रतिनियत९ स्वरूपाभावाद्वस्तुप्रति नियमविरोधः ॥ १६ ॥
स्थादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः॥१७॥ १२ क्रमाप्तिाभ्यां अस्तित्वनास्तित्वाभ्यां विशेषितं सर्व कुंभादि वस्तु स्वादस्त्येव स्थानास्त्येवेत्युल्लेखेन वक्तव्यम् ॥ १७ ॥
स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः॥ १८ ॥ १५ द्वाभ्यामस्तित्वनास्तित्वाख्यधर्माभ्यां युगपत्प्रधानवयाऽर्पिताभ्यामेकस्य वस्तुनो विधिरसायां तादृशस्य शब्दस्यासंभवादवक्तव्यं जीवादिवस्स्विति ॥१८॥
स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधि१८ निषेधकल्पनया पंचमः॥१९॥
स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः ॥ २०॥ २१ स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधि. निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः ॥ २१॥
स्वपरद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वनास्तिस्वयोः सतोरस्तित्वनास्तित्वाभ्यां २४ समसमयमभिधातुमशक्यं सर्व वस्तु तत एवमनेन भङ्गेनोपदिश्यते॥२१॥
अस्यामेव सप्तभङ्गयामेकान्तविकल्पानिराकुर्वन्ति
विधिप्रधान एव ध्वनिरिति न साधुः ॥ २२ ॥ २७ निषेधस्यापि तस्मादप्रतिपत्तिप्रसक्तेः॥ २३॥
Page #32
--------------------------------------------------------------------------
________________
सावरिके प्रमाणनयतत्वालोकालङ्कारे चतुर्थः परिच्छेदः। २७ अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥ २४ ॥ तमिति निषेधम् ॥ २४ ॥ कचित्कदाचित्कथंचित्प्राधान्येनाप्रतिपन्नस्याप्राधान्यानुपपत्तेः३ ॥२५॥
न खलु मुख्यतः स्वरूपेण प्रतिपनं वस्तु कचिदप्रधानभावमनुभवतीति । इस्थमाद्यमकान्तं निरस्य द्वितीयभङ्गैकान्तनिरासमतिदिशन्ति । ६ निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम् ॥ २६॥ क्रमादुभयप्रधान एवायमित्यपि न साधीयः ॥ २७ ॥
अस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥२८॥
आयद्वितीयभङ्गगतैकैकप्रधाना प्रतीतेरप्यबाधितत्वान्न तृतीयभङ्गैकान्तः श्रेयान् ॥ २८॥
युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासौ इतिवचो न चतुरस्रम् ॥ २९॥
तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसंगात् ॥ ३०॥ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि नैकान्तः ॥ ३१॥
निषेधात्मनोऽर्थस्य वाचकत्वेन सह विधिनिषेधात्मनोऽर्थस्यावाचकत्वेन १४ शब्दः षष्ठभने प्रतीयते । अतः पञ्चमभङ्गैकान्तोऽपि न श्रेयान् ॥ ३१ ॥
निषेधात्मनः सह द्वयात्मनश्वार्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥ ३२॥
निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एवायमित्यप्यवधारणं न रमणीयम् ॥ ३३॥ इतरथापि संवेदनात् ॥ ३४॥ क्रमाक्रमाभ्यामुभयखभावस्य भावस्य वाचकश्चावाचकश्च । ध्वनि न्यथा इत्यपि मिथ्या ॥ ३५ ॥
१६
Page #33
--------------------------------------------------------------------------
________________
२८ सावचूरिके प्रमाणनयतत्वालोकालकारे चतुर्थः परिच्छेदः । विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धः ॥ ३६॥
नन्वेकसिन्जीवादी वस्तुन्यनन्तानां धर्माणामङ्गीकरणादनन्ता एव वचन३ मार्गा स्युस्ततो वृथैव सप्तभङ्गीति अवाणं निरस्पति
एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसंगादसंगतैव सप्तभङ्गीति चेतसि न निधेयम् ॥ ३७॥ ६ अत्र हेतुमाहुः
विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामेव सप्तभङ्गीनां संभवात् ॥ ३८॥ ९ विधिरिति । एकैकं पर्यायमाश्रित्य वस्तुनि विधिनिषेधविकल्पाभ्यां सौव भनयः स्युः । न स्वनन्ताः ॥ ३०॥
कुतः सप्तैव भङ्गा इत्याहुः१२ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥३९॥
एतदपि कुत इत्याहुः
तेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात् ॥४०॥ १५ तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात् ॥४१॥
तस्या इति प्रतिपाद्यजिज्ञासायाः। तत्संदेहसमुत्पादादिति प्रतिपायसंशयसमुत्पत्तेः ॥ ४॥ १८ तस्यापि सप्तप्रकारत्वनियमः खगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः॥४२॥
तस्य प्रतिपाद्यगतसंदेहस्य । 'स्वगोचरवस्तुधर्माणां' संदेहविषयीकृतानाम२१ स्तिस्वादिवस्तुपर्यायाणाम् ॥ ४२ ॥
इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशखभावा विकलादेशखभावा च॥४३॥ २४ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरमेदवृत्तिप्रा.
धान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकला२६ देशः॥४४॥
Page #34
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे चतुर्थः परिच्छेदः । २९
1
प्रमाणेति । यौगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्याऽभेदोपचारेण वा प्रतिपादयति सकलादेशस्तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद्भेदप्राधान्याद्वा तदभिधत्ते तस्य नयायत्तत्वात् । कः पुनः ३ क्रमः ? किं वा यौगपद्यम् ? यदास्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकशब्दस्यानेकार्थप्रत्यायने शक्त्यभावात्क्रमः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायन- ६ मुखेन तदात्मकतामापन्नस्यानेकाशेषरूपस्य वस्तुनः प्रतिपादनसंभवाद्यौ - गपद्यम् । के पुनः कालादयः ? कालः १ आत्मरूपं २ अर्थः ३ सम्बन्धः ४ उपकारः ५ गुणिदेशः ६ संसर्गः ७ शब्दः ८ इत्यष्टौ । तत्र स्याज्जीवादिवस्तु ९ अस्त्येवेत्यत्र यत्कालमस्तित्वम् तस्कालाः शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः ॥ १ ॥ यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेवान्यानन्तगुणानामपीत्यात्मरूपेणाभेदवृत्तिः ॥ २ ॥ य एव चाधारार्थी १२ द्रव्याख्योsस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः ॥ ३ ॥ य एव चाविष्वग्भावः कथं चित्तादात्म्यलक्षणः संबन्धोऽस्तित्वस्य स एवाशेषविशेषाणामिति संबन्धेनाऽभेदवृत्तिः ॥ ४ ॥ य एव चोपकारोऽस्तित्वेन १५ स्वानुरक्तत्वकरणं स एव शेषैरपि गुणैरित्युपकारेणाभेदवृत्तिः ॥ ५ ॥ य एव गुणिनः संबन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्यगुणनामिति गुणिदेशेनाभेदवृत्तिः ॥ ६ ॥ य एव चैकवस्त्वात्मनोऽस्तित्वस्य संसर्गः स १८ एवाशेषधर्माणामिति संसर्गेणाभेदवृत्तिः । अभेदप्राधान्येन तगुणभावेन च प्रागुक्तः संबन्धः, भेदप्राधान्येनाभेदगुणभावेन चैष संसर्ग इति संबन्धादस्य विशेषः ॥ ७ ॥ य एवास्तीति शब्दोऽस्तित्व धर्मात्मकस्य वस्तुनो वाचकः स २१ . एवानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः ॥ ८ ॥ पर्यायार्थिकनयगुणभावे द्रव्यार्थिकनयप्राधान्यादुपपद्यते ॥ द्रव्यार्थिकगुणभादे पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः संभवति, समकालमेकत्र नानागुणानामसंभवा- २४ संभवे वा तदाश्रयस्य तावद्वा भेदप्रसंगात् ॥ १ ॥ नानागुणानां संबन्धिन आत्मरूपस्य च भिन्नत्वादात्मरूपाभेदे तेषां भेदस्य विरोधात् (२) स्वाश्रयस्यार्थस्यापि नानात्वादन्यथा नानागुणाश्रयत्वविरोधात् (३) संबन्धस्य च २७ सम्बन्धिमेदेन भेददर्शनात्, नानासंबन्धिभिरेकत्रैकसम्बन्धाघटनात् (४) तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात् अनेकैरुपकारिभिः २९
Page #35
--------------------------------------------------------------------------
________________
३० सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थः परिच्छेदः । 'क्रियमाणस्योपकारस्यैकस्य विरोधात् (५) गुणिदेशस्य च प्रतिगुणं भेदात्तद
भेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसंगात् (६) संसर्गस्य च प्रतिसंसर्गि३ भेदात्तदभेदे संसर्गिभेदविरोधात् (७) शब्दस्य च प्रतिविषयं नानात्वासर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेः शब्दान्तरवैफल्यापत्तेः ॥ ८॥ तत्त्वतोऽस्तित्वादीनामेकत्र वस्तुन्येवमभेदवृत्तेरसंभवे ६कालादिभेदोपचारः क्रियते । तदेताभ्यामभेदवृत्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मास्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स सकलादेशः प्रमाणवाक्यापरपर्यायः । हेतुः कालात्मरूपार्थाः संबन्धोपकृती ९तथा । गुणिदेशश्च संसर्गः शब्दश्चाष्टौ भिदाभिदोः ॥ ४४ ॥
तद्विपरीतस्तु विकलादेशः॥ ४५ ॥
तद्विपरीतेति । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यानेदो. १२पचाराद्वा क्रमेण यदभिधायकं वाक्यं स विकलादेशः ॥ ४५ ॥
प्रमाणं निर्णीयाथ यतः कारणात्प्रतिनियतमर्थमेतद्यवस्थापयति तदाहुः
तद् द्विभेदमपि प्रमाणमात्मीयप्रतिवन्धकापगमविशेषस्वरूप१५ सामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ॥ ४६॥
तदिति । स्वकीयज्ञानावरणक्षयक्षयोपशमलक्षणयोग्यतावशात् प्रतिनियतं नीलादिकमर्थ व्यवस्थापयति ॥ ४६ ॥ १८ न तदुत्पत्तितदाकारताभ्याम् , तयोः पार्थक्येन सामस्त्येन ___ च व्यभिचारोपलम्भात् ॥ ४७ ॥
इति आगमाख्यस्वरूपनिर्णयो नाम चतुर्थः परिच्छेदः ॥ ४ ॥ २१ तथाहि ज्ञानस्यैताभ्यां व्यस्ताभ्यां समस्ताभ्यां वा प्रतिनियतार्थव्यवस्थाप
कत्वं स्यात् । यद्याद्यः पक्षस्तदा कपालक्षणः कलशान्त्यक्षणस्य व्यवस्थापकः स्यात्तदुत्पत्तेः केवलायाः सद्भावात् , स्तम्भः स्तम्भान्तरस्य व्यवस्थापकः स्यात्त२४ दाकारतायास्तदुत्पत्तिरहिताया सद्भावात् । अथ द्वितीयस्तदा कपालस्योत्तरः
क्षणः पूर्वक्षणस्य व्यवस्थापको भवेत्समुदितयोस्तदुत्पत्तितदाकारतयोर्विद्यमान२६ त्वात्। अथ विद्यमानयोरप्यनयोर्ज्ञानमेवार्थस्य व्यवस्थापकम् नार्थस्तस्य जडत्वा.
Page #36
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थपंचमौ परिच्छेदौ । ३१ तदपि न, समानार्थसमनन्तरप्रत्ययोत्पन्नज्ञानैर्व्यभिचारात् , तानि यथोक्तार्थव्यवस्थापकत्वलक्षणस्य समग्रस्य सद्भावेऽपि प्राच्यं जनकज्ञानक्षणं न गृह्णन्तीति ॥ ४७ ॥
इति चतुर्थः परिच्छेदः।
प्रमाणस्वरूपसंख्ये समाख्याय विषयमाचक्षतेतस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ ६ तस्येति । विषयः परिच्छेधं सामान्यविशेषावादिर्यस्य सदसदाद्यनेका. न्तस्य तत्तदात्मकमुच्यते ॥ १ ॥ एवंविधवस्तुसमर्थनार्थ साक्षाद्धेतुद्वयाभिधानमाहुः
अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थानखरूपपरिणत्यार्थक्रियासामर्थ्यघटनाञ्च ॥२॥
अन्विति । अनुगताकारानुवृत्तस्वभावा गौगौरित्यादिप्रतीतिर्विशिष्टाकारा १२ व्यावृत्तरूपा शबलः श्यामल इत्यादि प्रतीतिस्तद्गोचरत्वादिति तिर्यक्सामान्यगुणाख्यविशेषलक्षणानेकान्तात्मकवस्तुसिद्धौ हेतुः । प्राचीनोत्तराकारयोर्यथासङ्ख्येन ये परित्यागोपादाने ताभ्यां यदवस्थानं तत्स्वरूपपरिणामेणार्थ- १५ क्रियासामर्थ्यघटनात्कार्यकरणोपपत्तरित्यूर्ध्वतासामान्यपर्यायाख्यविशेषरूपानेकान्तारमकवस्तुसिद्धौ हेतुः, चकारात्सदसदायनेकान्तसमर्थकहेतवः सदस. दाकारप्रतीतिविषयत्वादयो द्रष्टव्याः ॥२॥ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्ध्वसामान्यं च ॥३॥ सामान्येति । तिर्यगुल्लेखिनानुवृत्ताकारप्रत्ययेण गृह्यमाणं तिर्यक्सामान्यम् । ऊर्ध्वमुल्लेखिना तूर्वसामान्यम् ॥ ३॥
प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिषु गोत्वं यथा ॥४॥
प्रतिव्यक्तीति । व्यक्ति व्यक्तिमधिश्रित्य समाना परिणतिस्तियक्सामान्यम् ॥ ४॥
३५
Page #37
--------------------------------------------------------------------------
________________
३२ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे पंचमषष्ठौ परिच्छेदौ ।
पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं कटककङ्कणाधनुगामिकाञ्चनवत् ॥५॥ ३ पूर्वेति । पूर्वापरपर्याययोरनुगतात्मकं द्रव्यं त्रिकालानुयायी यो वस्त्वंशः तदूर्ध्वतासामान्यम् ॥ ५॥
विशेषोऽपि द्विरूपो गुणः पर्यायश्च ॥ ६॥ ६ विशेष इति । सर्वेषां विशेषानां वाचकोऽपि पर्यायशब्दो गुणशब्दस्य सहवर्तिविशेषवाचिनः सन्निधानेन क्रमवर्तिविशेषवाच्योऽत्र गृह्यते ॥ ६ ॥
गुणः सहभावी धर्मो यथात्मनि विज्ञानव्यक्तिशत्यादिः ॥७॥ ९ गुण इति । सहभावित्यमत्र लक्षणम् , यथेत्यादिकमुदाहरणम् । विज्ञानव्यक्तियत्किचिज्ज्ञानं तदानीं विद्यमानम् । विज्ञानशक्तिरुत्तरज्ञानपरिणाम
योग्यता । आदिशब्दात्सुखपरिस्पन्दयौवनादयो गृह्यन्ते ॥ ७ ॥ १२ पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ॥ ८॥
इति प्रमेयखरूपनिर्णयो नाम पंचमः ॥५॥ पर्यायेति । धर्म इत्यनुवर्तनीयम् । क्रमभावित्वमिह लक्षणम्, परिशिष्टं तु १५ निदर्शनम् । तत्रेत्यात्मनि । आदितो हर्षविषादादीनामुपादानम् । अयमर्थः
ये सहभाविनः सुखज्ञानवीर्यपरिस्पन्दयौवनादयस्ते गुणाः, ये तु क्रमवृत्तयः सुखदुःखहर्षविषादादयस्ते पर्याया इति ॥ ८ ॥
इति पञ्चमः परिच्छेदः ॥५॥
२१
प्रमाणस्य फलमाहुःयत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ १॥ तद्विविधमानंतर्येण पारम्पर्येण च ॥२॥ तत्रानन्तर्येण सर्वप्रमाणानामशाननिवृत्तिः फलम् ॥ ३॥
'अज्ञानस्य' विपर्ययादेनिवृत्तिः प्रध्वंसः स्वपरव्यवसितिरूपा फलं बोद्धव्यम् ॥ ३॥ २५ पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥४॥
Page #38
--------------------------------------------------------------------------
________________
सावरिके प्रमाणनयतत्त्वालोकालङ्कारे षष्ठः परिच्छेदः। ३३ औदासीन्यं साक्षात्समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहान्माध्यस्थमुपेक्षेत्यर्थः । सिद्धप्रयोजनत्वात् । हेयस्य संसारतत्कारणस्य हानादुपादेयस्य मोक्षतस्कारणस्योपादानासिद्धप्रयोजनस्वं नासिद्धं भगवताम् ॥ ४ ॥ ३
शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः॥ ५॥ उपादानहानोपेक्षाबुद्धयः पारम्पर्येण फलम् ॥ ५॥ प्रमाणात् फलस्य भेदाभेदैकान्तत्वादिवादिनो यौगसौगतानिराकतुं स्वमतं ६ च स्थापयितुं प्रमाणयन्ति
तत्प्रमाणतः स्याद्भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः ॥६॥ तदिति फलम् ॥ ६॥ अत्राशय व्यभिचारमपसारयन्ति । उपादानबुझ्यादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतोय॑भि-१२ चार इति न विभावनीयम् ॥ ७॥
उपादानेति । प्रमाणफलं च भविष्यति प्रमाणात्सर्वथा भिन्नं च भविष्यति यथोपादानबुयादिकमिति न परामर्शनीयं योगैरित्यर्थः ॥ ७॥
१५ अत्र हेतुः। तस्यैकप्रमातृतादात्म्येन प्रमाणादमेव्यवस्थितेः॥ ८॥ एकप्रमातृतादात्म्यमपि कुत इत्याहुः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः॥९॥ प्रमाणेति । यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः ॥९॥ एतदेव भावयन्ति । यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवात् ॥१०॥
य इति । न खल्वन्यः प्रमाता प्रमाणपर्यायतया परिणमतेऽन्यश्चोपादानहानोपेक्षाबुद्धिपर्यायस्वभावतयेति ॥ १० ॥ इतरथा स्वपरयोः प्रमाणफलयोर्व्यवस्थाविप्लवःप्रसज्येत॥११॥ २७
१८
२४
Page #39
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः ।
इतरथेति । इतरथेत्येकस्यैव प्रमातुः प्रमाणफलतादात्म्यानङ्गीकारे इमे प्रमाणफले स्वकीये, इभे च परकीये, इति नैयत्यं न स्यादित्यर्थः । ३ अज्ञाननिवृत्तिस्वरूपेण प्रमाणांदभिन्नेन साक्षात्फलेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥ १२ ॥ प्रमाणफलत्वान्यथानुपपत्तेर्हेतोरिति
૨૪
अनैकान्तिकत्वं शाक्यैः ॥ १२ ॥
१२
९ कथचिदिति वक्ष्यमाणप्रकारेण ॥ १३ ॥
तमेवाहु:
न शङ्कनीयं
कुत इत्याहुः ।
कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् ॥ १३ ॥
साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥ १४ ॥ साध्येति । ये हि साध्यसाधनभावेन प्रतीयेते, परस्परं ते भिद्येते, यथा कुठारच्छिदे, साध्यसाधनभावेन प्रतीयेते च प्रमाणाज्ञाननिवृत्याख्ये फले ॥१४ ॥ अस्यैव हेतोरसिद्धतापरिहाराय प्रमाणस्य साधनतां समर्थयन्ते । स्वपरव्यवसितौ साधकतम -
१५ प्रमाणं हि करणाख्यं साधनम्, त्वात् ॥ १५ ॥
फलस्य साध्यत्वं समर्थयन्ते ।
१८ स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यम्, प्रमाणनिष्पाद्यत्वात् ॥ १६ ॥
स्वेति । यत् प्रमाणनिष्पाद्यं तत् साध्यम्, यथोपादानबुद्ध्यादिकम्, २१ प्रमाणनिष्पाद्यं च प्रकृतफलम्, तत्र प्रमाणादेकान्तेन फलस्याभेदः ॥ १६ ॥ प्रसङ्गतः कर्तुरपि सकाशात् प्रस्तुतफलस्याभेदं समर्थयन्ते ।
प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः ॥ १७ ॥ २४ प्रमातुरिति । कर्तुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः ॥ १७ ॥ अत्र हेतुमाहुः
२६ कर्तृक्रिययोः साध्यसाधकभावेनोपलम्भात् ॥ १८ ॥
Page #40
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः । ३५
कर्तृक्रिययोरिति । ये साध्यसाधकभावेनोपलभ्येते ते भिन्ने यथा- - देवदत्तदारुच्छिदिक्रिये ॥ १८ ॥
एतद्धेत्वसिद्धतां प्रतिषेधयन्ति ।
कर्ता हि साधकः स्वतन्त्रत्वात् । क्रिया तु साध्या कर्तु निर्वर्त्यत्वात् ॥ १९ ॥
एनमेवार्थ द्रढयन्ति
नच क्रिया क्रियावतः सकाशादभिन्नैव भिन्नैव वा प्रतिनियतक्रियावद्भावभङ्गप्रसङ्गात् ॥ २० ॥
नचेति । अभिन्नैवेत्यनेन तु वैशेषिकाद्यभिमतं भेदैकान्तं प्रतिक्षिपन्ति । ९ क्रियायाः क्रियावत एकान्तेनाभेदे क्रियावन्मात्रमेव तात्त्विकं स्यान्नतु द्वयमभेदप्रतिज्ञाविरोधात् । एकान्तभेदे तु क्रियाक्रियावतोर्विवक्षितपदार्थस्यैवेयं क्रियेति सम्बन्धावधारणं न स्यात्, भेदविशेषादविशेषवस्तूनामप्यसौ कथं न १२ भवेत् ? । तस्माद्भेदाभेदैकान्तपक्षयोः प्रतिनियतक्रिया क्रियावद्भाव भङ्गप्रसङ्गः सुव्यक्तः ॥ २० ॥
कश्चिदाह कल्पनाकृता सर्वाऽपि प्रमाणफलव्यवहृतिरिति तन्मतमपाकु- १५ र्वन्ति -
संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः । परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥ २१ ॥
संवृत्येति । अनिरूपितत्वार्था प्रतीतिः संवृतिस्तयायमर्थः सांवृतप्रमाणफलब्व्यवहारवादिनाऽपि सांवृतत्वं प्रमाणफलयोः परमार्थवृत्या तावदेष्टव्यम् । तच्चासौ प्रमाणान्मन्यतेऽप्रमाणाद्वा । नाप्रमाणात्तस्या किंचित्करत्वात् । २१ अथ प्रमाणात्तन्न यतः सांवृतस्वग्राहकं प्रमाणं सांवृतमसांवृतं वा । यदि सांवृतं कथं तस्मादपारमार्थिकात्पारमार्थिकस्य प्रमाणफलव्यवहारसांवृतत्वस्य सिद्धिः । जथ प्रमाणफलसांवृतत्त्वग्राहकं प्रमाणं स्वयमसांवृतं तर्हि क्षीणा २४ प्रमाणफलसांवृतत्वप्रतिज्ञाऽनेनैव व्यभिचारात् । तदेवंवादिनो व्यक्त एव स्वाभिमतसिद्धिविरोधः ॥ २१ ॥
ततः पारमार्थिक एवं प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः ॥ २२ ॥
१८
२८
Page #41
--------------------------------------------------------------------------
________________
३६ सावचूरिके प्रमाणनयतत्वालोकालकारे षष्ठः परिच्छेदः ।
प्रमाणं स्वरूपादिभिः प्ररूप्य तत्स्वरूपाचाभासमप्याहुः
प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥ २३ ॥ ३ वरूपादिचतुष्टयात् स्वरूपसमाविषयफललक्षणात् ॥ २३ ॥
अज्ञानात्मकाऽनात्मप्रकाशक-खमात्रावभासक-निर्विकल्प-समा. रोपाः प्रमाणस्य स्वरूपाभासाः ॥ २४ ॥ ६ यथा सन्निकर्षाद्यखसंविदितपरानवभासकशानदर्शनविपर्यय. संशयानध्यवसायाः॥२५॥
संनिकर्षादिकमज्ञानात्मकस्य दृष्टान्तः । अस्वसंबिदितज्ञानमनात्मप्रकाश९कस्य, परानवमासकज्ञानं बाह्यापलापिज्ञानस्य, दर्शनं निर्विकल्पस्य, विपर्ययादयस्तु समारोपय ॥२५॥
कथमेषां तरखरूपाभासतेत्यत्र हेतुमाहुः१२ तेभ्यः खपरव्यवसायस्यानुपपत्तेः ॥२६॥
सामान्यतः प्रमाणस्वरूपाभासमुक्त्वा विशेषतस्तदाहुः
सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥ २७ ॥ १५ सांव्यवहारिकप्रत्यक्षमिन्द्रियानिन्द्रियनिबन्धनतया द्विप्रकारम् । उदाहरन्ति
यथाम्बुधरेषु गन्धर्वनगरक्षानं दुःखे सुखशानं च ॥ २८॥ १८ यथेति आचं निदर्शनमिन्द्रियनिबन्धनाभासस्य । अवग्रहाभासादयस्त दाः स्वयमेव शेयाः ॥ २८॥
पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥ २९ ॥ २१ यथा शिवाख्यस्य राजर्षेरसङ्ख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् ॥ ३०॥
यथा शिवस्य विभङ्गापरपर्यायमवध्याभासं संवेदनमासीत्तादृशम् । मनः२४ पर्यायकेवलज्ञानयोस्तु विपर्ययः कदाचिन्न स्यात् ॥ ३० ॥
अननुभूते वस्तुनि तदिति शानं स्मरणाभासम् ॥ ३१॥ . २६ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥ ३२ ॥
Page #42
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः । ३७
तुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्य इत्यादि ज्ञानं प्रत्यभिशानाभासम् ॥ ३३ ॥
1
तुल्ये इति । तिर्यक्सामान्यालिङ्गिते भावे स एवायमिति, ऊर्ध्ववासा- ३ मान्यस्वभावे चैकस्मिन् द्रव्ये तेन तुल्य इति ज्ञानमादित एवञ्जातीयकमन्यदपि ज्ञानं प्रत्यभिज्ञाभासम् ॥ ३३ ॥
यमलकजातवत् ॥ ३४ ॥
यमलयातयोरैकस्याः स्त्रियाः एकदिनोत्पन्नयोः पुत्रयोर्मध्यादेकत्र द्वितीयेन सुल्योऽयमिति जिज्ञासिते स एवायमिति । अपरत्र स एवायमिति बुभुत्सिते तेन तुल्योऽयमिति च ज्ञानं प्रत्यभिज्ञानाभासम् ॥ ३४ ॥ असत्यामपि व्याप्तौ तदवभासस्तर्काभासः ॥ ३५॥ असत्यामपीति । व्याप्तिरविनाभावः ॥ ३५ ॥
स श्यामो मैत्रतनयत्वात् इत्यत्र यावान् मैत्रतनयः स श्याम १२ इति यथा ॥ ३६ ॥
नहि मैत्रतनयत्वेन हेतोः श्यामत्वेन व्याप्तिरस्ति । शाकाद्याहारपरिणतिपूर्वकत्वात्श्यामतायाः । यो हि जनन्युपभुक्तशाकाद्या हारपरिणतिपूर्वकस्तनयः १५ स एव श्याम इति सर्वाक्षेपेण यः प्रत्ययः स तर्कः ॥ ३६ ॥
पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥ ३७ ॥
पक्षेति । एतच्च यदा स्वप्रतिपत्त्यर्थं तदा स्वार्थानुमानाभासम्, यदा तु १८ परप्रतिपत्त्यर्थं पक्षादिवचनरूपापन्नं तदा परार्थानुमानाभासम् ॥ ३७ ॥
तत्र प्रतीत निराकृतानभीप्सित साध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥ ३८ ॥
तत्रेति । अप्रतीतानिराकृता भीप्सित साध्य धर्मविशिष्टधर्मिणां सम्यक्पक्षस्वेन प्रागुक्तत्वात् एतेषां च तद्वितीयत्वात् ॥ ३८ ॥
२१
प्रतीतसाध्यधर्मविशेषणे यथा आर्हतान्प्रति अवधारणवर्ज २४ परेण प्रयुज्यमानः समस्ति जीव इत्यादि ॥ ३९ ॥
प्रतीतेति । भवधारणं वर्जयित्वा परोपन्यस्तः सर्वोपि वाक्प्रयोग आर्हतानां प्रतीतमेवार्थं प्रकाशयति ते हि सर्व जीवादिवस्तु अनेकान्तात्मकं प्रपन्नास्त्र - २७
Page #43
--------------------------------------------------------------------------
________________
३८ सावचूरिके प्रमाणनयतत्वालोकालकारे षष्ठः परिच्छेदः । तस्तेषामवधारणरहितं प्रमाणवाक्यं सुनयवाक्यं वा प्रयुज्यमानं प्रसिद्धमेवार्थमुद्रावयतीति व्यर्थस्तत्प्रयोगः । सिद्धसाधनः प्रसिद्धसंबन्ध इत्यपि संज्ञा. ३यमखाविरुद्धम् ॥ ३९॥
निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमालोकखवचना. दिभिः साध्यस्य निराकृतत्वादनेकप्रकारः॥४०॥ ६ निराकृतेति । आदिशब्दात् स्मरणप्रत्यभिज्ञानतर्कनिराकृतसाध्यधर्मविशेषणश्च ॥ ४०॥
प्रत्यक्ष निराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण ९आत्मेति ॥४१॥
प्रत्यक्षेति । स्वसंवेदनप्रत्यक्षेण हि पृथिव्यतेजोवायुभ्यः शरीरस्वेन परिणतेभ्यो विलक्षणोऽन्य आत्मा परिच्छिद्यते । इति तद्विलक्षणात्मनिराकरणप्रतिज्ञा १२ तेन बाध्यते । यथाऽनुष्णोऽमिरिति प्रतिज्ञा बाह्येन्द्रियप्रत्यक्षेण ॥ ४ ॥
अनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्वशो वीतरागो वा ॥४२॥ १५ अनुमानेति । अत्र यः कश्चित् निहाँसातिशयवान् स कचित्स्वकारणजनि
तनिर्मूलक्षयो यथा कनकादिमलः, निहासातिशयवती च दोषावरणे इत्यने
नानुमानेन सुव्यकैव बाधा । एतमादनुमानाचत्र कचन पुरुषे दोषावरणयोः १४ सर्वथा प्रक्षयः स सर्वज्ञो वीतरागश्च ॥ ४२ ॥
आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनिभोजनं भजनीयम् ॥४३॥ 1 आगमेति । "अस्थंगयंमि आइच्चे" इत्यागमः ॥ ४३ ॥
लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः॥४४॥ २४ लोकेति । लोकशब्देमात्र लोकप्रतीतिस्ततः सर्वा हि लोकप्रतीतिरीशी
यत्पारमार्थिकं प्रमाणम्, तेन च तरवातत्वविवक. पारमार्थिक एवं क्रियते ।
मनु लोकप्रतीतिर्यचप्रमाणं कथं तया बाधः, प्रमाणं चेत्प्रत्यक्षनिराकृतसाध्य२७ धर्मविशेषणादिपक्षाभासेष्वेवान्तर्भूतत्वाब वाच्या प्रकृतः पक्षामास इति चेत् ।
Page #44
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः। ३९ सत्यमेतत् । किन्तु लोकप्रतीतिरत्रोत्कलितत्वेन प्रतिभातीति शिष्यव्युत्पादनार्थमस्य पार्थक्येन निर्देशः । एवं शुचि नरशिरःकपालादि प्राण्यङ्गत्वाच्छङ्खशुक्तिवदित्यपि दृश्यम् ॥ ४४ ॥ .
खवचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥ ४५॥
स्ववचनेति । सर्वप्रमाणाभावमभ्युपगच्छतः स्वमपि वचनं स्वाभिप्रायप्र-६ तिपादनपरं नास्तीति वाचंयमत्वमेव तस्य श्रेयः, ब्रुवाणस्तु नास्ति प्रमाणम् प्रमेयपरिच्छेदकमिति स्ववचःप्रमाणीकुर्वन् बूत इति स्ववाचैवासौ ब्याहन्यते । एवं निरन्तरमहं मौनीत्यायपि दृश्यम् । ननु स्ववचनस्य शब्दरूपत्वात्तचिरा-१ कृतसाध्यधर्मविशेषणः प्रागुक्तागमनिराकृतसाध्यधर्मविशेषणे एवान्तर्भवतीति किमर्थमस्य भेदेनोक्तिरिति चेत् । सत्यम् । तथापि शिष्यबुद्धिविकाशार्थमस्यापि पार्थक्येन कथनम् । मरणनिराकृतसाध्यधर्मविशेषणो यथा मानतः १२ फलशून्य इति, अयं पक्षः कस्यचित्तं फलभरयुतं सम्यक्स्मर्तुः मरणेन बाध्येत । प्रत्यभिज्ञाननिराकृतं सदृशे कचन वस्तुनि कश्चन कञ्चनाधिकृत्योचंतासामान्यभ्रान्त्या तदेवेदमिति तस्यायं पक्षस्तिर्यक्सामान्यावलम्बिना १५ तेन सदृशमिति प्रत्यभिज्ञानेन निराक्रियते । तर्क निरा० यो यस्तत्पुत्रः सश्याम. इति व्याप्तिः । अस्थायं पक्षो यो जनन्युपभुक्तशाकाचाहारपरिणामपूर्वकरत पुत्रः स श्याम इति व्याप्तिग्राहिणा सम्यक्तण निराक्रियते ॥ ४५ ॥ १०
अनमीप्सितसाध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एवेतिवदतः॥ ४६॥
अनभीप्सितेति। स्थाद्वादिनः सर्वत्र वस्तुनि नित्यत्वैकान्तोऽनित्यत्वैकान्तो वा २१ नाभीप्सितस्तथापि कदाचिदसौ समाक्षोभादिनैवमपि वदेत् । ये त्वप्रसिद्धविशेषणाप्रसिद्धविशेष्याप्रसिद्धोभयाः परैः प्रोचिरे न ते युक्ताः अप्रसिद्धस्यैवविशेषणस्य साध्यमानत्वात् अन्यथा सिद्धसाध्यतावतारात् । अथात्र सार्वत्रिका २४ प्रसिचभावो विवक्षितो नतु तत्रैव धर्मिणि यथा सांल्यस्य विनाशित्वं क्वापि धर्मिणि न प्रसिद्ध तिरोभावमात्रस्यैव सर्वत्र तेनामिधानात् । तदयुक्तम् , एवं सति क्षणिकतां साधयतो भवतः कथं नाप्रसिद्ध विशेषणत्वं दोषो भवेक्षणिक-१७
Page #45
--------------------------------------------------------------------------
________________
४० सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे षष्ठः परिच्छेदः । तायाः स्वपक्षे क्वाप्यप्रसिद्धेः, विशेष्यस्य तु धर्मिणः सिद्धिर्विकल्पादप्युक्तति कथमप्रसिद्धतास्य । एतेनाप्रसिद्धोभयोऽपि परास्तः ॥ ४६॥ ३ हेत्वाभासानाहुः
असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः॥४७॥
असिद्धेति । निश्चितान्यथानुपपत्त्याख्यैकहेतुलक्षणविकलरवेनाहेतवो हेवा. ६ भासाः ॥ ४७ ॥
यस्यान्यथानुपपत्तिःप्रमाणेन न प्रतीयतेऽसावसिद्धः॥४८॥
यस्येति । अन्यथानुपपत्तेविपरीताया अनिश्चिताया विरुद्धानकान्तिक९षेन कीर्तयिष्यमाणत्वादिह हेतुस्वरूपाप्रतीतिद्वारैकैवानुपपत्यप्रतीतिरियमज्ञानात्सन्देहाद्विपर्यायाद्वा ज्ञेया ॥ ४८॥
स द्विविधः-उभयासिद्धोऽन्यतरासिद्धश्च ॥ ४९ ॥ १२ उभयासिद्धो यथा-परिणामी शब्दश्चाक्षुषत्वात् ॥५०॥
अन्यतरासिद्धिर्यथा-अचेतनास्तरवो विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात् ॥५१॥ १५ अन्यतरासिद्धिरिति । तथागतो हि तरूणामचैतन्यं साधयन् विज्ञानेन्द्रिया
युनिरोधलक्षणमरणरहितत्त्वादिति हेतुमुक्तवान् । स च जैनानां तरुचैतन्य
वादिनामसिद्धस्तदागमे द्रुमेष्वपि विज्ञानेन्द्रियायुषां प्रमाणतः प्रतिष्ठितस्वात् । १८ इदं च प्रतिवाद्यसिद्यपेक्षयोदाहरणम् । वाद्यसिद्यपेक्षया तु अचेतनाः सुखा
दयः उत्पत्तिमत्त्रात् । अत्र वादिनः साङ्ख्यस्योत्पत्तिमत्वमप्रसिद्ध तेनाविर्भावमात्रस्यैव सर्वत्र स्वीकृतत्वात् । ननु परैः स्वरूपासिद्धयेऽनित्यः शब्दश्चाक्षुष२१ स्वात्-शब्दधर्मिण्युपदिष्टं चाक्षुषत्वं न स्वरूपतोऽस्तीति स्वरूपासिद्धम् , विरुद्धमधिकरणं यस्य स चासावसिद्धश्चेति व्यधिकरणासिद्धो यथा भनित्यः
शब्दः पटस्य कृतकत्वात् इत्यादयो भूयांसोऽसिद्धभेदा उक्तास्त एते भवद्भिः २४ कथं नोक्ताः? उच्यते । एतेषु ये हेत्वाभासतां भजन्ते ते यदोभयवाद्यसिद्धत्वेन विवक्ष्यन्ते ततोभयासिद्धेऽन्तर्भवन्ति यदा त्वन्यतरासिद्धत्वेन तदान्यतरासिद्धे। व्यधिकरणासिद्धस्तु हेरवाभासो न स्यादेव व्यधिकरणादपि पित्रोर्ब्राह्मण्यारपुत्रे
ब्राह्मण्यानुमानदर्शनात् । आश्रयासिद्धतापि न युक्ता अस्ति सर्वज्ञश्चन्द्रोपरागा१४ विज्ञानान्यथानुपपत्तेरित्यादेरपि गमकत्वनिर्णयात् । नन्वन्यतरासिदो हेवा.
Page #46
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः । ४१
भास एव नास्ति तथा हि परेणासिद्ध इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत तदा प्रमाणाभावादुभयोरसिद्धः । अथाचक्षीत तदा प्रमाणस्यापक्षपातित्वादुभयोरप्यसौ सिद्धः । अत्रोच्यते यदा वादी सम्यग्वेतुत्वं ३ प्रतिपाद्यमानोऽपि तत्समर्थनन्याय विस्मरणादिनिमितेन प्रतिवादिनं प्राश्निकान्वा प्रतिबोधयितुं न शक्नोत्यसिद्धतामपि नानुमन्यते तदाऽन्यतरासिद्धत्वेनैव निगृह्यते । तथा स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्तो ६ हेतुरन्यतरासिद्धो निग्रहणेऽधिकरणं यथा सांख्यस्य जैनं प्रत्यचेतनाः सुखादयः उत्पत्तिमत्त्वात् घटवदिति ॥ ५१ ॥
साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ९ ॥ ५२ ॥
साध्येति । यदा केनचित्साध्यविपर्ययेणाविना भूतो हेतुः साध्या विनाभावभ्रान्त्या प्रयुज्यते तदासौ विरुद्धः ॥ ५२ ॥
१२
यथा नित्य एव पुरुषोऽनित्यं एत्र वा प्रत्यभिज्ञानादिमत्त्वात् ५३
प्रत्यभिज्ञानादिमत्त्वादित्यत्रादिशब्दात्स्मरणादिग्रहः । भयं च हेतुः प्राचि साध्ये साङ्ख्यादिभिराख्यातः स्थिरैकस्वरूपपुरुषसाध्य विपरीत परिणामि पुरुषेण १५ व्याप्तत्वाद्विरुद्धः, तथैकान्तानित्यत्वेऽपि साध्ये सौगतेन क्रियमाणोऽयं हेतुर्विरुद्धः परिणामिपुरुषेणैव व्याप्तत्वात् । ये च सति स्वपक्षे पक्ष विपक्षव्यापक इत्यादयो विरुद्धभेदास्तेऽस्यैव प्रपञ्चभूता वृत्तितो ज्ञेयाः ॥ ५३ ॥
यस्यान्यथानुपपत्तिः सन्दिह्यतेऽसावनैकान्तिकः ॥ ५४ ॥
यस्येति । साध्यसद्भावे क्वचिद्धेतोर्वि भावनात् क्वचित्तु तदभावेऽपि विभावनादन्यथानुपपत्तिः सन्दिग्धा स्यात् ॥ ५४ ॥
सद्वेधा – निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च ॥५५॥ भयं सन्दिग्धविपक्षव्यावृत्तिकः सन्दिग्धान्यानुपपत्तिकः सन्दिग्धव्यतिरेक इति नामान्तराणि प्राप्नोति ॥ ५५ ॥
२४
निर्णीत विपक्षवृत्तिको यथा - नित्यः शब्दः प्रमेयत्वात् ॥ ५६ ॥ प्रमेयत्वादिति । प्रमेयत्वं हि सपक्षीभूते नित्ये व्योमादौ यथा प्रतीयते तथा विपक्षभूतेप्यनित्ये घटे प्रतीयते एव । ततश्चोभयत्रापि प्रतीयमानत्वाविशे- २७
१८
२१
Page #47
--------------------------------------------------------------------------
________________
४२ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे पहः परिच्छेदः । पाकिमिदं नित्यत्वेनाविनाभूतमुताहोऽनित्यत्वेनेत्येवमन्यथानुपपत्तेः संदिनमानस्वादनैकान्तिकता स्वीकुरुते ॥ ५६ ॥ ३ सन्दिग्धविपक्षवृत्तिको यथा विवादपदापन्नः पुमान् सर्वज्ञो न
भवति वक्तृत्वात् ॥ ५७ ॥ - वक्तृत्वादिति । वक्तृत्वं हि विपक्षे सर्वज्ञसन्दिग्धवृत्तिकमसर्वज्ञः किं वक्ता ६आहोस्विन्न वकेति सन्देहात् । ये तु पक्षसपक्षविपक्षव्यापकादयोऽनैकान्तिकमेदास्तेऽस्यैव प्रपञ्चभूताः ॥ ५ ॥
साधर्म्यण दृष्टान्ताभासो नवप्रकारः ॥ ५८ ॥ ९ साधयेणेति । दृष्टान्तः प्रारिद्वधा प्रोक्तः साधम्र्येण वैधर्येण च । ततस्तदा__ भासोऽपि तथैव वाच्यः ॥ ५४॥ .
साध्यधर्मविकलः साधनधर्मविकलः उभयधर्मविकलः, सन्दि१२ ग्धसाध्यधर्मा सन्दिग्धसाधनधर्मा सन्दिग्धोभयधर्मा, अनन्वयोऽप्रदार्शतान्वयो विपरीतान्वयश्च ॥ ५९॥
तत्रापौरुषेयः शब्दो मूर्तत्वाहुःखवदिति साध्यधर्मविकलः ६० १५ दुःखवदिति । पुरुषव्यापाराभावे दुःखानुत्पादेन दुःखस्य पौरुषेयत्वात्, __ तत्रापौरुषेयत्वसाध्यस्यावृत्तेरयं साध्वधर्सविकलः ॥ ६० ॥ ____ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्म१८ विकलः ॥ ६१॥
परमाणौ हि साध्यधर्मोऽपौरुषेयत्वमस्ति । साधनधर्मस्त्वमूर्तत्वं नास्ति । मूर्तत्वात्परमाणोः ॥ ६॥ २१ कलशवदित्युभयधर्मविकलः ॥ ६२॥
रागादिमानयं वकृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ६३
सन्दिग्धसाव्यधर्मेति । देवदत्ते हि रागादयः सदसत्वाम्यां सन्दिग्धाः २४ परचेतोविकाराणां परोक्षवादागाचव्यभिचारिलिशादर्शनाच ॥ १३ ॥
मरणधर्मायंरागादिमत्त्वात् मैत्रवदिति सन्दिग्धसाधनधर्मा ६४
नायं सर्वदर्शी रागादिमत्त्वान्मुनि विशेषवदिति सन्दिग्धोमय२.धर्मा ॥६५॥
Page #48
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः। ४३ रागादिमान्विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः
अनन्वय इति । यद्यपीष्टपुरुषे रागादिमत्वं वक्तत्वं च साध्यसाधनधौं दृष्टौ। तथापि यो यो वका स स रागादिमानिति व्यास्यसिद्धरनन्वयत्वम् ॥ ६६ ॥
अनित्यः शब्दः कृतकत्वाद्धटवदिति अप्रदर्शितान्वयः॥ ६७ ॥ अप्रदर्शितान्वय इत्यत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथापि वादिना वचनेन ६ न प्रकाशित इति परार्थानुमानस्य वाचनिकं दुष्टत्वम् । एवं विपरीतव्यतिरेकेध्वपि द्रष्टव्यम् ॥ ६ ॥
अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत्कृतकं घटवदिति ९ विपरीतान्वयः॥ ६८॥
विपरीतान्वय इति । प्रसिद्धानुवादेन झप्रसिद्धं विधेयम्, प्रसिद्धं चात्र कृतकत्वम् हेतुस्वेनोपादानात् । अप्रसिद्धं त्वनित्यत्वं साध्यत्वेन निर्देशात् । १२ प्रसिद्धस्य कृतकत्वस्यैवानुवादे सर्वनाम्ना यच्छब्देन निर्देशो युक्तो न पुनरप्रसिद्धस्यानित्यत्वस्य । अनित्यत्वस्यैव विधिसर्वनाम्ना तच्छब्देन परामर्श उपपनो नतु कृतकस्य ॥ ६॥
वैधय॒णापि दृष्टान्ताभासो नवधा ॥ ६९॥ __ असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्य-१८ तिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकः, अव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥ ७०॥
तेषु भ्रान्तमनुमानं प्रमाणत्वात् यत्पुनन्तं न भवति न तत्प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्नशानाद्वान्तत्वस्यानिवृत्तेः ॥ ७१॥
निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात् यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः ॥ ७२॥
Page #49
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः ।
नित्यानित्यः शब्दः सत्त्वात्, यस्तु न नित्यानित्यः स न सँस्तद्यथा स्तंभ इति असिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य ३ सत्त्वस्य चाव्यावृत्तेः ॥ ७३ ॥
४४
असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वात् यः सर्वश आप्तो वा सक्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्य६ व्यतिरेकः सुगतेऽसर्वशताऽनाप्तत्वयोः साध्यधर्म योर्व्यावृत्तेः सन्देहात् ॥ ७४ ॥
सुगते सर्वज्ञतानाप्तत्वयोः साध्यधर्मयो०र्व्यावृत्तेः सन्देहादिति अयं च परमा९ र्थतोऽसिद्धसाध्यव्यतिरेक एव क्षणिकैकान्तस्य प्रमाणबाधितत्वेन तदभिधातुरसर्वज्ञताऽनासत्व प्राप्तेः केवलं तत्प्रतिक्षेपकप्रमाणपरामर्शेन शून्यानां प्रमातॄणां सन्दिग्धसाध्यव्यतिरिक्तत्वेनाभासता इति तथैवोक्तः ॥ ७४ ॥
१२ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वात् यः पुनरनादेयवचनः स वीतरागस्तद्यथाशौ द्धोद निरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्वस्य निवृत्तेः संशयात् ॥ ७५ ॥
१५
यद्यपि तद्दर्शनरागिणां शौद्धोदनेरादेयवचनत्वं प्रसिद्धं तथापि रागादिमस्वाभावस्तन्निश्चायकप्रमाणवैकल्यतः सन्दिग्ध एव ॥ ७५ ॥
न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽनर्पित१८ निजपिशितशकलत्वात् । यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितश कलस्तद्यथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः तपनबन्धौ वीतरागत्वाभावस्य करुणास्पदेष्वपि २१ परमकृपयानर्पित निजशकलवत्त्वस्य च व्यावृत्तेः सन्देहात् ॥ ७६ ॥
तपनबन्धुर्बुद्धो न ज्ञायते किं रागादिमानुत वीतरागस्तथा करुणास्पदेषु परमकृपया निजपिशितशकलानि समर्पितवान्नवा तन्निश्चायकप्रमाणापरि२४ स्फुरणात् ॥ ७६ ॥
न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वाद्यः पुनर्वीतरागो २६ न स वक्ता यथोपलखण्ड इत्यव्यतिरेकः ॥ ७७ ॥
Page #50
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे षष्ठः परिच्छेदः। ४५ भव्यतिरेक इति । यद्यप्युपलखण्डादुभयं ज्यावृत्तं तथापि व्याल्या व्यतिरेकासिद्धेरव्यतिरेकत्वम् ॥ ७ ॥
अनित्यः शब्दः कृतकत्वात् आकाशवदित्यप्रदर्शितव्यतिरेका ॥७८॥
अप्रदर्शित इत्यत्र यदनित्यं स्यात्तस्कृतकमपि न स्यादिति विद्यमानोऽपि स्वतिरेको वादिना वचसा नोक्तः ॥ ७० ॥
अनित्यः शब्दः कृतकत्वात् यदकृतकं तन्नित्यं यथाकाशमिति विपरीतव्यतिरेकः॥ ७९ ॥
वैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयो नचैवमत्रेति ९ विपरीतव्यतिरेकत्वम् ॥ ७९ ॥ उकलक्षणोल्लचनेनोपनयनिगमनयोर्वचने तदाभासौ ॥ ८॥
यथा परिणामी शब्दः कृतकत्वात् । यः कृतकः स परिणामी १२ यथा कुम्भः इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च॥ ८१॥
कृतकश्च कुम्भ इति च इह साध्यधर्म साध्यधर्मिणि साधनधर्म वा दृष्टान्त-१५ धर्मिणि उपसंहरतः उपनयाभासः ॥ ८ ॥
तस्मिन्नेव प्रयोगे तस्मात्कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति च ॥ ८२॥
१८ परिणामी कुम्भ इति चात्रापि साधनधर्म साध्यधर्मिणि साध्यधर्म वा यन्तधर्मिणि उपसंहरतो निगमनाभासः, एवं पक्षशुद्धयाद्यवयवपञ्चकप्रान्त्या वैपरीत्यप्रयोगे तदाभासपञ्चकमिति ज्ञेयम् ॥ ८२ ॥ इत्थमनुसानाभासमुक्त्वाऽऽगमाभासमाहुःअनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥ ८३॥ यथा मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः २४ पिण्डखजूराः सन्ति त्वरितं गच्छत २ शावकाः ॥ ८४ ॥
एवमुक्तः प्रमाणस्य स्वरूपाभासः, सङ्ख्याभासं समाख्यान्तिप्रत्यक्षमेवैकं प्रमाणमित्यादिसङ्ख्यानं तस्य सङ्ख्याभासम् ॥८५॥२७
Page #51
--------------------------------------------------------------------------
________________
४६ सावचूरिके प्रमाणनयतस्वालोकालकारे षष्ठसप्तमौ परिच्छेदौ ।
प्रत्यक्षेति । प्रमाणसङ्ख्या परेषामितो ज्ञेया । "चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दम् । तद् द्वैतं पारमर्षः सहितमुपमया वयं ३ चाक्षपादः । भांपत्या प्रभाकृद्वदति च निखिलं मन्यते भट्ट एतत् साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च" ॥ १ ॥ ४५ ॥ ..
सामान्यमेव विशेष एव तद्वयं वा स्वतन्त्रमित्यादिस्तस्य विष६ याभासः॥ ८६ ॥
सामान्येति । सामान्यमानं सत्त्वाद्वैतवादिनः, विशेषमानं सौगतस्य, तदुभर च स्वतनं नैयायिकादेरित्यादिरेकान्तस्तस्य प्रमाणस्य विषयामासः । आदि९शब्दानित्यमेवानित्यमेव तद्वयं वा परस्परनिरपेक्षमित्यायेकान्तपरिग्रहः ॥८६॥
अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् ॥ ८७॥
इति फलप्रमाणवरूपाद्याभासनिर्णयो नाम षष्ठः परिच्छेदः ॥६॥ १२ अभिनेति । अभिन्नमेव प्रमाणात्फलं बौद्धानाम् , भिन्नमेव नैयायिकानाम् । तस्य प्रमाणस्य, तदाभासं फलाभासमिति ॥ ८७ ॥
इति षष्ठः परिच्छेदः।
१५ प्रमाणतत्वं व्यवस्थाप्य नयतत्त्वं व्यवस्थापयन्ति
नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरां. शौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः॥१॥ १८ नीयत इति । अत्रैकवचनमतनं तेनांशावंशा वा येन परामर्शविशेषण
श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते तदितरांशौदासीन्यापेक्षया स नयः। तदितरांशप्रतिक्षेपे तु तदाभासता भणिष्यते । वस्त्वंशे प्रवर्तमानो नयः २१ स्वार्थैकदेशव्यवसायलक्षणो न प्रमाणं नापि मिथ्याज्ञानमिति ॥ १॥
नयसामान्यलक्षणमुक्त्वा नयाभासस्य तदाहुः
स्वाभिप्रेतादशादितगंशापलापी पुनर्नयाभासः॥२॥ २४ स्वाभियतेति । नयाभासो दुर्नय इत्यर्थः, यथा तीथिकानां नित्यायेकान्त
प्रदर्शकं सकलं वाक्यम् ॥२॥ २६ स व्याससमासाभ्यां द्विप्रकारः॥३॥
Page #52
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे सप्तमः परिच्छेदः । ४७
स प्रकृतोनयः, प्यासो विस्तरः, समासः सङ्क्षेपः । ताभ्यां द्विप्रकारो ब्यासनयः समासनयश्चेति ॥ ३ ॥
व्यासतोऽनेकविकल्पः ॥ ४ ॥
एकांशगोचरस्य हि प्रतिपञ्चभिप्रायविशेषस्य नयस्वरूपत्वमुक्तम् । ततश्चानंतांशात्मके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तॄणामभिप्रायाः तावन्तो नया इति व्यासतो नयस्यानेकप्रकारत्वमुक्तम् ॥ ४ ॥
समासतस्तु द्विमेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ५ ॥
द्रव्यमेवार्थो यस्य विषयत्वेन स द्रव्यार्थिकः, एवं पर्यायार्थिकश्च । एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति द्रव्यस्थितपर्यायस्थिताविति द्रव्यार्थ पर्या- ९ मार्थाविति च प्रोच्येते । गुणस्य पर्याय एवान्तर्भूतत्वेन पर्यायार्थिकेनैव तत्सङ्ग्रहात् (गुणार्थिकस्य पृथग्नोक्तिः ) ॥ ५ ॥
आद्यो नैगम संग्रहव्यवहारभेदात्रेधा ॥ ६ ॥
धर्मयोधर्मिणो धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं नैकगमो नैगमः ॥ ७ ॥
१२
धर्मेति । पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्याऽमुख्यरूपतया यद्विवक्षणं १५ स एवंरूपोऽनैके गमा बोधमार्ग यस्यासौ नैगमः ॥ ७ ॥
अस्योदाहरणाय सूत्रत्रयीमाहुः -
सच्चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥
सेति । धर्मयोरिति प्रधानोपसर्जन भावेनेति सम्बन्धनीयम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम् विशेष्यत्वात् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन, तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो २१ नैगमस्याद्यो भेदः ॥ ८ ॥
१८
वस्तु पर्यावद्द्रव्यं इति धर्मिणोः ॥ ९ ॥
पर्यायवद् द्रव्यं वस्तु वर्तते इति विवक्षायां पर्यायवद्द्रव्याख्यस्य धर्मिणो २४ विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा किं वस्तुपर्यायवद्द्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात्प्राधान्यम् पर्यायवद्रव्यस्य तु विशेषणत्वाद् गौणत्वमिति धर्मिद्वयगोचरोऽयं द्वितीयः ॥ ९ ॥
२७
Page #53
--------------------------------------------------------------------------
________________
४८ सावचूरिके प्रमाणनयतत्वालोकालकारे सप्तमः परिच्छेदः ।
क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ॥१०॥
विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता (विशेष्यत्वात्) सुखलक्षणस्य तु ३धर्मस्थाप्रधानता (विशेषणस्वात्) इति धर्मधालम्बनोऽयं तृतीयः । न
चैवमस्य प्रमाणात्मकरवानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञतेरसम्भवात्तयोरन्यतर एव हि नैगमेन प्रधानतयाऽनुभूयते । प्राधान्येन द्रव्यपर्यायद्वया६त्मकं चार्थमनुभवद्विज्ञानं प्रमाणं ज्ञेयं नान्यत् ॥ १० ॥
धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धिर्भेगमाभासः ॥११॥
धर्मेति । धर्मद्वयादीनामादिशब्दार्मिद्वयधर्मिधर्मद्वययोः परिग्रहः ॥१॥ ९ यथात्मनि सत्वचैतन्ये परस्परमत्यन्तपृथग्भूते इत्यादि ॥ १२॥
इत्यादिरिति आदिना वस्त्वाख्यपर्यायवद्रव्याख्ययोधर्मिणोः सुखजीवलक्षणयोः धर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन ज्ञेयम् । नैया१२ यिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयम् ॥ १२ ॥
सामान्यमात्रग्राही परामर्शः सङ्ग्रहः ॥ १३ ॥
सामान्येति । सामान्यमानं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः सङ्ग्रहः । १५अयमर्थः स्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद्रहणं स सङ्ग्रहः ॥ १३॥
अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ १८ अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सङ्ग्रहः॥ १५॥
विश्वमेकं सदविशेषादिति यथा ॥ १६॥ २१ विश्वमेकं सदविशेषादिति । यथेति । अस्मिनुक्ते हि सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां सङ्गृह्यते ॥ १६ ॥
सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः १७ २४ सत्ताद्वैतेति । अद्वैतवादिदर्शनान्यखिलानि साङ्ख्यदर्शनं चैतदाभासत्वेन
प्रत्येयम् ॥ १७ ॥ २६ यथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥१८॥
Page #54
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे सप्तमः परिच्छेदः। ४९ द्रव्यत्वादीनि अवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसग्रहः ॥ १९॥
द्रव्येति । द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामा-३ न्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्टानि । तद्भेदेषु द्रव्यत्वाश्रयभूतविशेषेषु द्रव्यपर्यायादिषु गजनिमीलिकामुपेक्षाम् ॥ १९ ॥
धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वामेदादित्या-६ दिर्यथा ॥ २०॥
अन्न द्रव्यं द्रव्यं इत्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकस्वेनैक्यं षण्णामपि धर्मादिद्व्याणां सङ्गृह्यते । आदितश्चेतनाचेतनपर्यायाणां ९ सर्वेषामेकत्वं पर्यायत्वाविशेषादित्यादि दृश्यम् ॥ २० ॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिढुवानस्तदाभासः॥२१॥ यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुप- १२ लब्धेरित्यादि ॥ २२ ॥
सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसधिना क्रियते स व्यवहारः॥२३॥
१५ सङ्ग्रहेणेति । सङ्ग्रहगृहीतान्सत्त्वाद्यर्थाविधाय नतु निषिध्य यः परामर्शविशेषस्तानेव विभजते स व्यवहारः ॥ २३ ॥
यथा यत्सत्तद्रव्यं पर्यायो वेत्यादि ॥ २४॥
यत्सत्तव्यं पर्यायो वेत्यादि । आदिशब्दादपरसङ्ग्रहसङ्ग्रहीतार्थगोचरव्यवहारोदाहरणम् , यद् द्रव्यं तज्जीवादि षड्विधम् । यः पर्यायः स द्विविधः क्रमभावी सहभावी चेति । एवं यो जीवः स मुक्तः संसारी च । यः क्रमभावी २१ पर्यायः स क्रियारूपोऽक्रियारूपश्चेति ॥ २४ ॥
यः पुनरपारमार्थिक द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः ॥२५॥ यथा चार्वाकदर्शनम् ॥ २६॥
___ १८ .
२५
Page #55
--------------------------------------------------------------------------
________________
५० सावचूरिके प्रमाणनयतत्वालोकालङ्कारे सप्तमः परिच्छेदः ।
चार्वाको हि प्रमाणप्रतिपनं जीवद्रव्यं पर्यायादिप्रविभागं कल्पनारोपितत्वेनापते भूतचतुष्टयप्रविभागमानं तु स्थूललोकव्यवहारानुयायितया ३ समर्थयते इत्यस्य दर्शनं व्यवहाराभासतयोपदर्शितम् ॥ २६ ॥
द्रव्यार्थिक विधोक्त्वा पर्यायार्थिकमाहुः
पर्यायार्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च २७ ६ ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः ॥ २८॥
ऋजु अतीतानागतकाललक्षणकौटिल्यवैकल्यात् प्राञ्जलम् । अयं हि द्रव्यं ९ सदपि गुणीभावान्नापयति। पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयति ॥२८॥
यथा सुखविवर्तः सम्प्रत्यस्तीत्यादि ॥ २९ ॥
सुखविवर्तः सम्प्रत्यस्तीत्यादिः । अनेन हि वाक्येन क्षणस्थायि सुखाख्यं पर्या१२ यमानं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं त्वात्मद्रव्यं गौणतया नाय॑ते । आदितो दुःखपर्यायोऽस्तीत्यादि ॥ २९ ॥
सर्वथा द्रव्यापलापी तदाभासः॥३०॥ १५ यथा तथागतमतम् ॥ ३१॥
तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते तदाधारभूतं तु द्रव्यं तिरस्कुरुते इत्येतन्मतं तदाभासतयोदाहृतम् ॥ ३१ ॥ १४ कालादिभेदेन ध्वनेरर्थमेदं प्रतिपद्यमानः शब्दः ॥ ३२॥
कालेति । कालादिभेदेन कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गभेदेन ॥ ३२ ॥
यथा बभूव भवति भविष्यति सुमेरुरित्यादि ॥ ३३॥ २१ सुमेरुरित्यादिः। अत्रातीतवर्तमानभविष्यत्कालत्रयभेदात् कनकाचलस्य भेदं
शब्दनयः प्रतिपद्यते, द्रव्यरूपतया पुनरभेदममुष्योपक्षते । एतच्च कालभेदे
उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, २४ दाराः कलत्रमित्यादि सङ्ख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि
यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते भवतिष्ठते इत्युपसर्गभेदे ॥ ३३ ॥ २६ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ३४॥
Page #56
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे सप्तमः परिच्छेदः। ५१ तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव शब्दाभासः ॥ ३४ ॥
यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृक्सिद्धान्य-३ शब्दवदित्यादि ॥ ३५॥
तादृक्सिद्धान्यशब्दवदित्यादिरिति । अनेन हि वचनेन कालादिभेदाद्भिनस्यैवार्थस्याभिधायकत्वं शब्दानां व्यञ्जितम् , एतच्च प्रमाणविरुद्धम् । आदिशब्दात् ६ करोति क्रियते कट इत्यादि शब्दनयाभासोदाहरणं सूचितम् ॥ ३५ ॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थमभिरोहन् समभिरूढः३६ पर्यायेति । शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रेति समभिरूढस्तु पर्या-९ यभेदे भिन्नानानभिमन्यते । अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते ॥३६॥ इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात्पुरन्दर इत्यादिषु यथा३७
इत्यादिषु यथेति पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थ समभिरोह- १२ अभिप्रायविशेषः समभिरूढस्तथान्येष्तपि घटकुटकुम्भादिषु द्रष्टव्यः ॥ ३७॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ३८
यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव १५ भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादि ॥ ३९ ॥
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियादिविशिष्टमर्थ वाच्यत्वेना. भ्युपगच्छन्नेवम्भूतः ॥ ४०॥
शब्देति । समभिरूढो हि इन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थखेन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोशब्दव्यपदेशवत्। तथारूढः सद्भावात् । एवम्भूतस्त्विन्दनादिक्रियापरिण-२१ तमर्थ तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । नहि कश्चिदक्रियाशब्दोऽस्यास्ति। गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात् । गच्छतीति गौः, आशुगामित्वादश्व इति, शुक्लो नील इति गुणशब्दाभिमता अपि २४ क्रियाशब्दा एव शुचिभवनाच्छुल्लो नीलनान्नील इति, देवदत्तो यज्ञदत्त इति यदृच्छाभिमता अणि कियाशब्दा एव देव एनं देयात् यज्ञ एनं देयादिति । २६
Page #57
--------------------------------------------------------------------------
________________
सावचूरि के प्रमाणनयतत्वालोकालङ्कारे सप्तमः परिच्छेदः ।
संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव दण्डोस्यास्तीति दण्डी विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् ॥ ४० ॥ ३ यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥
क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षपँस्तु तदाभासः ४२ क्रियाविष्टं वस्तु ध्वनिनाभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तत्तेषां तथा क्षिपति न तूपेक्षते स एवम्भूताभासः ॥ ४२ ॥
यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घट ९ शब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादि ॥ ४३ ॥
पटवदित्यादिरिति । अनेन हि वचसा क्रियानाविष्टस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च प्रमाणबाधित इत्येवम्भूताभासता ॥ ४३ ॥ १२ कः पुनरत्र बहुविषयः को वाल्पविषयो नय इति विवेचयन्तिएतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्शनयाः ॥ ४४ ॥ शेषास्त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥ ४५ ॥ १५ पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ॥४६॥ पूर्वेति । नैगमसङ्ग्रहयोस्तावन्न सङ्ग्रहो बहुविषयो नैगमात्परः किं तहिं नैगम एव सङ्ग्रहात्पूर्व इत्याहु:
२१
५२
१८ सन्मात्रागोचरसङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद्भूमविषयः ४७ सन्मात्रेति । भावाभावभूमिकत्वात् भावाभावविषयत्वात् । भूमविषयो बहुविषयः ॥ ४७ ॥
सद्विशेषप्रकाशकाद्व्यवहारतः सङ्ग्रहः समस्तसमूहोपदर्शकत्वाहुविषयः ॥ ४८ ॥
सदिति । व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः ४८ वर्त्तमानविषयादृजुसूत्राद्व्यवहारस्त्रिकालविषयावलम्बित्वादन
२४
-
ल्पार्थः ॥ ४९ ॥
कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसृत्र स्तद्विपरीतवेद २७ कत्वान्महार्थः ॥ ५० ॥
.
Page #58
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालकारे सप्तमः परिच्छेदः। ५३ तद्विपरीतावेदकत्वान्महार्थ इति । शब्दो हि कालादिभेदाद्भिश्चमर्थमुपदर्शयतीति स्तोकविषयः । ऋजुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थ सूचयतीति बहुविषयः॥ ५० ॥
प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात्प्रभूतविषयः॥५१॥
प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात् समभिरूढस्तद-६ न्यथार्थस्थापकत्वान्महागोचरः॥५२॥
एवम्भूतो हि क्रियाभेदेन भिन्नमर्थ प्रतिजानीते इति तुच्छविषयोऽसौ समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रेतीति प्रभूतविषयः ॥ ५२॥ ९
नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३॥
नयेति । नयसप्तभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्यैवकारस्य च प्रयोगसद्भा. १२ वात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात् , सकला. देशस्वभावा तु प्रमाणसप्तभङ्गी सम्पूर्णवस्तुस्वरूपप्रकाशकत्वात् ॥ ५३ ॥
एवं नयस्य लक्षणसङ्ख्या विषयान् व्यवस्थाप्य फलमाहुः- १५
प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ ५४॥ . प्रमाणवदिति । अस्येति नयस्य । यथानन्तर्येण प्रमाणस्य सम्पूर्णवस्त्वज्ञाननिवृत्तिः फलमुक्तम् । तथा नयस्यापि वस्त्वेकदेशाज्ञाननिवृत्तिः फलमा- १८ नन्तर्येणावधार्यम् । यथा च पारम्पर्येण प्रमाणस्योपादानहानोपेक्षाबुद्धयः सम्पूर्णवस्तुविषयाः फलत्वेनोक्तास्तथा नयस्यापि वस्वंशविषयसत्परम्परा. फलत्वेन ज्ञेयाः, तदेतद् द्विप्रकारमपि नयस्य फलं ततः कथञ्चिद्भिन्नमभिन्नं २१ वावगन्तव्यम् ॥ ५४॥
तदित्थं प्रमाणनयतत्त्वं व्यवस्थाप्याखिलप्रमाणनयानां व्यापकं प्रमातार• माहुः
. २४ प्रमाता प्रत्यक्षादिसिद्ध आत्मा ॥ ५५॥
प्रमातेति । प्रत्यक्षादिप्रतीतः प्रत्यक्षपरोक्षप्रमाणप्रतीतः । तथाहि सुखी दुःखी चाहमित्याद्यहंप्रत्ययश्चेतनातत्वमात्माख्यमर्पयत्येवेति प्रत्यक्षासिद्धः । २७
Page #59
--------------------------------------------------------------------------
________________
५४ सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे सप्तमाष्टमी परिच्छेदौ ।
अनुमानतोप्यात्मा सिद्ध्यत्येव, तथाहि चैतन्यं तत्त्वादिविलक्षणाश्रयाश्रितम्, तत्र बाधकोपपत्तौ सत्यां कार्यत्वान्यथानुपपत्तेः । नायं हेतुर्विशेष्यासिद्धः ३ कटकुटज्ञानादिविचित्र परिणामपरम्परायाः कादाचित्कत्वेन पटादिवत्तत्रकार्य - स्वप्रसिद्धेः । नापि विशेषणासिद्धः । न शरीरेन्द्रियविषयाश्चैतन्यधर्माणो रूपादिमाौतिकवाद्वा घटवदित्यनेन तत्र तस्य बाधनात् । नाप्ययं व्यभिचारी ६ विरुद्धो वा तन्वादिलक्षणाश्रयाश्रिताद्विपक्षात्तन्वादिवर्तिनो रूपादेः शरीरत्वसामान्याद्वा सविशेषणकार्यत्वहेतोरत्यन्तं व्यावृत्तत्वात् । उपयोगलक्षणो जीव इत्यागमोप्यात्मानमुद्द्योतयति ॥ ५५ ॥
आत्मनः स्वाभिमतधर्मान् वर्णयन्ति
चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौनलिकादृष्टवांश्चायम् ॥ ५६ ॥
१२
चैतन्येति । चैतन्यं साकारनिराकारोपयोगाख्यं स्वरूपं यस्यासौ चैतन्यस्वरूपः । परिणमनं प्रतिसमयमपरापरपर्यायेषु गमनं परिणामः स नित्यमस्यास्तीति परिणामी । करोत्यदृष्टादिकमिति कर्ता । साक्षाद्भुङ्क्ते सुखादिकमिति १५ साक्षाद्भोक्ता । स्वदेहपरिमाणः स्वोपात्तवपुर्व्यापकः । प्रतिक्षेत्रं प्रतिशरीरं भिन्नः पृथक् । पौद्गलिकादृष्टवान् पुद्गलघटितकर्मपरतन्त्रः । अयमात्मा ॥ ५६ ॥ आत्मन एव विशेषान्तरमाहुः
१८ तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः ॥ ५७ ॥
२१
इति नयात्मस्वरूप निर्णयो नाम सप्तमः परिच्छेदः ।
तस्येति । तस्यात्मन उपात्तपुंस्त्रीशरीरस्य । एतेन स्त्रीनिर्वाणदूषिणः काष्टाम्बरान् शिक्षयन्ति ।
इति सप्तमः परिच्छेदः ॥
२४
प्रमाणनयतत्त्वं व्यवस्थाप्य तत्प्रयोगभूमिभूतं वस्तुनिर्णयाभिप्रायोपक्रमं वादं वदन्ति ।
विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्था२७ पनार्थ साधनदूषणवचनं वादः ॥ १ ॥
Page #60
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्त्वालोकालकारे अष्टमः परिच्छेदः। ५५ विरुद्धेति । विरुद्धयोरेकत्र प्रमाणेनानुपधमानोपलम्भयोधर्मयोर्मध्यात् । विरुद्धावेव हि धर्मावेकान्तनित्यत्वादी वादं प्रयोजयतः। न पुनरितरौ । तद्यथा-पर्यायवद्रव्यं गुणवञ्च, विरोधश्चकाधिकरणत्वैककालत्वयोरेव सतोः३ सम्भवति । अनित्या बुद्धिनित्य आत्मेति भिन्चाधिकरणयोः पूर्व निःक्रियमिदानी क्रियावद्व्यमिति भिन्नकालयोश्च तयोः प्रमाणेन प्रतीतौ विरोधासम्भवात् । ततो यावेकाधिकरणावेककालौ च धर्मो विरुद्ध्येते। तयोर्म-६ ध्यादेकस्य सर्वथा नित्यत्वस्य कथञ्चिन्नित्यत्वस्य वा व्यवच्छेदेन निरासेन स्वीकृततदन्यधर्मस्य कथञ्चिनित्यत्वस्य सर्वथानित्यत्वस्य वा व्यवस्थापनार्थ वादिनः प्रतिवादिनश्च साधनदूषणवचनं वाद इत्यभिधीयते । सामर्थ्याच्च ९ स्वपक्षविषयं साधनं परपक्षविषयं तु दूषणम् । साधनदूषणवचने च प्रमाणरूपे एव भवतः । पूर्व हि वादी स्वाभिप्रायेण साधनमभिधत्ते । पश्चात्प्रतिवाद्यपि स्वाभिप्रायेण दूषणमुद्भावयति ॥ १ ॥
अङ्गनियमभेदप्रदर्शनार्थ वादे प्रारम्भकभेदौ वदन्तिप्रारम्भकश्चात्र जिगीषुस्तत्त्वनिर्णिनीषुश्च ॥२॥ प्रारम्भक इति । तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते प्रथममेव च १५ तत्त्वनिर्णिनीषुरिति द्वावप्येतो प्रारम्भको भवतः । तत्र जिगीषोः "सारङ्गमातङ्गतुरङ्गपूगाः पलाय्यतामाशु वनादमुष्मात् । साटोपकोपस्फुटकेसरश्रीमुंगाधिराजोयमुपेयिवान् यत् ॥ १॥” इत्यादि विचित्रोत्तम्भनम् ®®®१८ इत्यादिर्वादारम्भः । तत्त्वनिर्णिनीषोस्तु सब्रह्मचारिन् ! शब्दः किं कथंचिमित्या स्थान्नित्य एव वेति संशयोपक्रमो वा, कथञ्चिन्नित्य एव शब्द इति निर्णयोपक्रमो वेत्यादिरूपः ॥२॥ जिगीषोः स्वरूपमाहुः
स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छुर्जिगीषुः ॥३॥
२४ स्वीकृतो धर्मः शब्दादेः कथञ्चिन्नित्यत्वादिर्यस्तस्य व्यवस्थापनार्थ यत्सामर्थ्यात्तस्यैव साधनं परपक्षस्य च दूषणं ताभ्यां कृत्वा परं पराजेतुमिच्छुविजिगीषुः ॥ ३॥ तथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः॥४॥ २८
Page #61
--------------------------------------------------------------------------
________________
५६ सावचूरिके प्रमाणनयतत्त्वालोकालकारे अष्टमः परिच्छेदः ।
तथेति । तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दादेः कथञ्चिनित्यत्वादिरूपं तत्त्वं प्रतिष्ठापयितुमिच्छुस्तत्वविनिर्णिनीषुः ॥ ४ ॥ ३ अस्यैव भेदावाहुः
अयं च द्वेधा स्वात्मनि परत्र च ॥ ५ ॥
अयमिति । तत्वनिर्णिनीषुः कश्चित्सन्देहाधुपहतचेतोवृत्तिः स्वात्मनि तत्वं ६ निर्णेतुमिच्छति, अपरस्तु परानुग्रहरसिकतया परत्र तथेति द्वेधाऽसौ ॥५॥
स्वात्मनि तत्त्वनिर्णिनीषुमुदाहरन्तिआद्यः शिष्यादिः॥६॥ द्वितीयो गुर्वादिः ॥ ७ ॥ द्वितीयः परत्र तत्त्वनिर्णिनीपुः ॥ ७ ॥
तस्य भेदावाहुः१२ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥ ८॥
अयमिति । अयमिति परत्र तत्त्वनिर्णिनीपुर्णर्वादिस्तदेवं चत्वारः प्रारम्भकाः जिगीषुः (१) स्वात्मनि तत्त्वनिर्णिनीपुपरत्रतत्त्वनिर्णिनीषू च (२) क्षायोप१५शमिकज्ञानशालि (३) केवलिना(४)विति । तत्त्वनिर्णिनीषोर्येभेदप्रभेदा
उक्ता न ते जिगीपोः सर्वेऽपि सम्भवन्ति । तथाहि न कश्चिदात्मानं जेतुमिच्छति । नच केवली परं पराजेतुमिच्छति । इति क्षायोपशमिकज्ञानशाली १८ परत्र जिगीषुः स्यादित्येकरूप एवासौ । तथा निर्णीतसमस्ततत्त्वज्ञानशालिनः
केवलिनः स्वात्मनि तत्त्वनिर्णयेच्छानुपपत्तेः क्षायोपशमिकज्ञानवानेव स्वात्मनि निर्णिनीपुः स्यादित्यसावप्येकरूप एव ॥ ८ ॥ २१ एतेन प्रत्यारम्भकोऽपि व्याख्यातः॥९॥
एतेनेति । आरम्भकं प्रति प्रतीपं चारभमाणः प्रत्यारम्भकः । सोऽयमेतेन प्रारम्भकभेदप्ररूपणेन व्याख्यातः स्वयमवगन्तव्यः । एवञ्च प्रत्यारम्भकस्यापि २४ जिगीपुप्रभृतयश्चत्वारः प्रकाराः स्युस्तत्र यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भ.
केण साधं वादे पोडशभेदाः प्रादुर्भवन्ति तथापि जिगीपोः स्वात्मनि तत्त्वनि२६ णिनीपुणा (6) स्वात्मनि तत्त्वनिर्णिनीपोर्जिगीपु...) स्वात्मनि तत्त्वनिर्णि
Page #62
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे अष्टमः परिच्छेदः ।
नीषोः स्वात्मनि तत्त्वनिर्णिनीषुणा च केवलिनश्च केवलिना सह (४) वादो न सम्भवत्येवेति चतुरो भेदान् पातयित्वा द्वादशैव तेऽत्र गण्यन्ते ॥ ९ ॥ अङ्गनियममेवाहुः
५७
तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याव्यङ्गस्यास्यापाये जयपराजयव्यवस्थादिदौः स्थ्यापत्तेः ॥ १० ॥
तत्रेति । उक्तेभ्यश्चतुर्भ्यः प्रारम्भकेभ्यः प्रथमे जिगीषौ प्रारम्भके सति प्रथ- ६ मस्य जिगीषेोरेव, तृतीयस्य परत्र तत्त्वनिर्णिनीषोः क्षायोपशमिकज्ञानशालिनस्तुरीयस्य केवलिनश्च प्रत्यारम्भकस्य चतुरङ्ग एव प्रकारणाद्वादः स्यात्तत्र वादिप्रतिवादिनोरभावे वाद एव न स्यादिति स्वतः सिद्धावेव तौ । तत्र वादिवत्प्रतिवा - ९ द्यपि चेत् जिगीषुस्तदानीमुभाभ्यामपि परस्परस्य शाख्यकलहादेर्जयपराजयव्यवस्थाविलोपकारिणो निवारणार्थं लाभाद्यर्थं वाऽपराङ्गद्वयमवश्यमपेक्षणीयम् । अथ तृतीयस्तुरीयो वासौ स्यात्तथाप्यनेन जिगीषोर्वादिनः शाख्याद्यपोहाय जिगी - १२ पुणा च प्रारम्भकेण लाभपूजादिहेतवे तदपेक्ष्यत एवेति सिद्धैव चतुरङ्गता । स्वात्मनि तत्त्वनिर्णिनीषुर्जिगीपुं प्रति वादितां प्रतिवादितां च न प्रतिपद्यते स्वयं तत्त्वनिर्णयानभिमाने परावबोधार्थ प्रवृत्तेरभावात्तस्मात्तत्त्व निर्णय सम्भवाच्चेति १५ नायमिहोत्तरत्र च निर्दिश्यते ॥ १० ॥
अनयैव नीत्या जिगीषुमिव स्वात्मनि तत्व निर्णिनीषुमपि प्रत्यस्य वादिता प्रतिवादिता वा नेति तृतीयतुरीययोरेवास्मिन्वाद इति तृतीयस्याङ्ग- १८ नियममाहुः -
द्वितीये तृतीयस्य कदाचिद् व्यङ्गः कदाचित् व्यङ्गः ॥ ११ ॥
द्वितीय इति । स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि समुपस्थिते सति तृतीय- २१ प्रतिवादिनः कदाचिद् व्यङ्गो वादः । यदा जयादि निरपेक्षतयापेक्षितस्तत्त्वावarat वादिनि प्रतिवादिना कर्तुं पायेंत, तदेतरस्य सभ्य सभापतिरूपस्याङ्गद्वयस्यानुपयोगात् । यदा पुनरुत्ताम्यतापि श्रागमममिकता निना प्रतिवादिना २४ न कथञ्चित्तत्त्वनिर्णयः कर्तुं शक्यतनिधिसभाकापि सभ्यानामपेक्ष्यमाणत्वात् ॥ ११ ॥
द्वितीय एवं वादिनि चतुर्थीत्याङ्गः
२७
Page #63
--------------------------------------------------------------------------
________________
५८ सावचूरिके प्रमाणनयतत्त्वालोकालकारे अष्टमः परिच्छेदः ।
तत्रैव द्यगस्तुरीयस्य ॥ १२ ॥
तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३॥ ३ तृतीयेति। परत्र तत्त्वनिर्णिनीषौ क्षायोपशमिकज्ञानिनि वादिनि प्रथमादीनां प्रतिवादिनां मध्यादाद्यस्योक्तयुक्त्यैव चतुरङ्गः। द्वितीयतृतीययोः कदाचिद् ब्यङ्ग एव । कश्चिदात्मानं निर्णीततत्त्वमिव मन्यमानः केवलिन्यपि तन्निर्णयोपजन६ नार्थ प्रवर्तते इति न कदाचिदसंभावना, केवली तु तमप्यवबोधयति ॥१३॥
तुरीये प्रथमादीनामेवम् ॥ १४ ॥
तुरीय इति । परत्र तत्त्वनिर्णिनीषौ केवलिनि प्रथमद्वितीयतृतीयाणामेव ९पूर्ववदाद्यस्य चतुरङ्गाद् द्वितीयतृतीययोस्तु ब्यङ्ग एव ॥ १४ ॥
चत्वार्यङ्गान्याहुः
वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥ १५॥ १२ एषां लक्षणमाहुः
आरम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥१६॥ १५ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥१७॥
प्रमाणत इति । वादिना प्रतिवादिना च स्वपक्षस्थापनं परपक्षप्रतिक्षेपश्च द्वितयमपि कर्त्तव्यम् ॥ १७॥ २८ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणावाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः॥१८॥
वादीति । नदीष्णः कुशलः । एभिः षड्भिः गुणैरुभयोर्वादिप्रतिवादिनो२१ रभिप्रेताः सभ्याः स्युः ॥ १८ ॥
वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारेणाग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथा२४ वसरं तत्त्वप्रकाशनेन कथाविरमणम् यथासम्भवं सभायां कथाफलकथनं चैषां कर्माणि ॥ १९ ॥
वादीति । यत्र स्वयमस्वीकृतप्रतिनियतवादस्थानको वादिनौ समुपतिष्ठते । २७ तत्र सभ्यास्तौ प्रति नियतं वादस्थानकं सर्वानुवादेन दूष्यानुवादेन वा वर्ग•
Page #64
--------------------------------------------------------------------------
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे अष्टमः परिच्छेदः। ५९ परिहारेण वा वक्तव्यमित्यादियोऽसौ कथाविशेषस्त्रं चाङ्गीकारयन्ति । अस्याग्रवादोऽस्य चोत्तरवाद इति निर्दिशन्ति । वादिप्रतिवादिभ्यामुक्तयोः साधकबाधकयोर्गुणान् दोषांश्चावधारयन्ति । यदा द्वावपि तत्वपराङ्मुखमुदीरयन्तौ ३ न विरमतस्तदा तत्त्वप्रकाशनेन तौ विरमयन्ति । यथायोगं च कथायाः फलं जयादिकमुद्घोषयन्ति ॥ १९॥
प्रशाज्ञैश्वर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः ॥ २०॥ ६ वादिसभ्याभिहितावधारणकलहव्यपोहादिकं चास्य कर्म ॥२१॥ वादीति । वादिभ्यां सभ्यैश्चाभिहितस्वार्थस्थावधारणम् ॥ २१ ॥ जिगीषुवादे कियत्पक्षं वादिप्रतिवादिभ्यां वक्तव्यमित्याहुःसजिगीषुकेऽस्मिन्यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् ॥ २२ ॥ सजिगीषुक इति । सजिगीषुके वादिशक्रशक्तेश्च परीक्षणार्थ वा यावत्सभ्या आक्षिपन्ति तावस्कक्षाद्वयत्रयादि स्फूतौं सत्यां वादिप्रतिवादिभ्यां वक्त. १२ व्यम् ॥ २२॥
तत्वनिर्णिनीषुवादे कियस्कक्षं ताभ्यां वक्तव्यमित्याहुः । उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत्स्फूर्ति च १५ वाच्यम् ॥ २३॥ *इति (प्रमाणनय)तत्त्वालोकालङ्कारे वादिप्रतिवादिन्यायनिर्णयो
(नामा)ष्टमः परिच्छेदः ॥
* मूलगन्धस्य कर्तारः श्रीवादिदेवसूरयः स्याद्वादरत्नाकराधनेकग्रन्थप्रणेतारः । एषां जन्म गौर्जरीये मड्डाहतनगरेऽभूत् । पितरौ प्राग्वाटवंश्यो जिनदेवीवीरनागौ । जन्मसंवत् विक्रम ११४३, पूर्णचन्द्रेत्यभिधा । दीक्षा वि. सं. ११५२, रामचन्द्रेत्यभिधा । सुरिपदं वि. सं. ११७४ देवसूरिरित्यभिधा। वादीत्युपपदं चानेकवादेषु लब्धजयेः सार्थीकृतम्। वि. सं. १२२६ श्रावणवदिसप्तम्यां गुरौ स्वर्गारोहणम् । चतुर्दशशताब्दीयप्रतिवष्यवचूरिकृतो नामावनुपलब्धम् ।
Page #65
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं ___ अयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं
श्रीमहावीरस्वामिस्तोत्रम् । अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥१॥ ६ स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्चलः। इदं विनिश्चित्य तव स्तवं वदन्न बालिशोऽप्येष जनोऽपराध्यति २ क सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा । ९तथापि यूथाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुर्न शोच्यः॥३॥ जिनेन्द्र यानेव विवाधसे स्म दुरन्तदोषान् विविधैरुपायैः।
त एव चित्रं त्वदसूययेव कृताः कृतार्थाः परतीर्थनाथैः॥४॥ १२ यथास्थितं वस्तु दिशन्नधीश न तादृशं कौशलमाश्रितोऽसि ।
तुरङ्गशृङ्गाण्युपपादयद्भ्यो नमः परेभ्यो नवपण्डितेभ्यः ॥५॥ जगत्यनुध्यानबलेन शश्वत्कृतार्थयत्सु प्रसभं भवत्सु । १५ किमाश्रितोऽन्यैः शरणं त्वदन्यः स्वमांसदानेन वृथा कृपालुः॥६॥
खयं कुमार्ग लपतां नु नाम प्रलम्भमन्यानपि लम्भयन्ति ।
सुमार्गगं तद्विदमादिशन्तमसूययान्धा अवमन्वते च ॥ ७॥ १८प्रादेशिकेभ्यः परशासनेभ्यः पराजयो यत्तव शासनस्य ।
खद्योतपोतद्युतिडम्बरेभ्यो विडम्बनेयं हरिमण्डलस्य ॥ ८॥ शरण्य पुण्ये तव शासनेऽपि सन्देग्धि यो विप्रतिपद्यते वा। २१ स्वादौ स तथ्ये स्वहिते च पथ्ये सन्देग्धि वा विप्रतिपद्यते वा ॥९॥ हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः ।
नृशंसदुर्बुद्धिपरिग्रहाच्च ब्रूमस्त्वदन्यागममप्रमाणम् ॥ १०॥ २४ हितोपदेशात्सकलशक्लप्तेर्मुर्मुक्षुसत्साधुपरिग्रहाच्च ।
पूर्वापरार्थेऽभ्यविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम् ॥ ११ ॥ क्षिप्येत वान्यैः सदृशीक्रियेत वा तवाङ्गिपीठे लुठनं सुरेशितुः ।
इदं यथावस्थितवस्तुदेशनं परैः कथङ्कारमपाकरिष्यते ॥ १२॥ २८ तद्दुःखमाकालखलायितं वा पचेलिमं कर्म भवानुकूलम् ।
Page #66
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिताऽयोगव्यवच्छेदिका ६१ उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा ॥ १३॥ परःसहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा। तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम् १४३ अनाप्तजाड्यादिविनिर्मितित्वसम्भावनासम्भविविप्रलम्भाः। परोपदेशाः परमाप्तक्लुप्तपथोपदेशे किमु संरभन्ते ॥ १५॥ . यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः॥१६॥ देहाद्ययोगेन सदाशिवत्वं शरीरयोगादुपदेशकर्म । परस्परस्पर्धि कथं घटेत परोपक्लुप्तेष्वधिदैवतेषु ॥ १७॥ ९ प्रागेव देवान्तरसंश्रितानि रागादिरूपाण्यवमन्तराणि । न मोहजन्यां करुणामपीशसमाधिमास्थाय युगाश्रितोऽसि ॥१८॥ जगन्ति भिन्दन्तु सृजन्तु वा पुनर्यथा तथा वा पतयः प्रवादिनाम् । १२ त्वदेकनिष्ठे भगवन् ! भवक्षयक्षमोपदेशे तु परं तपस्विनः॥ १९ ॥ वपुश्च पर्यशयं श्लथं च दृशौ च नासानियते स्थिरे च। न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र मुद्रापि तवान्यदास्ताम् ॥ २० ॥ १५ यदीयसम्यक्त्वबलात्प्रतीमो भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥ २१ ॥ अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः।
१८ यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् ॥ २२ ॥ अनाद्यविद्योपनिषनिषण्णैर्विङ्खलैश्चापलमाचरद्भिः। अमूढलक्ष्योऽपि पराक्रिये यत्त्वत्किङ्करः किं करवाणि देव ! ॥२३॥२१ विमुक्तवैरव्यसनानुबन्धाः श्रयन्ति यां शाश्वतवैरिणोऽपि । परैरगम्यां दव योगिनाथ! तां देशनाभूमिमुपाश्रयेऽहम् ॥ २४॥ मदेन मानेन मनोभवेन क्रोधेन लोमेन च सम्मदेन । २४ पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ २५ ॥ खकण्ठपीठे कठिनं कुठारं परे किरन्तःप्रलपन्तु किश्चित् । मनीषिणां तु त्वयि वीतराग! न रागमात्रेण मनोऽनुरक्तम्॥२६॥२७ सुनिश्चितं मत्सरिणो जनस्य न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः २७२९
Page #67
--------------------------------------------------------------------------
________________
६२
इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ २८॥ ३ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः ॥ २९ ॥ तमः स्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः । ६ महेम चन्द्रांशुदृशावदातास्तास्तर्कपुण्या जगदीश वाचः ॥ ३० ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोष कलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ ३१ ॥ इदं श्रद्धामात्रं तदथ परनिन्दा मृदुधियो विगाहन्तां हन्त प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर ! परीक्षाक्षमधिया
मयं तत्त्वलोकस्स्तुतिमयमुपाधिं विधृतवान् ॥ ३२ ॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिविरचितमयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् |
९
१२
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यविरचिताऽयोगव्यवच्छेदिका
१५
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं
श्रीमहावीरस्वामिस्तोत्रम् |
१८ अनन्तविज्ञानमतीतदोषम बाध्यसिद्धान्तममर्त्यपूज्यम् । श्री वर्धमानं जिनमाप्तमुख्यं स्वयम्भुवं स्तोतुमहं यतिष्ये ॥ १ ॥ अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । २१ विगाहतां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥ २ ॥ गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि सम्मील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥३॥ २४ स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरने यरूपाः ।
परात्मतत्त्वातथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ॥ ५ ॥ २८ कर्तास्ति कश्चिजगतः स चैकः स सर्वगः स स्ववंशः स नित्यः ।
Page #68
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिताऽन्ययोगव्यवच्छेदिका ६३ इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम्॥६॥ न धर्मधर्मित्वमतीवमेदे वृत्यास्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ न गौणभावोऽपि च लोकबाधः ॥७॥३ सतामपि स्यात्क्वचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥ ८॥ यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । ६ तथापि देहाद्वहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥९॥ स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन्नहो विरक्तो मुनिरन्यदीयः॥१०॥ ९ न धर्महेहुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥ ११ ॥ स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथान्यथा तु । परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२॥ माया सती चेद्यतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः। मायैव चेदर्थसहा च तत् किं माता च वन्ध्या च भवत्परेषाम् १३ १५ अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्यक्लप्तावतावकानां प्रतिभाप्रमादः ॥१४॥ चिदर्थशून्या च जडा च बुद्धिः शब्दादि तन्मात्रजमम्बरादि। १८ न बन्धमोक्षौ पुरुषस्य चेति कियजडैन ग्रथितं विरोधि ॥ १५ ॥ न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविद्वैतपथेऽर्थसंविद्विलूनशीर्ण सुगतेन्द्रजालम् ॥ १६॥ २१ विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमश्रुवीत । कुप्येत् कृतान्तः स्पृशते प्रमाणमहो सुदृष्टं त्वदसूयिदृष्टम् ॥१७॥ कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो महासाहसिक. परस्ते॥१८॥ सा वासना सा क्षणसन्ततिश्च नाभेदभेदानुभयैर्घटेते। ततस्तटादर्शिशकुन्तपोतन्यायात्त्वदुक्तानि परे श्रयन्तु ॥ १९॥ २७ विनानुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क्व चेष्टा व दृष्टमात्रं च हहा प्रमादः ॥ २० ॥ २९
Page #69
--------------------------------------------------------------------------
________________
६४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिताऽन्ययोगव्यवच्छेदिका प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः । जिन त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा ॥२१॥ ३ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसन्त्रासनसिंहनादाः ॥ २२ ॥
अपर्ययं वस्तु समस्यमानमद्रव्यमेतञ्च विविच्यमानम् । ६आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं वुधरूपवेद्यम् ॥ २३ ॥
उपाधिमेदोपहितं विरुद्ध नार्थष्वसत्त्वं सद्वाच्यते च ।। इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ ९स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोगतोद्गारपरम्परेयम् ॥ २५ ॥
य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । १२ परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिन शासनं ते ॥२६॥
नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ ।
दुर्नीतिवादव्यसनासिनैव परैर्विलुप्तं जगदप्यशेषम् ॥ २७॥ १५सदेव सत्स्यात् सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्थः ॥२८॥
मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे। १८ षट्जीवकायं त्वमनन्तसङ्ख्यमाख्यस्तथा नाथ यथा न दोषः॥२९॥
अन्योन्यपक्षप्रतिपक्षभावाद्यथा परे मत्सरिणः प्रवादाः। नयानशेषानविशेषमिच्छन्न पक्षपाती समयस्तथा ते ॥ ३०॥ . २१वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीयमुख्य । लकेम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१ ॥
इदं तत्त्वातत्त्वव्यतिकरकरालेऽन्धतमसे २४ ___ जगन्मायाकारैरिव हतपरैर्हा विनिहितम् ।
तदुद्धर्तुं शक्तो नियतमविसंवादिवचन
स्त्वमेवातसातत्वयि कृतसपर्याः कृतधियः ।। ३२ ॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिविरचितमन्ययोगव्यवच्छेदिका
द्वात्रिंशिकाख्यं श्रीमहावीरखामिस्तोत्रम् ।
Page #70
--------------------------------------------------------------------------
________________ 5. भावार्य विजयराममूरिश्वरजी महाराज साहेश्व संपादित नये प्रकाशन (1) सुवर्णाक्षरीय श्री हपसूण (बारसासूत्र) सचिव 250-08 (2) অক্সালি লিখা। (3) प्रमाणनयतत्वालाकालंकार (4) जैनधर्म प्रकरण रत्नाकर (तृतीयावृत्ति) 17-00 / (5) श्री यत्तिश्राद्ध व्रत विधि (प्रत) प्रकाशक श्री सुरेन्द्रसूरिश्वरजी जैन तत्वज्ञान शाला अवेहीबाड, पटणीनी खडकी, अमावाद-१.