________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे तृतीयः परिच्छेदः। १७ उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिर्विरुद्धोपलब्धिश्च ॥६७ ॥ तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ ६८॥ साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरा-३ णामुपलब्धिरिति ॥ ६९ ॥
अत्र भिक्षुर्भाषते-विधिसिद्धौ स्वभावकार्ये एव साधीयसी, न कारणम् , तस्यावश्यंतया कार्योत्पादकत्वाभावात् , प्रतिबद्धावस्थस्य मुर्मुरावस्थस्य चाधू-६ मस्यापि धूपध्वजस्य दर्शनात्, अप्रतिबद्धसामर्थ्यमुग्रसामग्रीकं च तद्गमकमिति चेदेवमेतत्किन्तु नैतादृशमर्वाग्दृशावसातुं शक्यमिति तन्निराकुर्वन्ति--
तमविन्यामाखाद्यमानादाम्रफलरसादेकसामय्यनुमित्या रू-९ पाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यं च ॥ ७०॥
तमस्विन्यामिति । तमस्विन्यामिति रूपाप्रत्यक्षसूचनाय । शक्तरप्रतिस्खलनं १२ सामर्थ्यस्याप्रतिबन्धः । अपरकारणसाकल्यं निःशेषसहचारिसंपर्कः । रजन्यां रस्यमानास्किल रसात्तजनकसामध्यनुमानं ततोऽपि रूपानुमानं स्यात् । प्राक्त. नो हि रूपक्षणः सजातीयरूपान्तरक्षणं कार्य कुर्वमेव विजातीयं रसलक्षणं कार्य १५ करोतीति प्राक्तनरूपक्षणात्सजातीयोत्पाद्यरूपक्षणान्तरानुमानं मन्यमानः सौगतैरनुमतमेव किंचित्कारणं हेतुर्यस्मिन्सामर्थ्याप्रतिबन्धः कारणान्तर. साकल्यं च निश्चेतुं शक्यते । अथ नैतत्कारणात्कार्यानुमानं किन्तु स्वभावानु-१८ मानमदः, इंशरूपान्तरोत्पादसमर्थमिदं रूपमीदृशरसजनकत्वात्, एवं तत्स्वभावभूतस्यैव तजननसामर्थ्यस्यानुमानादिति चेत्? नन्वेतदपि प्रतिबन्धाभावकारणान्तरसाकल्यनिर्णयमन्तरेण नोपपद्यत एष । तनिश्चये तु २१ यदि कारणादेव तस्मात्कार्यमनुमास्यते तदा किं दुश्चरितम् । एवं मस्त्यत्र छाया छत्रादित्यादीन्यव्यभिचारनिश्चयादनुमानान्येव ॥ ७० ॥
पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावी तयोः कालव्य-२४ वहितावनुपलम्भात् ॥ ७१॥
पूर्वेति । स्वभाव-कार्यकारणभावौ साध्यसाधनयोस्तादाम्ये सति स्वभावहेतौ, नदुत्पत्तौ तु काय कारणे वान्तर्भावो विभाव्यते । न चैते स्तः। २७