________________
१८ सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः ।
तादाम्यं हि समसमयस्य प्रयत्नानन्तरीयकत्वपरिणामित्वादेरुपपन्नम् । तदुत्पत्तिश्चान्योन्यमव्यवहितस्यैव धूमधूमध्वजादेः, न तु व्यवहितकालस्याति. ३प्रसकेः ॥७॥
ननु कालव्यवधानेऽपि कार्यकारणभावः स्यादेव जाग्रबोधयोः, मरणारिष्टयोश्च तथादर्शनादिति प्रतिजानानं प्रज्ञाकरं प्रतिक्षिपन्ति६ न चातिक्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं व्यवहितत्वेन निर्व्यापारत्वात् ॥ ७२॥
नेति । जाप्रशासंवेदनमतीतं सुप्तावस्थोत्तरभाविज्ञानं वर्तमानं प्रति, ९मरणं चानागतं ध्रुवावीक्षणादिकमरिष्टं सांप्रतिकं प्रति व्यवहितत्वेन व्यापारपराङ्मुखम् ॥ ७२ ॥
इदमेव भावयन्ति१२ खव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति ॥ ७३॥
नच व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसकेः ७४ १५ नेति । तयोरतिक्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोः ॥ ७ ॥
परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥ ७५॥ १८ सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः
सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥ ७६ ॥ २१ सहचारिणोरिति । प्रोक्तेषु स्वभावकार्यकारगेषु नान्तर्भावः ॥ ७६ ॥
ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात् ,यःप्रयत्नानन्तरीयकः स परिणतिमान् यथा स्तंभो, यो वा न परिणतिमान् स न २४ प्रयत्नानन्तरीयको यथा वान्ध्येयः, प्रयत्नानन्तरीयकश्च ध्वनि
स्तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः २६ साधम्र्येण वैधयेण च ॥ ७७॥