________________
३२ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे पंचमषष्ठौ परिच्छेदौ ।
पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं कटककङ्कणाधनुगामिकाञ्चनवत् ॥५॥ ३ पूर्वेति । पूर्वापरपर्याययोरनुगतात्मकं द्रव्यं त्रिकालानुयायी यो वस्त्वंशः तदूर्ध्वतासामान्यम् ॥ ५॥
विशेषोऽपि द्विरूपो गुणः पर्यायश्च ॥ ६॥ ६ विशेष इति । सर्वेषां विशेषानां वाचकोऽपि पर्यायशब्दो गुणशब्दस्य सहवर्तिविशेषवाचिनः सन्निधानेन क्रमवर्तिविशेषवाच्योऽत्र गृह्यते ॥ ६ ॥
गुणः सहभावी धर्मो यथात्मनि विज्ञानव्यक्तिशत्यादिः ॥७॥ ९ गुण इति । सहभावित्यमत्र लक्षणम् , यथेत्यादिकमुदाहरणम् । विज्ञानव्यक्तियत्किचिज्ज्ञानं तदानीं विद्यमानम् । विज्ञानशक्तिरुत्तरज्ञानपरिणाम
योग्यता । आदिशब्दात्सुखपरिस्पन्दयौवनादयो गृह्यन्ते ॥ ७ ॥ १२ पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ॥ ८॥
इति प्रमेयखरूपनिर्णयो नाम पंचमः ॥५॥ पर्यायेति । धर्म इत्यनुवर्तनीयम् । क्रमभावित्वमिह लक्षणम्, परिशिष्टं तु १५ निदर्शनम् । तत्रेत्यात्मनि । आदितो हर्षविषादादीनामुपादानम् । अयमर्थः
ये सहभाविनः सुखज्ञानवीर्यपरिस्पन्दयौवनादयस्ते गुणाः, ये तु क्रमवृत्तयः सुखदुःखहर्षविषादादयस्ते पर्याया इति ॥ ८ ॥
इति पञ्चमः परिच्छेदः ॥५॥
२१
प्रमाणस्य फलमाहुःयत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ १॥ तद्विविधमानंतर्येण पारम्पर्येण च ॥२॥ तत्रानन्तर्येण सर्वप्रमाणानामशाननिवृत्तिः फलम् ॥ ३॥
'अज्ञानस्य' विपर्ययादेनिवृत्तिः प्रध्वंसः स्वपरव्यवसितिरूपा फलं बोद्धव्यम् ॥ ३॥ २५ पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥४॥