________________
सावचूरिके प्रमाणनयतत्त्वालोकालकारे द्वितीयः परिच्छेदः। . स्पष्टं प्रत्यक्षम् ॥२॥ स्पष्टमिति । प्रबलज्ञानावरणवीर्यान्तराययोः क्षयोपशमात् क्षयाद्वा स्पष्टं . यत्तत् प्रत्यक्षं प्रत्येयम् ॥ २ ॥
अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥ ३॥ अनुमानेति । अनुमानादिभ्योऽतिरेकेण यद्विशेषाणां नियतवर्णसंस्थानाधकाराणां प्रतिभासनं ज्ञानस्य तत्स्पष्टत्वम् ॥ ३॥ तद् द्विप्रकारकं सांव्यवहारिकं पारमार्थिकं च ॥४॥
तदिति । सांव्यवहारिकं बाह्येन्द्रियादिसामग्रीसापेक्षवादपारमार्थिकम् । परमार्थे भवं पारमार्थिकम् मुख्यमारमसन्निधिमात्रापेक्षम् ॥ ४॥ तत्राद्यं द्विविधम् इन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥५॥ एतद्वितयमवग्रहहावायधारणामेदादेकशश्चर्तुविकल्पकम् ॥६॥. विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शना- १२
जातमाद्यमवान्तरसामान्याकारविशिष्टमर्थग्रहणमवग्रहः॥७॥ . विषयेति । विषयः सामान्यविशेषात्मकोऽर्थो विषयी चक्षुरादिस्तयोः समीचीनो निपातो योग्यदेशाद्यवस्थानं तस्मादनन्तरं समुद्भूतं यत्सत्ता-१५ मात्रगोचरं दर्शनं निराकारो बोधस्तस्मजातम् आद्यम् सत्वसामान्याचवान्तरैः सामान्याकारैर्मनुष्यत्वादिजातिविशेषैर्विशिष्टस्य वस्तुनो यद्हणं ज्ञानं तदवग्रहः ॥७॥
अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८॥
अवगृहीतो योऽर्थोऽवान्तरमनुष्यस्वादिजातिविशेषलक्षणस्तस्य विशेषः कर्णाटादिभेदः । तस्याकांक्षणं भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्य-२१ मीहा ॥८॥ ईहितविशेषनिर्णयोऽवायः॥९॥ ईहितविशेषस्य कर्णाटादेर्निर्णयोऽवायः ॥ ९॥ स एव दृढतरावस्थापन्नो धारणा ॥१०॥ स एव सादरस्य प्रमातुरत्यन्तोपचितः किञ्चित्कालं तिष्ठन्धारणा ॥१०॥ संशयपूर्वकत्वादीहायाः संशयानेदः ॥ ११ ॥
।
२४