________________
सावचूरि के प्रमाणनयतत्त्वालोकालङ्कारे द्वितीयः परिच्छेदः ।
संशयेति । पुरुषावग्रहानन्तरं किमयं दाक्षिणात्य इत्याद्यनेककोटिपरामर्शः संशयस्ततोऽपि प्रमातुर्विशेषलिप्सायां दाक्षिणात्येनाऽनेन भवितव्यमित्येवमीहा ३ जायते इति हेतुहेतुमद्भावादनयोः पृथक्त्वम् ॥ ११ ॥
कथंचिदभेदेऽपि परिम विशेषादेषां व्यपदेशभेदः ॥ १२ ॥ कथंचिदिति । यद्यप्येकजीवद्रव्यतादात्म्येन द्रव्यार्थादेशादेषां दर्शनादीनां ६ ऐक्यं तथापि पर्यायार्थादेशाद्वेदोऽपि ॥ १२ ॥
असामस्त्येनाप्युत्पद्यमानत्वेनासंकीर्ण स्वभावतयाऽनुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात्क्रमभावित्वाच्चैते व्यतिरि
९ च्यन्ते ॥ १३ ॥
असामस्त्येनेति । असङ्कीर्णस्वभावतया परस्परस्वरूप वै वित्तयेनानुभूयमानस्वादर्शनादयो भिद्यन्ते । तथानुभवनमप्यमीषामसामस्त्येनाप्येकद्वित्र्यादिसं१२ ख्यतयोत्पद्यमानत्वात् । तथाहि प्रमातुश्चित्रक्षयोपशमात्कदा चिद्दर्शनावग्रहौ कदाचिद्दर्शनावग्रह संशयादयः क्रमेण समुन्मज्जन्ति । अपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वक्रमभावित्वेऽपि प्रत्यात्मवेधे एव ॥ १३ ॥
१५ क्रमोऽप्यमीषामयमेव तथैव संवेदनात् एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाश्च ॥ १४ ॥
क्रमोऽपीति । अयमेव दर्शनावग्रहादिरमीषां क्रमस्तेनैव क्रमेणानुभवात् । १८ दर्शन ज्ञानावरणक्षयोपशमलक्षणकारणेनाप्येवमेव भूष्णुनाऽमीषामुत्पाद्यत्वाश्वायमेव क्रमः । क्रमोत्पदिष्णुना हि कारणेन क्रमेणैव स्वकार्यं जनयितव्यम्, यथा स्थासकोशकुशूलच्छत्रादिना ॥ १४ ॥
२१
अन्यथा प्रमेयानवगतिप्रसङ्गः ॥ १५ ॥
अन्यथेति । यथोक्तक्रमानभ्युपगमे दर्शनादीनां प्रमेयापह्नव एव कृतः स्यात् ॥ १५ ॥
२४ उक्तमेव क्रमं समर्थयति
तथाहि न खल्वद्दष्टमवगृह्यते । नचाऽनवगृहीतं संदिह्यते । २६ नचाऽसंदिग्धमीह्यते । नचानी हितम वेयते । नाप्यनवेतं धार्यते ॥ १६