________________
१२
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे द्वितीयः परिच्छेदः। . क्वचिदेषां क्रमानुपलक्षणे कारणमाहुःक्वचित्क्रमस्यानुपलक्षणमेषामाशूत्पादादुत्पलपत्रशतव्यतिमेद- . क्रमवत् ॥१७॥ कचिदिति क्वचित्त्वभ्यस्ते करतलादौ (गोचरे) ॥ १७ ॥ पारमार्थिकं पुनरुत्पत्तौ आत्ममात्रापेक्षम् ॥ १८॥ पारमार्थिकेति । आत्ममात्रापेक्षं क्षयक्षयोपशमविशिष्टमात्मद्रव्यमेवाव्यवहितं समाश्रित्य पारमार्थिकम् । न पुनः सांव्यवहारिकमिवेन्द्रियादिव्यवहितमात्मद्रव्यमाश्रित्येत्यर्थः ॥ १८ ॥ तद्विकलं सकलं च ॥ १९॥ तत्र विकलमवधिमनःपर्यायज्ञानरूपतया द्वेधा ॥ २०॥
अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥२१॥
अवधीति । भवप्रत्ययं सुरनारकाणाम् , गुणप्रत्ययं तु नरतिरश्वाम् ॥२१॥
संयमविशुद्धि निबन्धनाद्विशिष्टावरणविच्छेदाजातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ॥ २२॥
सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिखरूपं केवलज्ञानम् ॥ २३ ॥
सकलेति । सामग्री सम्यग्दर्शनादिलक्षणान्तरङ्गा बहिरङ्गा तु जिनकालि-१८ कमनुष्यभवादिलक्षणा ॥ २३ ॥
तद्वानहन्निर्दोषत्वात् ॥ २४ ॥ निर्दोषोऽसौ प्रमाणाविरोधिवाक्त्वात् ॥ २५॥ अविरोधिवाक्त्वमेवार्हतः प्रसाधयन्तितदिष्टस्य प्रमाणेनाबाध्यमानत्वात्तद्वाचस्तेनाविरोधसिद्धिः२६ तदिति । तस्य अर्हत इष्टस्यानेकान्ततश्वस्य । तद्वाच इत्यर्हद्वाचः । अर्हन् २४ सर्वत्र प्रमाणाविरोधिवाक् । तत्र प्रमाणाबाध्यमानाभिमततत्वत्वात् । यस्याभिमतं तत्वं यत्र प्रमाणेन न बाध्यते स तत्र प्रमाणाविरोधिवाक् । यथा २६