________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे आद्यद्वितीयपरिच्छेदौ ।
लौकिकपरीक्षकैस्तद्वज्ज्ञानस्य नैस्तैर्ज्ञानमपि प्रतिभावं स्वीकर्तव्यम् ॥ १७ ॥
प्रमाणं विविच्यास्यैव प्रामाण्यस्वरूपं धर्ममाविष्कुर्वन्ति । ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् ॥ १८ ॥ प्रसङ्गायातमप्रामाण्यरूपमपि धर्ममाहुः
६ तदितरत्त्वप्रामाण्यम् ॥ १९ ॥
तदिति । प्रमेयव्यभिचारित्वमप्रामाण्यम् प्रत्येयम् । प्रमेयव्यभिचारित्वं च ज्ञानस्य तद्व्यतिरिक्तग्राह्यापेक्षयैव ज्ञेयम् । स्वस्मिन् व्यभिचारस्यासंभवात् । ९ तेन सर्व स्वापेक्षया प्रमाणमेव बहिरर्थापेक्षया तु किञ्चित्प्रमाणं किञ्चित्प्रमाणाभासम् ॥ १९ ॥
तदुभयमुत्पत्तौ परत एव झप्तौ तु स्वतः परतश्चेति ॥ २० ॥
१२
विषयं कुम्भादिकं प्रतिभातमभिमन्यमा
इति श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्त्ववालो कालंकारे प्रमाणस्वरूपनिर्णयो नाम प्रथमः परिच्छेदः ॥
तदुभयमिति । स्वतः परतश्चेति स्त्रं परं चापेक्ष्येत्यर्थः । ज्ञानस्य प्रामाण्य१५ मप्रामाण्यं च द्वितयमपि ज्ञानकारणचक्षुरादिगतगुणदोषरूपं परमपेक्ष्योपद्यते निश्चीयते स्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परतः । तत्र ज्ञानस्याभ्यासदशायां प्रमेयाव्यभिचारि तदितरच्चास्मीति प्रामाण्याप्रामा१८ ण्यनिश्चयः । संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतः स्यादित्यभिधीयते । अनभ्यासदशायां तदपेक्षया जायमानोऽसौ परतः ॥ २० ॥ आद्यपरिच्छेदः समाप्तः ॥
२१ प्रमाणस्य स्वरूपमुक्त्वा संख्यां समाख्यातितद् द्विभेदं प्रत्यक्षं च परोक्षं च ॥ १ ॥
तदिति । अक्षमिन्द्रियं प्रतिगतमिन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्ष२४ मिति तत्पुरुषः । अक्षाणां परमक्षव्यापार निरपेक्षं मनोव्यापारेणासाक्षादर्थपरिच्छेदकम् परोक्षम् । परशब्दसमानार्थेन परस - शब्देन सिद्धम् । चशब्दौ २६ द्वयोरपि तुल्यकक्षतां लक्षयतः । प्रामाण्यं प्रति विशेषाभावात् ॥ १ ॥