________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे भाद्यः परिच्छेदः ।
साधकबाधकप्रमाणाभावात् अनवस्थितानेककोटिसंस्पर्शज्ञानं संशयः ॥ ११ ॥
साधकेति । उल्लिख्यमानस्थाणुस्व पुरुषत्वाद्यने कांशगोचरयोस्साधकबाधक- ३ प्रमाणयोरनुपलम्भात् ॥ ११ ॥
यथा अयं स्थाणुर्वा पुरुषो वेति ॥ १२ ॥
अयं प्रत्यक्षविषये संशयः । परोक्षविषये तु यथा क्वापि वने शृङ्गमात्र - ६ दर्शनात् किं गौरयं गवयो वेत्यादि ॥ १२ ॥
किमिति आलोचनमात्रमनध्यवसायः ॥ १३ ॥
किमिति । किमित्युलेखे नोत्पद्यमानं ज्ञानमात्रमनध्यवसायः । समारोप - ९ रूपत्वं चास्यापचारिकम् । अतस्मिंस्तदध्यवसायस्य तल्लक्षणस्याभावात् । समारोपनिमित्तं तु यथार्थापरिच्छेदकत्वमुदाहरन्ति ॥ १३ ॥
यथा गच्छतस्तृणस्पर्शज्ञानम् ॥ १४ ॥
यथेति । प्रत्यक्षयोग्यविषयश्चायमनध्यवसायः । परोक्षयोग्यो यथा कस्यचिदपरिज्ञातगोजातीयस्य क्वापि साखामात्रदर्शनात्पिण्डमात्रमनुमाय कोऽश्र प्राणी स्यादित्यादि ॥ १४ ॥
परशब्दं व्याख्याति -
ज्ञानादन्योऽर्थः परः ॥ १५ ॥
स्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनम्, बाह्यस्येव तदाभि. १८ मुख्येन करिकलभकमहमात्मना जानामीति ॥ १६ ॥
१२
कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत मिहिरालोकचत् ॥ १७ ॥
१५
तदाभिमुख्येन बाह्याभिमुख्येन । यथा करिकलभकमिति प्रमेयस्य, अहमिति प्रमातुजीनामीति प्रमितेः प्रतिभासस्तथात्मनेति -प्रमाणत्वाभिमत- २१ ज्ञानस्याप्यस्त्येवेति भावः ॥ १६ ॥
२४
तदपीति ज्ञानम्, तत्प्रकारं प्रतिभातमित्यर्थः । यथा च गिर्यादिकं मिहिरालोकस्य विषयं प्रतिभातं मन्यमानैर्मिहिरालोकोऽपि प्रतिभातो मन्यते २६