________________
सावचूरिके प्रमाणनयतत्त्वालोकालकारे अष्टमः परिच्छेदः। ५५ विरुद्धेति । विरुद्धयोरेकत्र प्रमाणेनानुपधमानोपलम्भयोधर्मयोर्मध्यात् । विरुद्धावेव हि धर्मावेकान्तनित्यत्वादी वादं प्रयोजयतः। न पुनरितरौ । तद्यथा-पर्यायवद्रव्यं गुणवञ्च, विरोधश्चकाधिकरणत्वैककालत्वयोरेव सतोः३ सम्भवति । अनित्या बुद्धिनित्य आत्मेति भिन्चाधिकरणयोः पूर्व निःक्रियमिदानी क्रियावद्व्यमिति भिन्नकालयोश्च तयोः प्रमाणेन प्रतीतौ विरोधासम्भवात् । ततो यावेकाधिकरणावेककालौ च धर्मो विरुद्ध्येते। तयोर्म-६ ध्यादेकस्य सर्वथा नित्यत्वस्य कथञ्चिन्नित्यत्वस्य वा व्यवच्छेदेन निरासेन स्वीकृततदन्यधर्मस्य कथञ्चिनित्यत्वस्य सर्वथानित्यत्वस्य वा व्यवस्थापनार्थ वादिनः प्रतिवादिनश्च साधनदूषणवचनं वाद इत्यभिधीयते । सामर्थ्याच्च ९ स्वपक्षविषयं साधनं परपक्षविषयं तु दूषणम् । साधनदूषणवचने च प्रमाणरूपे एव भवतः । पूर्व हि वादी स्वाभिप्रायेण साधनमभिधत्ते । पश्चात्प्रतिवाद्यपि स्वाभिप्रायेण दूषणमुद्भावयति ॥ १ ॥
अङ्गनियमभेदप्रदर्शनार्थ वादे प्रारम्भकभेदौ वदन्तिप्रारम्भकश्चात्र जिगीषुस्तत्त्वनिर्णिनीषुश्च ॥२॥ प्रारम्भक इति । तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते प्रथममेव च १५ तत्त्वनिर्णिनीषुरिति द्वावप्येतो प्रारम्भको भवतः । तत्र जिगीषोः "सारङ्गमातङ्गतुरङ्गपूगाः पलाय्यतामाशु वनादमुष्मात् । साटोपकोपस्फुटकेसरश्रीमुंगाधिराजोयमुपेयिवान् यत् ॥ १॥” इत्यादि विचित्रोत्तम्भनम् ®®®१८ इत्यादिर्वादारम्भः । तत्त्वनिर्णिनीषोस्तु सब्रह्मचारिन् ! शब्दः किं कथंचिमित्या स्थान्नित्य एव वेति संशयोपक्रमो वा, कथञ्चिन्नित्य एव शब्द इति निर्णयोपक्रमो वेत्यादिरूपः ॥२॥ जिगीषोः स्वरूपमाहुः
स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छुर्जिगीषुः ॥३॥
२४ स्वीकृतो धर्मः शब्दादेः कथञ्चिन्नित्यत्वादिर्यस्तस्य व्यवस्थापनार्थ यत्सामर्थ्यात्तस्यैव साधनं परपक्षस्य च दूषणं ताभ्यां कृत्वा परं पराजेतुमिच्छुविजिगीषुः ॥ ३॥ तथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः॥४॥ २८