________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे चतुर्थः परिच्छेदः । २९
1
प्रमाणेति । यौगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्याऽभेदोपचारेण वा प्रतिपादयति सकलादेशस्तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद्भेदप्राधान्याद्वा तदभिधत्ते तस्य नयायत्तत्वात् । कः पुनः ३ क्रमः ? किं वा यौगपद्यम् ? यदास्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकशब्दस्यानेकार्थप्रत्यायने शक्त्यभावात्क्रमः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायन- ६ मुखेन तदात्मकतामापन्नस्यानेकाशेषरूपस्य वस्तुनः प्रतिपादनसंभवाद्यौ - गपद्यम् । के पुनः कालादयः ? कालः १ आत्मरूपं २ अर्थः ३ सम्बन्धः ४ उपकारः ५ गुणिदेशः ६ संसर्गः ७ शब्दः ८ इत्यष्टौ । तत्र स्याज्जीवादिवस्तु ९ अस्त्येवेत्यत्र यत्कालमस्तित्वम् तस्कालाः शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः ॥ १ ॥ यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेवान्यानन्तगुणानामपीत्यात्मरूपेणाभेदवृत्तिः ॥ २ ॥ य एव चाधारार्थी १२ द्रव्याख्योsस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः ॥ ३ ॥ य एव चाविष्वग्भावः कथं चित्तादात्म्यलक्षणः संबन्धोऽस्तित्वस्य स एवाशेषविशेषाणामिति संबन्धेनाऽभेदवृत्तिः ॥ ४ ॥ य एव चोपकारोऽस्तित्वेन १५ स्वानुरक्तत्वकरणं स एव शेषैरपि गुणैरित्युपकारेणाभेदवृत्तिः ॥ ५ ॥ य एव गुणिनः संबन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्यगुणनामिति गुणिदेशेनाभेदवृत्तिः ॥ ६ ॥ य एव चैकवस्त्वात्मनोऽस्तित्वस्य संसर्गः स १८ एवाशेषधर्माणामिति संसर्गेणाभेदवृत्तिः । अभेदप्राधान्येन तगुणभावेन च प्रागुक्तः संबन्धः, भेदप्राधान्येनाभेदगुणभावेन चैष संसर्ग इति संबन्धादस्य विशेषः ॥ ७ ॥ य एवास्तीति शब्दोऽस्तित्व धर्मात्मकस्य वस्तुनो वाचकः स २१ . एवानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः ॥ ८ ॥ पर्यायार्थिकनयगुणभावे द्रव्यार्थिकनयप्राधान्यादुपपद्यते ॥ द्रव्यार्थिकगुणभादे पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः संभवति, समकालमेकत्र नानागुणानामसंभवा- २४ संभवे वा तदाश्रयस्य तावद्वा भेदप्रसंगात् ॥ १ ॥ नानागुणानां संबन्धिन आत्मरूपस्य च भिन्नत्वादात्मरूपाभेदे तेषां भेदस्य विरोधात् (२) स्वाश्रयस्यार्थस्यापि नानात्वादन्यथा नानागुणाश्रयत्वविरोधात् (३) संबन्धस्य च २७ सम्बन्धिमेदेन भेददर्शनात्, नानासंबन्धिभिरेकत्रैकसम्बन्धाघटनात् (४) तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात् अनेकैरुपकारिभिः २९