________________
सावचूरिके प्रमाणनयतवालो कालङ्कारे तृतीयः परिच्छेदः ।
अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः ॥ ३२ ॥
१४
३ यदुक्तं न दृष्टान्तादिवचनं परप्रतिपत्तेरङ्गं तत्र दृष्टान्तः किं परप्रतिपत्त्यर्थ परैरङ्गीक्रियते किंवा हेतोरन्यथानुपपत्तिनिर्णीतये यद्वाऽविनाभावस्मृतये इति विकल्पान् दूषयन्ति ॥ ३२ ॥
६ न दृष्टान्तादिवचनं परप्रतिपत्तये प्रभवति । तस्यां पक्षहेतुवचनयोरेव व्यापारोपलब्धेः ॥ ३३ ॥
न हेतोरन्यथानुपपत्तिनिर्णीतये यथोक्ततर्कप्रमाणादेव तदुप९पत्तेः ॥ ३४ ॥
नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थितेर्दुर्निवारः समवतारः ॥ ३५ ॥ १२ अनवस्थितेर्दुर्निवारः समवतारः इति प्रतिनियतव्यक्तौ व्याप्तिनिश्चयः कर्तुमशक्यस्ततो व्यक्तयन्तरेषु व्याहयर्थं पुनर्दृष्टान्तान्तरं मृग्यंस्तस्यापि व्यक्तिरूपत्वेनापरदृष्टान्तापेक्षायामनवस्था ॥ ३५ ॥
१८
१५ अमुमेवार्थ समर्थयन्ते—
नाप्यविनाभावस्मृतये प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः ॥ ३६ ॥
अन्तर्व्याप्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिर्व्याप्तेरुद्भावनं व्यर्थम् ॥ ३७ ॥
।
अन्तर्व्यायेति । अन्तर्व्याध्या साध्यसिद्धिशक्तौ बाह्यव्याप्तेर्वर्णनं वन्ध्यमेव । २१ मत्पुत्रोऽयं बहिर्वक्ति एवंस्वरूपस्वरान्यथानुपपत्तेरत्र बहिर्व्याश्यभावेऽपि गमकत्वस्योपलब्धेः ॥ ३७
पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिरन्यत्र २४ तु बहिर्व्याप्तिः ॥ ३८
यथाऽनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः ॥ ३९ ॥ नोपनयनिगमनयोरपि प्रतिपत्तौ सामर्थ्य पक्षहेतुप्रयोगादेव २७ तस्याः सद्भावात् ॥ ४० ॥