________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः। १५ 'समर्थनमेव परं परप्रतिपत्त्यङ्गमास्तां तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥४१॥
प्रयुज्यापि दृष्टान्तादिकं समर्थनं हेतोरवश्यं वक्तव्यम् । अन्यथा साध्य-३ सिद्मसंभवात् । तदेवोच्यतां किं दृष्टान्तादिभिः ॥ ४० ॥
मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥४२॥
मन्देति । अपिशब्दात्पक्षहेतू पक्षादिशुद्धयश्च पञ्च । तत उत्कृष्टं दशावयवं परार्थानुमानम् ॥ ४२ ॥
प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः॥४३॥ प्रतिबन्धेति । प्रतिबन्धो व्याप्तिरविनाभावस्तत्मरणस्थानं महानसादिईष्टान्तः॥ ४३॥
स द्वेधा साधर्म्यतो वैधयंतश्च ॥४४॥
समानो धर्मों यस्यासौ सधर्मा । विसदृशो धर्मों यस्यासौ विधर्मा । तयोर्भावः साधर्म्य वैधयं च ॥ १४ ॥
यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते स १५ साधर्म्यदृष्टान्तः॥४५॥ यथा यत्र धूमस्तत्र तत्र वह्निर्यथा महानसे ॥ ४६॥ यत्र तु साध्याभावे साधनस्यावश्यमभावःप्रदर्श्यते स वैधH-१८ दृष्टान्तः॥४७॥ यथाझ्यभावे न भवत्येव धूमो यथा जलाशये ॥४८॥ हेतोः साध्यधर्मिण्युपसंहरणमुपनयः॥४९॥ यथा धूमश्चात्र प्रदेशे ॥५०॥ साध्यधर्मस्य पुनर्निगमनम् ॥५१॥ साध्यधर्मस्य पुनर्निगमनं साध्यधर्मिण्येवोपसंहरणमिति योगः ॥५१॥ २४ यथा तस्मादग्निरत्र ॥५२॥ एते पक्षप्रयोगादयः पश्चापि अवयवसंशया कीर्त्यन्ते ॥५३॥ २६
२१