________________
४६ सावचूरिके प्रमाणनयतस्वालोकालकारे षष्ठसप्तमौ परिच्छेदौ ।
प्रत्यक्षेति । प्रमाणसङ्ख्या परेषामितो ज्ञेया । "चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दम् । तद् द्वैतं पारमर्षः सहितमुपमया वयं ३ चाक्षपादः । भांपत्या प्रभाकृद्वदति च निखिलं मन्यते भट्ट एतत् साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च" ॥ १ ॥ ४५ ॥ ..
सामान्यमेव विशेष एव तद्वयं वा स्वतन्त्रमित्यादिस्तस्य विष६ याभासः॥ ८६ ॥
सामान्येति । सामान्यमानं सत्त्वाद्वैतवादिनः, विशेषमानं सौगतस्य, तदुभर च स्वतनं नैयायिकादेरित्यादिरेकान्तस्तस्य प्रमाणस्य विषयामासः । आदि९शब्दानित्यमेवानित्यमेव तद्वयं वा परस्परनिरपेक्षमित्यायेकान्तपरिग्रहः ॥८६॥
अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् ॥ ८७॥
इति फलप्रमाणवरूपाद्याभासनिर्णयो नाम षष्ठः परिच्छेदः ॥६॥ १२ अभिनेति । अभिन्नमेव प्रमाणात्फलं बौद्धानाम् , भिन्नमेव नैयायिकानाम् । तस्य प्रमाणस्य, तदाभासं फलाभासमिति ॥ ८७ ॥
इति षष्ठः परिच्छेदः।
१५ प्रमाणतत्वं व्यवस्थाप्य नयतत्त्वं व्यवस्थापयन्ति
नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरां. शौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः॥१॥ १८ नीयत इति । अत्रैकवचनमतनं तेनांशावंशा वा येन परामर्शविशेषण
श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते तदितरांशौदासीन्यापेक्षया स नयः। तदितरांशप्रतिक्षेपे तु तदाभासता भणिष्यते । वस्त्वंशे प्रवर्तमानो नयः २१ स्वार्थैकदेशव्यवसायलक्षणो न प्रमाणं नापि मिथ्याज्ञानमिति ॥ १॥
नयसामान्यलक्षणमुक्त्वा नयाभासस्य तदाहुः
स्वाभिप्रेतादशादितगंशापलापी पुनर्नयाभासः॥२॥ २४ स्वाभियतेति । नयाभासो दुर्नय इत्यर्थः, यथा तीथिकानां नित्यायेकान्त
प्रदर्शकं सकलं वाक्यम् ॥२॥ २६ स व्याससमासाभ्यां द्विप्रकारः॥३॥