________________
३६ सावचूरिके प्रमाणनयतत्वालोकालकारे षष्ठः परिच्छेदः ।
प्रमाणं स्वरूपादिभिः प्ररूप्य तत्स्वरूपाचाभासमप्याहुः
प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥ २३ ॥ ३ वरूपादिचतुष्टयात् स्वरूपसमाविषयफललक्षणात् ॥ २३ ॥
अज्ञानात्मकाऽनात्मप्रकाशक-खमात्रावभासक-निर्विकल्प-समा. रोपाः प्रमाणस्य स्वरूपाभासाः ॥ २४ ॥ ६ यथा सन्निकर्षाद्यखसंविदितपरानवभासकशानदर्शनविपर्यय. संशयानध्यवसायाः॥२५॥
संनिकर्षादिकमज्ञानात्मकस्य दृष्टान्तः । अस्वसंबिदितज्ञानमनात्मप्रकाश९कस्य, परानवमासकज्ञानं बाह्यापलापिज्ञानस्य, दर्शनं निर्विकल्पस्य, विपर्ययादयस्तु समारोपय ॥२५॥
कथमेषां तरखरूपाभासतेत्यत्र हेतुमाहुः१२ तेभ्यः खपरव्यवसायस्यानुपपत्तेः ॥२६॥
सामान्यतः प्रमाणस्वरूपाभासमुक्त्वा विशेषतस्तदाहुः
सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥ २७ ॥ १५ सांव्यवहारिकप्रत्यक्षमिन्द्रियानिन्द्रियनिबन्धनतया द्विप्रकारम् । उदाहरन्ति
यथाम्बुधरेषु गन्धर्वनगरक्षानं दुःखे सुखशानं च ॥ २८॥ १८ यथेति आचं निदर्शनमिन्द्रियनिबन्धनाभासस्य । अवग्रहाभासादयस्त दाः स्वयमेव शेयाः ॥ २८॥
पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥ २९ ॥ २१ यथा शिवाख्यस्य राजर्षेरसङ्ख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् ॥ ३०॥
यथा शिवस्य विभङ्गापरपर्यायमवध्याभासं संवेदनमासीत्तादृशम् । मनः२४ पर्यायकेवलज्ञानयोस्तु विपर्ययः कदाचिन्न स्यात् ॥ ३० ॥
अननुभूते वस्तुनि तदिति शानं स्मरणाभासम् ॥ ३१॥ . २६ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥ ३२ ॥