________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे चतुर्थः परिच्छेदः। २५ शमानां शब्दादर्थाच्च केवलादप्यवैपरीत्येन वाच्यवाचकभावः संवन्धोऽवगमपथमेतीति ॥ ११ ॥ किमस्य शब्दस्य स्वाभाविक रूपं किंच परापेक्षमिति विवेचयन्ति- ३
अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद्यथार्थत्वायथार्थत्वे पुनः पुरुषगुणदोषावनुसरतः॥ १२॥
अर्थेति । अस्य स्वाभाविकं परानपेक्षं रूपम् । अयं पुनः प्रदीपाच्छब्दस्य ६ विशेषो यदसौ सङ्केतव्युत्पत्तिमपेक्षमाणः पदार्थप्रतीतिमुपजनयति । प्रदीपस्तु तमिरपेक्षः । यथार्थत्वायथार्थत्वे सत्यार्थत्वाऽसत्यार्थत्वे पुनः प्रतिपादकनराधिकरणशुद्धस्वाशुद्धस्वेऽनुसरतः । सम्यग्दर्शिनि शुचौ नरे वक्तरि यथार्थी ९ शाब्दी प्रतीतिरन्यथा तु मिथ्यार्था ॥ १२ ॥
सर्वत्रायं ध्वनिर्विधिनिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥ १३॥
यथैवान्तर्बहिर्वा भावराशिः स्वरूपमाबिभर्ति तं तथाभूतं सप्तभङ्गीसमनुगत एव शब्दो वक्तुं पटीयानित्याहुः ॥ १३॥
एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः १५ समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥ १४ ॥
अविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधि- १८ निषेधयोः पर्यालोचनया कृत्वा स्थाच्छब्दलांछितः सप्तधा वचनविन्यासः सप्तभङ्गी । नानावस्त्वाश्रयविधिनिषेधकल्पनया शतभङ्गीप्रसङ्गनिवर्तनार्थमेकत्र वस्तुनीत्युक्तम् । एकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्य-२१ मानानन्तधर्मपर्यालोचनया अनन्तभङ्गीप्रसक्तिव्यावर्तनार्थमेकैकधर्मपर्यनुयोगवशादित्युपात्तम् । प्रत्यक्षादिविरुद्धसदसन्नित्यानित्यायेकान्तविधिप्रतिषेधकल्पनयाऽपि प्रवृत्तस्य वचनप्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थमविरोधेने २४ त्युक्तम् ॥ १४ ॥
अस्यामाद्यभङ्गोल्लेखमाहुःतद्यथा-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भगः१५२७