________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः। ३९ सत्यमेतत् । किन्तु लोकप्रतीतिरत्रोत्कलितत्वेन प्रतिभातीति शिष्यव्युत्पादनार्थमस्य पार्थक्येन निर्देशः । एवं शुचि नरशिरःकपालादि प्राण्यङ्गत्वाच्छङ्खशुक्तिवदित्यपि दृश्यम् ॥ ४४ ॥ .
खवचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥ ४५॥
स्ववचनेति । सर्वप्रमाणाभावमभ्युपगच्छतः स्वमपि वचनं स्वाभिप्रायप्र-६ तिपादनपरं नास्तीति वाचंयमत्वमेव तस्य श्रेयः, ब्रुवाणस्तु नास्ति प्रमाणम् प्रमेयपरिच्छेदकमिति स्ववचःप्रमाणीकुर्वन् बूत इति स्ववाचैवासौ ब्याहन्यते । एवं निरन्तरमहं मौनीत्यायपि दृश्यम् । ननु स्ववचनस्य शब्दरूपत्वात्तचिरा-१ कृतसाध्यधर्मविशेषणः प्रागुक्तागमनिराकृतसाध्यधर्मविशेषणे एवान्तर्भवतीति किमर्थमस्य भेदेनोक्तिरिति चेत् । सत्यम् । तथापि शिष्यबुद्धिविकाशार्थमस्यापि पार्थक्येन कथनम् । मरणनिराकृतसाध्यधर्मविशेषणो यथा मानतः १२ फलशून्य इति, अयं पक्षः कस्यचित्तं फलभरयुतं सम्यक्स्मर्तुः मरणेन बाध्येत । प्रत्यभिज्ञाननिराकृतं सदृशे कचन वस्तुनि कश्चन कञ्चनाधिकृत्योचंतासामान्यभ्रान्त्या तदेवेदमिति तस्यायं पक्षस्तिर्यक्सामान्यावलम्बिना १५ तेन सदृशमिति प्रत्यभिज्ञानेन निराक्रियते । तर्क निरा० यो यस्तत्पुत्रः सश्याम. इति व्याप्तिः । अस्थायं पक्षो यो जनन्युपभुक्तशाकाचाहारपरिणामपूर्वकरत पुत्रः स श्याम इति व्याप्तिग्राहिणा सम्यक्तण निराक्रियते ॥ ४५ ॥ १०
अनमीप्सितसाध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एवेतिवदतः॥ ४६॥
अनभीप्सितेति। स्थाद्वादिनः सर्वत्र वस्तुनि नित्यत्वैकान्तोऽनित्यत्वैकान्तो वा २१ नाभीप्सितस्तथापि कदाचिदसौ समाक्षोभादिनैवमपि वदेत् । ये त्वप्रसिद्धविशेषणाप्रसिद्धविशेष्याप्रसिद्धोभयाः परैः प्रोचिरे न ते युक्ताः अप्रसिद्धस्यैवविशेषणस्य साध्यमानत्वात् अन्यथा सिद्धसाध्यतावतारात् । अथात्र सार्वत्रिका २४ प्रसिचभावो विवक्षितो नतु तत्रैव धर्मिणि यथा सांल्यस्य विनाशित्वं क्वापि धर्मिणि न प्रसिद्ध तिरोभावमात्रस्यैव सर्वत्र तेनामिधानात् । तदयुक्तम् , एवं सति क्षणिकतां साधयतो भवतः कथं नाप्रसिद्ध विशेषणत्वं दोषो भवेक्षणिक-१७