________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे सप्तमः परिच्छेदः। ४९ द्रव्यत्वादीनि अवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसग्रहः ॥ १९॥
द्रव्येति । द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामा-३ न्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्टानि । तद्भेदेषु द्रव्यत्वाश्रयभूतविशेषेषु द्रव्यपर्यायादिषु गजनिमीलिकामुपेक्षाम् ॥ १९ ॥
धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वामेदादित्या-६ दिर्यथा ॥ २०॥
अन्न द्रव्यं द्रव्यं इत्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकस्वेनैक्यं षण्णामपि धर्मादिद्व्याणां सङ्गृह्यते । आदितश्चेतनाचेतनपर्यायाणां ९ सर्वेषामेकत्वं पर्यायत्वाविशेषादित्यादि दृश्यम् ॥ २० ॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिढुवानस्तदाभासः॥२१॥ यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुप- १२ लब्धेरित्यादि ॥ २२ ॥
सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसधिना क्रियते स व्यवहारः॥२३॥
१५ सङ्ग्रहेणेति । सङ्ग्रहगृहीतान्सत्त्वाद्यर्थाविधाय नतु निषिध्य यः परामर्शविशेषस्तानेव विभजते स व्यवहारः ॥ २३ ॥
यथा यत्सत्तद्रव्यं पर्यायो वेत्यादि ॥ २४॥
यत्सत्तव्यं पर्यायो वेत्यादि । आदिशब्दादपरसङ्ग्रहसङ्ग्रहीतार्थगोचरव्यवहारोदाहरणम् , यद् द्रव्यं तज्जीवादि षड्विधम् । यः पर्यायः स द्विविधः क्रमभावी सहभावी चेति । एवं यो जीवः स मुक्तः संसारी च । यः क्रमभावी २१ पर्यायः स क्रियारूपोऽक्रियारूपश्चेति ॥ २४ ॥
यः पुनरपारमार्थिक द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः ॥२५॥ यथा चार्वाकदर्शनम् ॥ २६॥
___ १८ .
२५