Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे अष्टमः परिच्छेदः। ५९ परिहारेण वा वक्तव्यमित्यादियोऽसौ कथाविशेषस्त्रं चाङ्गीकारयन्ति । अस्याग्रवादोऽस्य चोत्तरवाद इति निर्दिशन्ति । वादिप्रतिवादिभ्यामुक्तयोः साधकबाधकयोर्गुणान् दोषांश्चावधारयन्ति । यदा द्वावपि तत्वपराङ्मुखमुदीरयन्तौ ३ न विरमतस्तदा तत्त्वप्रकाशनेन तौ विरमयन्ति । यथायोगं च कथायाः फलं जयादिकमुद्घोषयन्ति ॥ १९॥
प्रशाज्ञैश्वर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः ॥ २०॥ ६ वादिसभ्याभिहितावधारणकलहव्यपोहादिकं चास्य कर्म ॥२१॥ वादीति । वादिभ्यां सभ्यैश्चाभिहितस्वार्थस्थावधारणम् ॥ २१ ॥ जिगीषुवादे कियत्पक्षं वादिप्रतिवादिभ्यां वक्तव्यमित्याहुःसजिगीषुकेऽस्मिन्यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् ॥ २२ ॥ सजिगीषुक इति । सजिगीषुके वादिशक्रशक्तेश्च परीक्षणार्थ वा यावत्सभ्या आक्षिपन्ति तावस्कक्षाद्वयत्रयादि स्फूतौं सत्यां वादिप्रतिवादिभ्यां वक्त. १२ व्यम् ॥ २२॥
तत्वनिर्णिनीषुवादे कियस्कक्षं ताभ्यां वक्तव्यमित्याहुः । उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत्स्फूर्ति च १५ वाच्यम् ॥ २३॥ *इति (प्रमाणनय)तत्त्वालोकालङ्कारे वादिप्रतिवादिन्यायनिर्णयो
(नामा)ष्टमः परिच्छेदः ॥
* मूलगन्धस्य कर्तारः श्रीवादिदेवसूरयः स्याद्वादरत्नाकराधनेकग्रन्थप्रणेतारः । एषां जन्म गौर्जरीये मड्डाहतनगरेऽभूत् । पितरौ प्राग्वाटवंश्यो जिनदेवीवीरनागौ । जन्मसंवत् विक्रम ११४३, पूर्णचन्द्रेत्यभिधा । दीक्षा वि. सं. ११५२, रामचन्द्रेत्यभिधा । सुरिपदं वि. सं. ११७४ देवसूरिरित्यभिधा। वादीत्युपपदं चानेकवादेषु लब्धजयेः सार्थीकृतम्। वि. सं. १२२६ श्रावणवदिसप्तम्यां गुरौ स्वर्गारोहणम् । चतुर्दशशताब्दीयप्रतिवष्यवचूरिकृतो नामावनुपलब्धम् ।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70