Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 38
________________ सावरिके प्रमाणनयतत्त्वालोकालङ्कारे षष्ठः परिच्छेदः। ३३ औदासीन्यं साक्षात्समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहान्माध्यस्थमुपेक्षेत्यर्थः । सिद्धप्रयोजनत्वात् । हेयस्य संसारतत्कारणस्य हानादुपादेयस्य मोक्षतस्कारणस्योपादानासिद्धप्रयोजनस्वं नासिद्धं भगवताम् ॥ ४ ॥ ३ शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः॥ ५॥ उपादानहानोपेक्षाबुद्धयः पारम्पर्येण फलम् ॥ ५॥ प्रमाणात् फलस्य भेदाभेदैकान्तत्वादिवादिनो यौगसौगतानिराकतुं स्वमतं ६ च स्थापयितुं प्रमाणयन्ति तत्प्रमाणतः स्याद्भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः ॥६॥ तदिति फलम् ॥ ६॥ अत्राशय व्यभिचारमपसारयन्ति । उपादानबुझ्यादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतोय॑भि-१२ चार इति न विभावनीयम् ॥ ७॥ उपादानेति । प्रमाणफलं च भविष्यति प्रमाणात्सर्वथा भिन्नं च भविष्यति यथोपादानबुयादिकमिति न परामर्शनीयं योगैरित्यर्थः ॥ ७॥ १५ अत्र हेतुः। तस्यैकप्रमातृतादात्म्येन प्रमाणादमेव्यवस्थितेः॥ ८॥ एकप्रमातृतादात्म्यमपि कुत इत्याहुः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः॥९॥ प्रमाणेति । यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः ॥९॥ एतदेव भावयन्ति । यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवात् ॥१०॥ य इति । न खल्वन्यः प्रमाता प्रमाणपर्यायतया परिणमतेऽन्यश्चोपादानहानोपेक्षाबुद्धिपर्यायस्वभावतयेति ॥ १० ॥ इतरथा स्वपरयोः प्रमाणफलयोर्व्यवस्थाविप्लवःप्रसज्येत॥११॥ २७ १८ २४

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70