Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावचूरि के प्रमाणनयतत्वालोकालङ्कारे सप्तमः परिच्छेदः ।
संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव दण्डोस्यास्तीति दण्डी विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् ॥ ४० ॥ ३ यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥
क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षपँस्तु तदाभासः ४२ क्रियाविष्टं वस्तु ध्वनिनाभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तत्तेषां तथा क्षिपति न तूपेक्षते स एवम्भूताभासः ॥ ४२ ॥
यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घट ९ शब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादि ॥ ४३ ॥
पटवदित्यादिरिति । अनेन हि वचसा क्रियानाविष्टस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च प्रमाणबाधित इत्येवम्भूताभासता ॥ ४३ ॥ १२ कः पुनरत्र बहुविषयः को वाल्पविषयो नय इति विवेचयन्तिएतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्शनयाः ॥ ४४ ॥ शेषास्त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥ ४५ ॥ १५ पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ॥४६॥ पूर्वेति । नैगमसङ्ग्रहयोस्तावन्न सङ्ग्रहो बहुविषयो नैगमात्परः किं तहिं नैगम एव सङ्ग्रहात्पूर्व इत्याहु:
२१
५२
१८ सन्मात्रागोचरसङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद्भूमविषयः ४७ सन्मात्रेति । भावाभावभूमिकत्वात् भावाभावविषयत्वात् । भूमविषयो बहुविषयः ॥ ४७ ॥
सद्विशेषप्रकाशकाद्व्यवहारतः सङ्ग्रहः समस्तसमूहोपदर्शकत्वाहुविषयः ॥ ४८ ॥
सदिति । व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः ४८ वर्त्तमानविषयादृजुसूत्राद्व्यवहारस्त्रिकालविषयावलम्बित्वादन
२४
-
ल्पार्थः ॥ ४९ ॥
कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसृत्र स्तद्विपरीतवेद २७ कत्वान्महार्थः ॥ ५० ॥
.

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70