Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 58
________________ सावचूरिके प्रमाणनयतत्त्वालोकालकारे सप्तमः परिच्छेदः। ५३ तद्विपरीतावेदकत्वान्महार्थ इति । शब्दो हि कालादिभेदाद्भिश्चमर्थमुपदर्शयतीति स्तोकविषयः । ऋजुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थ सूचयतीति बहुविषयः॥ ५० ॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात्प्रभूतविषयः॥५१॥ प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात् समभिरूढस्तद-६ न्यथार्थस्थापकत्वान्महागोचरः॥५२॥ एवम्भूतो हि क्रियाभेदेन भिन्नमर्थ प्रतिजानीते इति तुच्छविषयोऽसौ समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रेतीति प्रभूतविषयः ॥ ५२॥ ९ नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३॥ नयेति । नयसप्तभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्यैवकारस्य च प्रयोगसद्भा. १२ वात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात् , सकला. देशस्वभावा तु प्रमाणसप्तभङ्गी सम्पूर्णवस्तुस्वरूपप्रकाशकत्वात् ॥ ५३ ॥ एवं नयस्य लक्षणसङ्ख्या विषयान् व्यवस्थाप्य फलमाहुः- १५ प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ ५४॥ . प्रमाणवदिति । अस्येति नयस्य । यथानन्तर्येण प्रमाणस्य सम्पूर्णवस्त्वज्ञाननिवृत्तिः फलमुक्तम् । तथा नयस्यापि वस्त्वेकदेशाज्ञाननिवृत्तिः फलमा- १८ नन्तर्येणावधार्यम् । यथा च पारम्पर्येण प्रमाणस्योपादानहानोपेक्षाबुद्धयः सम्पूर्णवस्तुविषयाः फलत्वेनोक्तास्तथा नयस्यापि वस्वंशविषयसत्परम्परा. फलत्वेन ज्ञेयाः, तदेतद् द्विप्रकारमपि नयस्य फलं ततः कथञ्चिद्भिन्नमभिन्नं २१ वावगन्तव्यम् ॥ ५४॥ तदित्थं प्रमाणनयतत्त्वं व्यवस्थाप्याखिलप्रमाणनयानां व्यापकं प्रमातार• माहुः . २४ प्रमाता प्रत्यक्षादिसिद्ध आत्मा ॥ ५५॥ प्रमातेति । प्रत्यक्षादिप्रतीतः प्रत्यक्षपरोक्षप्रमाणप्रतीतः । तथाहि सुखी दुःखी चाहमित्याद्यहंप्रत्ययश्चेतनातत्वमात्माख्यमर्पयत्येवेति प्रत्यक्षासिद्धः । २७

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70