Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 59
________________ ५४ सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे सप्तमाष्टमी परिच्छेदौ । अनुमानतोप्यात्मा सिद्ध्यत्येव, तथाहि चैतन्यं तत्त्वादिविलक्षणाश्रयाश्रितम्, तत्र बाधकोपपत्तौ सत्यां कार्यत्वान्यथानुपपत्तेः । नायं हेतुर्विशेष्यासिद्धः ३ कटकुटज्ञानादिविचित्र परिणामपरम्परायाः कादाचित्कत्वेन पटादिवत्तत्रकार्य - स्वप्रसिद्धेः । नापि विशेषणासिद्धः । न शरीरेन्द्रियविषयाश्चैतन्यधर्माणो रूपादिमाौतिकवाद्वा घटवदित्यनेन तत्र तस्य बाधनात् । नाप्ययं व्यभिचारी ६ विरुद्धो वा तन्वादिलक्षणाश्रयाश्रिताद्विपक्षात्तन्वादिवर्तिनो रूपादेः शरीरत्वसामान्याद्वा सविशेषणकार्यत्वहेतोरत्यन्तं व्यावृत्तत्वात् । उपयोगलक्षणो जीव इत्यागमोप्यात्मानमुद्द्योतयति ॥ ५५ ॥ आत्मनः स्वाभिमतधर्मान् वर्णयन्ति चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौनलिकादृष्टवांश्चायम् ॥ ५६ ॥ १२ चैतन्येति । चैतन्यं साकारनिराकारोपयोगाख्यं स्वरूपं यस्यासौ चैतन्यस्वरूपः । परिणमनं प्रतिसमयमपरापरपर्यायेषु गमनं परिणामः स नित्यमस्यास्तीति परिणामी । करोत्यदृष्टादिकमिति कर्ता । साक्षाद्भुङ्क्ते सुखादिकमिति १५ साक्षाद्भोक्ता । स्वदेहपरिमाणः स्वोपात्तवपुर्व्यापकः । प्रतिक्षेत्रं प्रतिशरीरं भिन्नः पृथक् । पौद्गलिकादृष्टवान् पुद्गलघटितकर्मपरतन्त्रः । अयमात्मा ॥ ५६ ॥ आत्मन एव विशेषान्तरमाहुः १८ तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः ॥ ५७ ॥ २१ इति नयात्मस्वरूप निर्णयो नाम सप्तमः परिच्छेदः । तस्येति । तस्यात्मन उपात्तपुंस्त्रीशरीरस्य । एतेन स्त्रीनिर्वाणदूषिणः काष्टाम्बरान् शिक्षयन्ति । इति सप्तमः परिच्छेदः ॥ २४ प्रमाणनयतत्त्वं व्यवस्थाप्य तत्प्रयोगभूमिभूतं वस्तुनिर्णयाभिप्रायोपक्रमं वादं वदन्ति । विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्था२७ पनार्थ साधनदूषणवचनं वादः ॥ १ ॥

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70