Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे सप्तमः परिच्छेदः। ५१ तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव शब्दाभासः ॥ ३४ ॥
यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृक्सिद्धान्य-३ शब्दवदित्यादि ॥ ३५॥
तादृक्सिद्धान्यशब्दवदित्यादिरिति । अनेन हि वचनेन कालादिभेदाद्भिनस्यैवार्थस्याभिधायकत्वं शब्दानां व्यञ्जितम् , एतच्च प्रमाणविरुद्धम् । आदिशब्दात् ६ करोति क्रियते कट इत्यादि शब्दनयाभासोदाहरणं सूचितम् ॥ ३५ ॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थमभिरोहन् समभिरूढः३६ पर्यायेति । शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रेति समभिरूढस्तु पर्या-९ यभेदे भिन्नानानभिमन्यते । अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते ॥३६॥ इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात्पुरन्दर इत्यादिषु यथा३७
इत्यादिषु यथेति पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थ समभिरोह- १२ अभिप्रायविशेषः समभिरूढस्तथान्येष्तपि घटकुटकुम्भादिषु द्रष्टव्यः ॥ ३७॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ३८
यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव १५ भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादि ॥ ३९ ॥
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियादिविशिष्टमर्थ वाच्यत्वेना. भ्युपगच्छन्नेवम्भूतः ॥ ४०॥
शब्देति । समभिरूढो हि इन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थखेन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोशब्दव्यपदेशवत्। तथारूढः सद्भावात् । एवम्भूतस्त्विन्दनादिक्रियापरिण-२१ तमर्थ तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । नहि कश्चिदक्रियाशब्दोऽस्यास्ति। गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात् । गच्छतीति गौः, आशुगामित्वादश्व इति, शुक्लो नील इति गुणशब्दाभिमता अपि २४ क्रियाशब्दा एव शुचिभवनाच्छुल्लो नीलनान्नील इति, देवदत्तो यज्ञदत्त इति यदृच्छाभिमता अणि कियाशब्दा एव देव एनं देयात् यज्ञ एनं देयादिति । २६

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70