Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 55
________________ ५० सावचूरिके प्रमाणनयतत्वालोकालङ्कारे सप्तमः परिच्छेदः । चार्वाको हि प्रमाणप्रतिपनं जीवद्रव्यं पर्यायादिप्रविभागं कल्पनारोपितत्वेनापते भूतचतुष्टयप्रविभागमानं तु स्थूललोकव्यवहारानुयायितया ३ समर्थयते इत्यस्य दर्शनं व्यवहाराभासतयोपदर्शितम् ॥ २६ ॥ द्रव्यार्थिक विधोक्त्वा पर्यायार्थिकमाहुः पर्यायार्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च २७ ६ ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः ॥ २८॥ ऋजु अतीतानागतकाललक्षणकौटिल्यवैकल्यात् प्राञ्जलम् । अयं हि द्रव्यं ९ सदपि गुणीभावान्नापयति। पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयति ॥२८॥ यथा सुखविवर्तः सम्प्रत्यस्तीत्यादि ॥ २९ ॥ सुखविवर्तः सम्प्रत्यस्तीत्यादिः । अनेन हि वाक्येन क्षणस्थायि सुखाख्यं पर्या१२ यमानं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं त्वात्मद्रव्यं गौणतया नाय॑ते । आदितो दुःखपर्यायोऽस्तीत्यादि ॥ २९ ॥ सर्वथा द्रव्यापलापी तदाभासः॥३०॥ १५ यथा तथागतमतम् ॥ ३१॥ तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते तदाधारभूतं तु द्रव्यं तिरस्कुरुते इत्येतन्मतं तदाभासतयोदाहृतम् ॥ ३१ ॥ १४ कालादिभेदेन ध्वनेरर्थमेदं प्रतिपद्यमानः शब्दः ॥ ३२॥ कालेति । कालादिभेदेन कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गभेदेन ॥ ३२ ॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादि ॥ ३३॥ २१ सुमेरुरित्यादिः। अत्रातीतवर्तमानभविष्यत्कालत्रयभेदात् कनकाचलस्य भेदं शब्दनयः प्रतिपद्यते, द्रव्यरूपतया पुनरभेदममुष्योपक्षते । एतच्च कालभेदे उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, २४ दाराः कलत्रमित्यादि सङ्ख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते भवतिष्ठते इत्युपसर्गभेदे ॥ ३३ ॥ २६ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ३४॥

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70