Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
४८ सावचूरिके प्रमाणनयतत्वालोकालकारे सप्तमः परिच्छेदः ।
क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ॥१०॥
विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता (विशेष्यत्वात्) सुखलक्षणस्य तु ३धर्मस्थाप्रधानता (विशेषणस्वात्) इति धर्मधालम्बनोऽयं तृतीयः । न
चैवमस्य प्रमाणात्मकरवानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञतेरसम्भवात्तयोरन्यतर एव हि नैगमेन प्रधानतयाऽनुभूयते । प्राधान्येन द्रव्यपर्यायद्वया६त्मकं चार्थमनुभवद्विज्ञानं प्रमाणं ज्ञेयं नान्यत् ॥ १० ॥
धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धिर्भेगमाभासः ॥११॥
धर्मेति । धर्मद्वयादीनामादिशब्दार्मिद्वयधर्मिधर्मद्वययोः परिग्रहः ॥१॥ ९ यथात्मनि सत्वचैतन्ये परस्परमत्यन्तपृथग्भूते इत्यादि ॥ १२॥
इत्यादिरिति आदिना वस्त्वाख्यपर्यायवद्रव्याख्ययोधर्मिणोः सुखजीवलक्षणयोः धर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन ज्ञेयम् । नैया१२ यिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयम् ॥ १२ ॥
सामान्यमात्रग्राही परामर्शः सङ्ग्रहः ॥ १३ ॥
सामान्येति । सामान्यमानं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः सङ्ग्रहः । १५अयमर्थः स्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद्रहणं स सङ्ग्रहः ॥ १३॥
अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ १८ अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सङ्ग्रहः॥ १५॥
विश्वमेकं सदविशेषादिति यथा ॥ १६॥ २१ विश्वमेकं सदविशेषादिति । यथेति । अस्मिनुक्ते हि सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां सङ्गृह्यते ॥ १६ ॥
सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः १७ २४ सत्ताद्वैतेति । अद्वैतवादिदर्शनान्यखिलानि साङ्ख्यदर्शनं चैतदाभासत्वेन
प्रत्येयम् ॥ १७ ॥ २६ यथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥१८॥

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70