Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे सप्तमः परिच्छेदः । ४७
स प्रकृतोनयः, प्यासो विस्तरः, समासः सङ्क्षेपः । ताभ्यां द्विप्रकारो ब्यासनयः समासनयश्चेति ॥ ३ ॥
व्यासतोऽनेकविकल्पः ॥ ४ ॥
एकांशगोचरस्य हि प्रतिपञ्चभिप्रायविशेषस्य नयस्वरूपत्वमुक्तम् । ततश्चानंतांशात्मके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तॄणामभिप्रायाः तावन्तो नया इति व्यासतो नयस्यानेकप्रकारत्वमुक्तम् ॥ ४ ॥
समासतस्तु द्विमेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ५ ॥
द्रव्यमेवार्थो यस्य विषयत्वेन स द्रव्यार्थिकः, एवं पर्यायार्थिकश्च । एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति द्रव्यस्थितपर्यायस्थिताविति द्रव्यार्थ पर्या- ९ मार्थाविति च प्रोच्येते । गुणस्य पर्याय एवान्तर्भूतत्वेन पर्यायार्थिकेनैव तत्सङ्ग्रहात् (गुणार्थिकस्य पृथग्नोक्तिः ) ॥ ५ ॥
आद्यो नैगम संग्रहव्यवहारभेदात्रेधा ॥ ६ ॥
धर्मयोधर्मिणो धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं नैकगमो नैगमः ॥ ७ ॥
१२
धर्मेति । पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्याऽमुख्यरूपतया यद्विवक्षणं १५ स एवंरूपोऽनैके गमा बोधमार्ग यस्यासौ नैगमः ॥ ७ ॥
अस्योदाहरणाय सूत्रत्रयीमाहुः -
सच्चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥
सेति । धर्मयोरिति प्रधानोपसर्जन भावेनेति सम्बन्धनीयम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम् विशेष्यत्वात् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन, तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो २१ नैगमस्याद्यो भेदः ॥ ८ ॥
१८
वस्तु पर्यावद्द्रव्यं इति धर्मिणोः ॥ ९ ॥
पर्यायवद् द्रव्यं वस्तु वर्तते इति विवक्षायां पर्यायवद्द्रव्याख्यस्य धर्मिणो २४ विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा किं वस्तुपर्यायवद्द्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात्प्राधान्यम् पर्यायवद्रव्यस्य तु विशेषणत्वाद् गौणत्वमिति धर्मिद्वयगोचरोऽयं द्वितीयः ॥ ९ ॥
२७

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70