Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे षष्ठः परिच्छेदः। ४५ भव्यतिरेक इति । यद्यप्युपलखण्डादुभयं ज्यावृत्तं तथापि व्याल्या व्यतिरेकासिद्धेरव्यतिरेकत्वम् ॥ ७ ॥
अनित्यः शब्दः कृतकत्वात् आकाशवदित्यप्रदर्शितव्यतिरेका ॥७८॥
अप्रदर्शित इत्यत्र यदनित्यं स्यात्तस्कृतकमपि न स्यादिति विद्यमानोऽपि स्वतिरेको वादिना वचसा नोक्तः ॥ ७० ॥
अनित्यः शब्दः कृतकत्वात् यदकृतकं तन्नित्यं यथाकाशमिति विपरीतव्यतिरेकः॥ ७९ ॥
वैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयो नचैवमत्रेति ९ विपरीतव्यतिरेकत्वम् ॥ ७९ ॥ उकलक्षणोल्लचनेनोपनयनिगमनयोर्वचने तदाभासौ ॥ ८॥
यथा परिणामी शब्दः कृतकत्वात् । यः कृतकः स परिणामी १२ यथा कुम्भः इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च॥ ८१॥
कृतकश्च कुम्भ इति च इह साध्यधर्म साध्यधर्मिणि साधनधर्म वा दृष्टान्त-१५ धर्मिणि उपसंहरतः उपनयाभासः ॥ ८ ॥
तस्मिन्नेव प्रयोगे तस्मात्कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति च ॥ ८२॥
१८ परिणामी कुम्भ इति चात्रापि साधनधर्म साध्यधर्मिणि साध्यधर्म वा यन्तधर्मिणि उपसंहरतो निगमनाभासः, एवं पक्षशुद्धयाद्यवयवपञ्चकप्रान्त्या वैपरीत्यप्रयोगे तदाभासपञ्चकमिति ज्ञेयम् ॥ ८२ ॥ इत्थमनुसानाभासमुक्त्वाऽऽगमाभासमाहुःअनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥ ८३॥ यथा मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः २४ पिण्डखजूराः सन्ति त्वरितं गच्छत २ शावकाः ॥ ८४ ॥
एवमुक्तः प्रमाणस्य स्वरूपाभासः, सङ्ख्याभासं समाख्यान्तिप्रत्यक्षमेवैकं प्रमाणमित्यादिसङ्ख्यानं तस्य सङ्ख्याभासम् ॥८५॥२७

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70