Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 49
________________ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः । नित्यानित्यः शब्दः सत्त्वात्, यस्तु न नित्यानित्यः स न सँस्तद्यथा स्तंभ इति असिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य ३ सत्त्वस्य चाव्यावृत्तेः ॥ ७३ ॥ ४४ असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वात् यः सर्वश आप्तो वा सक्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्य६ व्यतिरेकः सुगतेऽसर्वशताऽनाप्तत्वयोः साध्यधर्म योर्व्यावृत्तेः सन्देहात् ॥ ७४ ॥ सुगते सर्वज्ञतानाप्तत्वयोः साध्यधर्मयो०र्व्यावृत्तेः सन्देहादिति अयं च परमा९ र्थतोऽसिद्धसाध्यव्यतिरेक एव क्षणिकैकान्तस्य प्रमाणबाधितत्वेन तदभिधातुरसर्वज्ञताऽनासत्व प्राप्तेः केवलं तत्प्रतिक्षेपकप्रमाणपरामर्शेन शून्यानां प्रमातॄणां सन्दिग्धसाध्यव्यतिरिक्तत्वेनाभासता इति तथैवोक्तः ॥ ७४ ॥ १२ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वात् यः पुनरनादेयवचनः स वीतरागस्तद्यथाशौ द्धोद निरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्वस्य निवृत्तेः संशयात् ॥ ७५ ॥ १५ यद्यपि तद्दर्शनरागिणां शौद्धोदनेरादेयवचनत्वं प्रसिद्धं तथापि रागादिमस्वाभावस्तन्निश्चायकप्रमाणवैकल्यतः सन्दिग्ध एव ॥ ७५ ॥ न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽनर्पित१८ निजपिशितशकलत्वात् । यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितश कलस्तद्यथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः तपनबन्धौ वीतरागत्वाभावस्य करुणास्पदेष्वपि २१ परमकृपयानर्पित निजशकलवत्त्वस्य च व्यावृत्तेः सन्देहात् ॥ ७६ ॥ तपनबन्धुर्बुद्धो न ज्ञायते किं रागादिमानुत वीतरागस्तथा करुणास्पदेषु परमकृपया निजपिशितशकलानि समर्पितवान्नवा तन्निश्चायकप्रमाणापरि२४ स्फुरणात् ॥ ७६ ॥ न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वाद्यः पुनर्वीतरागो २६ न स वक्ता यथोपलखण्ड इत्यव्यतिरेकः ॥ ७७ ॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70