Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 48
________________ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः। ४३ रागादिमान्विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः अनन्वय इति । यद्यपीष्टपुरुषे रागादिमत्वं वक्तत्वं च साध्यसाधनधौं दृष्टौ। तथापि यो यो वका स स रागादिमानिति व्यास्यसिद्धरनन्वयत्वम् ॥ ६६ ॥ अनित्यः शब्दः कृतकत्वाद्धटवदिति अप्रदर्शितान्वयः॥ ६७ ॥ अप्रदर्शितान्वय इत्यत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथापि वादिना वचनेन ६ न प्रकाशित इति परार्थानुमानस्य वाचनिकं दुष्टत्वम् । एवं विपरीतव्यतिरेकेध्वपि द्रष्टव्यम् ॥ ६ ॥ अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत्कृतकं घटवदिति ९ विपरीतान्वयः॥ ६८॥ विपरीतान्वय इति । प्रसिद्धानुवादेन झप्रसिद्धं विधेयम्, प्रसिद्धं चात्र कृतकत्वम् हेतुस्वेनोपादानात् । अप्रसिद्धं त्वनित्यत्वं साध्यत्वेन निर्देशात् । १२ प्रसिद्धस्य कृतकत्वस्यैवानुवादे सर्वनाम्ना यच्छब्देन निर्देशो युक्तो न पुनरप्रसिद्धस्यानित्यत्वस्य । अनित्यत्वस्यैव विधिसर्वनाम्ना तच्छब्देन परामर्श उपपनो नतु कृतकस्य ॥ ६॥ वैधय॒णापि दृष्टान्ताभासो नवधा ॥ ६९॥ __ असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्य-१८ तिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकः, अव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥ ७०॥ तेषु भ्रान्तमनुमानं प्रमाणत्वात् यत्पुनन्तं न भवति न तत्प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्नशानाद्वान्तत्वस्यानिवृत्तेः ॥ ७१॥ निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात् यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः ॥ ७२॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70