Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः । ३७
तुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्य इत्यादि ज्ञानं प्रत्यभिशानाभासम् ॥ ३३ ॥
1
तुल्ये इति । तिर्यक्सामान्यालिङ्गिते भावे स एवायमिति, ऊर्ध्ववासा- ३ मान्यस्वभावे चैकस्मिन् द्रव्ये तेन तुल्य इति ज्ञानमादित एवञ्जातीयकमन्यदपि ज्ञानं प्रत्यभिज्ञाभासम् ॥ ३३ ॥
यमलकजातवत् ॥ ३४ ॥
यमलयातयोरैकस्याः स्त्रियाः एकदिनोत्पन्नयोः पुत्रयोर्मध्यादेकत्र द्वितीयेन सुल्योऽयमिति जिज्ञासिते स एवायमिति । अपरत्र स एवायमिति बुभुत्सिते तेन तुल्योऽयमिति च ज्ञानं प्रत्यभिज्ञानाभासम् ॥ ३४ ॥ असत्यामपि व्याप्तौ तदवभासस्तर्काभासः ॥ ३५॥ असत्यामपीति । व्याप्तिरविनाभावः ॥ ३५ ॥
स श्यामो मैत्रतनयत्वात् इत्यत्र यावान् मैत्रतनयः स श्याम १२ इति यथा ॥ ३६ ॥
नहि मैत्रतनयत्वेन हेतोः श्यामत्वेन व्याप्तिरस्ति । शाकाद्याहारपरिणतिपूर्वकत्वात्श्यामतायाः । यो हि जनन्युपभुक्तशाकाद्या हारपरिणतिपूर्वकस्तनयः १५ स एव श्याम इति सर्वाक्षेपेण यः प्रत्ययः स तर्कः ॥ ३६ ॥
पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥ ३७ ॥
पक्षेति । एतच्च यदा स्वप्रतिपत्त्यर्थं तदा स्वार्थानुमानाभासम्, यदा तु १८ परप्रतिपत्त्यर्थं पक्षादिवचनरूपापन्नं तदा परार्थानुमानाभासम् ॥ ३७ ॥
तत्र प्रतीत निराकृतानभीप्सित साध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥ ३८ ॥
तत्रेति । अप्रतीतानिराकृता भीप्सित साध्य धर्मविशिष्टधर्मिणां सम्यक्पक्षस्वेन प्रागुक्तत्वात् एतेषां च तद्वितीयत्वात् ॥ ३८ ॥
२१
प्रतीतसाध्यधर्मविशेषणे यथा आर्हतान्प्रति अवधारणवर्ज २४ परेण प्रयुज्यमानः समस्ति जीव इत्यादि ॥ ३९ ॥
प्रतीतेति । भवधारणं वर्जयित्वा परोपन्यस्तः सर्वोपि वाक्प्रयोग आर्हतानां प्रतीतमेवार्थं प्रकाशयति ते हि सर्व जीवादिवस्तु अनेकान्तात्मकं प्रपन्नास्त्र - २७

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70