Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 43
________________ ३८ सावचूरिके प्रमाणनयतत्वालोकालकारे षष्ठः परिच्छेदः । तस्तेषामवधारणरहितं प्रमाणवाक्यं सुनयवाक्यं वा प्रयुज्यमानं प्रसिद्धमेवार्थमुद्रावयतीति व्यर्थस्तत्प्रयोगः । सिद्धसाधनः प्रसिद्धसंबन्ध इत्यपि संज्ञा. ३यमखाविरुद्धम् ॥ ३९॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमालोकखवचना. दिभिः साध्यस्य निराकृतत्वादनेकप्रकारः॥४०॥ ६ निराकृतेति । आदिशब्दात् स्मरणप्रत्यभिज्ञानतर्कनिराकृतसाध्यधर्मविशेषणश्च ॥ ४०॥ प्रत्यक्ष निराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण ९आत्मेति ॥४१॥ प्रत्यक्षेति । स्वसंवेदनप्रत्यक्षेण हि पृथिव्यतेजोवायुभ्यः शरीरस्वेन परिणतेभ्यो विलक्षणोऽन्य आत्मा परिच्छिद्यते । इति तद्विलक्षणात्मनिराकरणप्रतिज्ञा १२ तेन बाध्यते । यथाऽनुष्णोऽमिरिति प्रतिज्ञा बाह्येन्द्रियप्रत्यक्षेण ॥ ४ ॥ अनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्वशो वीतरागो वा ॥४२॥ १५ अनुमानेति । अत्र यः कश्चित् निहाँसातिशयवान् स कचित्स्वकारणजनि तनिर्मूलक्षयो यथा कनकादिमलः, निहासातिशयवती च दोषावरणे इत्यने नानुमानेन सुव्यकैव बाधा । एतमादनुमानाचत्र कचन पुरुषे दोषावरणयोः १४ सर्वथा प्रक्षयः स सर्वज्ञो वीतरागश्च ॥ ४२ ॥ आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनिभोजनं भजनीयम् ॥४३॥ 1 आगमेति । "अस्थंगयंमि आइच्चे" इत्यागमः ॥ ४३ ॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः॥४४॥ २४ लोकेति । लोकशब्देमात्र लोकप्रतीतिस्ततः सर्वा हि लोकप्रतीतिरीशी यत्पारमार्थिकं प्रमाणम्, तेन च तरवातत्वविवक. पारमार्थिक एवं क्रियते । मनु लोकप्रतीतिर्यचप्रमाणं कथं तया बाधः, प्रमाणं चेत्प्रत्यक्षनिराकृतसाध्य२७ धर्मविशेषणादिपक्षाभासेष्वेवान्तर्भूतत्वाब वाच्या प्रकृतः पक्षामास इति चेत् ।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70