Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 45
________________ ४० सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे षष्ठः परिच्छेदः । तायाः स्वपक्षे क्वाप्यप्रसिद्धेः, विशेष्यस्य तु धर्मिणः सिद्धिर्विकल्पादप्युक्तति कथमप्रसिद्धतास्य । एतेनाप्रसिद्धोभयोऽपि परास्तः ॥ ४६॥ ३ हेत्वाभासानाहुः असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः॥४७॥ असिद्धेति । निश्चितान्यथानुपपत्त्याख्यैकहेतुलक्षणविकलरवेनाहेतवो हेवा. ६ भासाः ॥ ४७ ॥ यस्यान्यथानुपपत्तिःप्रमाणेन न प्रतीयतेऽसावसिद्धः॥४८॥ यस्येति । अन्यथानुपपत्तेविपरीताया अनिश्चिताया विरुद्धानकान्तिक९षेन कीर्तयिष्यमाणत्वादिह हेतुस्वरूपाप्रतीतिद्वारैकैवानुपपत्यप्रतीतिरियमज्ञानात्सन्देहाद्विपर्यायाद्वा ज्ञेया ॥ ४८॥ स द्विविधः-उभयासिद्धोऽन्यतरासिद्धश्च ॥ ४९ ॥ १२ उभयासिद्धो यथा-परिणामी शब्दश्चाक्षुषत्वात् ॥५०॥ अन्यतरासिद्धिर्यथा-अचेतनास्तरवो विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात् ॥५१॥ १५ अन्यतरासिद्धिरिति । तथागतो हि तरूणामचैतन्यं साधयन् विज्ञानेन्द्रिया युनिरोधलक्षणमरणरहितत्त्वादिति हेतुमुक्तवान् । स च जैनानां तरुचैतन्य वादिनामसिद्धस्तदागमे द्रुमेष्वपि विज्ञानेन्द्रियायुषां प्रमाणतः प्रतिष्ठितस्वात् । १८ इदं च प्रतिवाद्यसिद्यपेक्षयोदाहरणम् । वाद्यसिद्यपेक्षया तु अचेतनाः सुखा दयः उत्पत्तिमत्त्रात् । अत्र वादिनः साङ्ख्यस्योत्पत्तिमत्वमप्रसिद्ध तेनाविर्भावमात्रस्यैव सर्वत्र स्वीकृतत्वात् । ननु परैः स्वरूपासिद्धयेऽनित्यः शब्दश्चाक्षुष२१ स्वात्-शब्दधर्मिण्युपदिष्टं चाक्षुषत्वं न स्वरूपतोऽस्तीति स्वरूपासिद्धम् , विरुद्धमधिकरणं यस्य स चासावसिद्धश्चेति व्यधिकरणासिद्धो यथा भनित्यः शब्दः पटस्य कृतकत्वात् इत्यादयो भूयांसोऽसिद्धभेदा उक्तास्त एते भवद्भिः २४ कथं नोक्ताः? उच्यते । एतेषु ये हेत्वाभासतां भजन्ते ते यदोभयवाद्यसिद्धत्वेन विवक्ष्यन्ते ततोभयासिद्धेऽन्तर्भवन्ति यदा त्वन्यतरासिद्धत्वेन तदान्यतरासिद्धे। व्यधिकरणासिद्धस्तु हेरवाभासो न स्यादेव व्यधिकरणादपि पित्रोर्ब्राह्मण्यारपुत्रे ब्राह्मण्यानुमानदर्शनात् । आश्रयासिद्धतापि न युक्ता अस्ति सर्वज्ञश्चन्द्रोपरागा१४ विज्ञानान्यथानुपपत्तेरित्यादेरपि गमकत्वनिर्णयात् । नन्वन्यतरासिदो हेवा.

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70