Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः ।
इतरथेति । इतरथेत्येकस्यैव प्रमातुः प्रमाणफलतादात्म्यानङ्गीकारे इमे प्रमाणफले स्वकीये, इभे च परकीये, इति नैयत्यं न स्यादित्यर्थः । ३ अज्ञाननिवृत्तिस्वरूपेण प्रमाणांदभिन्नेन साक्षात्फलेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥ १२ ॥ प्रमाणफलत्वान्यथानुपपत्तेर्हेतोरिति
૨૪
अनैकान्तिकत्वं शाक्यैः ॥ १२ ॥
१२
९ कथचिदिति वक्ष्यमाणप्रकारेण ॥ १३ ॥
तमेवाहु:
न शङ्कनीयं
कुत इत्याहुः ।
कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् ॥ १३ ॥
साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥ १४ ॥ साध्येति । ये हि साध्यसाधनभावेन प्रतीयेते, परस्परं ते भिद्येते, यथा कुठारच्छिदे, साध्यसाधनभावेन प्रतीयेते च प्रमाणाज्ञाननिवृत्याख्ये फले ॥१४ ॥ अस्यैव हेतोरसिद्धतापरिहाराय प्रमाणस्य साधनतां समर्थयन्ते । स्वपरव्यवसितौ साधकतम -
१५ प्रमाणं हि करणाख्यं साधनम्, त्वात् ॥ १५ ॥
फलस्य साध्यत्वं समर्थयन्ते ।
१८ स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यम्, प्रमाणनिष्पाद्यत्वात् ॥ १६ ॥
स्वेति । यत् प्रमाणनिष्पाद्यं तत् साध्यम्, यथोपादानबुद्ध्यादिकम्, २१ प्रमाणनिष्पाद्यं च प्रकृतफलम्, तत्र प्रमाणादेकान्तेन फलस्याभेदः ॥ १६ ॥ प्रसङ्गतः कर्तुरपि सकाशात् प्रस्तुतफलस्याभेदं समर्थयन्ते ।
प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः ॥ १७ ॥ २४ प्रमातुरिति । कर्तुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः ॥ १७ ॥ अत्र हेतुमाहुः
२६ कर्तृक्रिययोः साध्यसाधकभावेनोपलम्भात् ॥ १८ ॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70