Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
३० सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थः परिच्छेदः । 'क्रियमाणस्योपकारस्यैकस्य विरोधात् (५) गुणिदेशस्य च प्रतिगुणं भेदात्तद
भेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसंगात् (६) संसर्गस्य च प्रतिसंसर्गि३ भेदात्तदभेदे संसर्गिभेदविरोधात् (७) शब्दस्य च प्रतिविषयं नानात्वासर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेः शब्दान्तरवैफल्यापत्तेः ॥ ८॥ तत्त्वतोऽस्तित्वादीनामेकत्र वस्तुन्येवमभेदवृत्तेरसंभवे ६कालादिभेदोपचारः क्रियते । तदेताभ्यामभेदवृत्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मास्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स सकलादेशः प्रमाणवाक्यापरपर्यायः । हेतुः कालात्मरूपार्थाः संबन्धोपकृती ९तथा । गुणिदेशश्च संसर्गः शब्दश्चाष्टौ भिदाभिदोः ॥ ४४ ॥
तद्विपरीतस्तु विकलादेशः॥ ४५ ॥
तद्विपरीतेति । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यानेदो. १२पचाराद्वा क्रमेण यदभिधायकं वाक्यं स विकलादेशः ॥ ४५ ॥
प्रमाणं निर्णीयाथ यतः कारणात्प्रतिनियतमर्थमेतद्यवस्थापयति तदाहुः
तद् द्विभेदमपि प्रमाणमात्मीयप्रतिवन्धकापगमविशेषस्वरूप१५ सामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ॥ ४६॥
तदिति । स्वकीयज्ञानावरणक्षयक्षयोपशमलक्षणयोग्यतावशात् प्रतिनियतं नीलादिकमर्थ व्यवस्थापयति ॥ ४६ ॥ १८ न तदुत्पत्तितदाकारताभ्याम् , तयोः पार्थक्येन सामस्त्येन ___ च व्यभिचारोपलम्भात् ॥ ४७ ॥
इति आगमाख्यस्वरूपनिर्णयो नाम चतुर्थः परिच्छेदः ॥ ४ ॥ २१ तथाहि ज्ञानस्यैताभ्यां व्यस्ताभ्यां समस्ताभ्यां वा प्रतिनियतार्थव्यवस्थाप
कत्वं स्यात् । यद्याद्यः पक्षस्तदा कपालक्षणः कलशान्त्यक्षणस्य व्यवस्थापकः स्यात्तदुत्पत्तेः केवलायाः सद्भावात् , स्तम्भः स्तम्भान्तरस्य व्यवस्थापकः स्यात्त२४ दाकारतायास्तदुत्पत्तिरहिताया सद्भावात् । अथ द्वितीयस्तदा कपालस्योत्तरः
क्षणः पूर्वक्षणस्य व्यवस्थापको भवेत्समुदितयोस्तदुत्पत्तितदाकारतयोर्विद्यमान२६ त्वात्। अथ विद्यमानयोरप्यनयोर्ज्ञानमेवार्थस्य व्यवस्थापकम् नार्थस्तस्य जडत्वा.

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70