Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
२८ सावचूरिके प्रमाणनयतत्वालोकालकारे चतुर्थः परिच्छेदः । विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धः ॥ ३६॥
नन्वेकसिन्जीवादी वस्तुन्यनन्तानां धर्माणामङ्गीकरणादनन्ता एव वचन३ मार्गा स्युस्ततो वृथैव सप्तभङ्गीति अवाणं निरस्पति
एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसंगादसंगतैव सप्तभङ्गीति चेतसि न निधेयम् ॥ ३७॥ ६ अत्र हेतुमाहुः
विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामेव सप्तभङ्गीनां संभवात् ॥ ३८॥ ९ विधिरिति । एकैकं पर्यायमाश्रित्य वस्तुनि विधिनिषेधविकल्पाभ्यां सौव भनयः स्युः । न स्वनन्ताः ॥ ३०॥
कुतः सप्तैव भङ्गा इत्याहुः१२ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥३९॥
एतदपि कुत इत्याहुः
तेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात् ॥४०॥ १५ तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात् ॥४१॥
तस्या इति प्रतिपाद्यजिज्ञासायाः। तत्संदेहसमुत्पादादिति प्रतिपायसंशयसमुत्पत्तेः ॥ ४॥ १८ तस्यापि सप्तप्रकारत्वनियमः खगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः॥४२॥
तस्य प्रतिपाद्यगतसंदेहस्य । 'स्वगोचरवस्तुधर्माणां' संदेहविषयीकृतानाम२१ स्तिस्वादिवस्तुपर्यायाणाम् ॥ ४२ ॥
इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशखभावा विकलादेशखभावा च॥४३॥ २४ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरमेदवृत्तिप्रा.
धान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकला२६ देशः॥४४॥

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70